॥ श्री गणेश स्तोत्र ॥
॥ Shri Ganesh Stotra ॥
॥ ॐ गण गणपतये नमः ॥
ॐ कारमाद्यं प्रवदन्ति सन्तो वाचः श्रुतिनामपि ये गृणन्ति ।
गजाननं देवगणानतांघ्रिं भजेऽहमर्द्धेन्दुकृतावतंसम् ॥ १॥
पादारविन्दार्चनतत्पराणां संसारदावानलभङ्गदक्षम् ।
निरन्तरं निर्गतदानतोयैस्तं नौमि विघ्नेश्वरमम्बुजाभम् ॥ २॥

कृताङ्गरागं नवकुंकुमेन, मत्तालिमालां मदपङ्कलग्नाम् ।
निवारयन्तं निजकर्णतालैः, को विस्मरेत् पुत्रमनङ्गशत्रोः ॥ ३॥
शम्भोर्जटाजूटनिवासिगङ्गाजलं समानीय कराम्बुजेन ।
लीलाभिराराच्छिवमर्चयन्तं, गजाननं भक्तियुता भजन्ति ॥ ४॥

कुमारभुक्तौ पुनरात्महेतोः, पयोधरौ पर्वतराजपुत्र्याः ।
प्रक्षालयन्तं करशीकरेण, मौग्ध्येन तं नागमुखं भजामि ॥ ५॥
त्वया समुद्धृत्य गजास्यहस्तं, शीकराः पुष्कररन्ध्रमुक्ताः ।
व्योमाङ्गने ते विचरन्ति ताराः, कालात्मना मौक्तिकतुल्यभासः ॥ ६॥

क्रीडारते वारिनिधौ गजास्ये, वेलामतिक्रामति वारिपूरे ।
कल्पावसानं परिचिन्त्य देवाः, कैलासनाथं श्रुतिभिः स्तुवन्ति ॥ ७॥
नागानने नागकृतोत्तरीये, क्रीडारते देवकुमारसङ्घैः ।
त्वयि क्षणं कालगतिं विहाय, तौ प्रापतुः कन्दुकतामिनेन्दु ॥ ८॥

मदोल्लसत्पञ्चमुखैरजस्रमध्यापयन्तं सकलागमार्थान् ।
देवान् ऋषीन् भक्तजनैकमित्रं, हेरम्बमर्कारुणमाश्रयामि ॥ ९॥
पादाम्बुजाभ्यामतिकोमलाभ्यां, कृतार्थयन्तं कृपया धरित्रीम् ।
अकारणं कारणमाप्तवाचां, तन्नागवक्त्रं न जहाति चेतः ॥ १०॥

येनार्पितं सत्यवतीसुताय, पुराणमालिख्य विषाणकोट्या ।
तं चन्द्रमौलेस्तनयं तपोभिराराध्यमानन्दघनं भजामि ॥ ११॥
पदं श्रुतीनामपदं स्तुतीनां, लीलावतारं परमात्ममूर्तेः ।
नागात्मको वा पुरुषात्मको वेत्यभेद्यमाद्यं भज विघ्नराजम् ॥ १२॥

पाशांकुशौ भग्नरदं त्वभीष्टं, करैर्दधानं कररन्ध्रमुक्तैः ।
मुक्ताफलाभैः पृथुशीकरौघैः, सिञ्चन्तमङ्गं शिवयोर्भजामि ॥ १३॥
अनेकमेकं गजमेकदन्तं, चैतन्यरूपं जगदादिबीजम् ।
ब्रह्मेति यं ब्रह्मविदो वदन्ति, तं शम्भुसूनुं सततं भजामि ॥ १४॥

अङ्के स्थिताया निजवल्लभाया, मुखाम्बुजालोकनलोलनेत्रम् ।
स्मेराननाब्जं मदवैभवेन, रुद्धं भजे विश्वविमोहनं तम् ॥ १५॥
ये पूर्वमाराध्य गजानन! त्वां, सर्वाणि शास्त्राणि पठन्ति तेषाम् ।
त्वत्तो न चान्यत् प्रतिपाद्यमस्ति, तदस्ति चेत् सत्यमसत्यकल्पम् ॥ १६॥

हिरण्यवर्णं जगदीशितारं, कविं पुराणं रविमण्डलस्थम् ।
गजाननं यं प्रवदन्ति सन्तस्तत् कालयोगैस्तमहं प्रपद्ये ॥ १७॥
वेदान्त गीतं पुरुषं भजेऽहमात्मानमानन्दघनं हृदिस्थम् ।
गजाननं यन्महसा जनानां, विघ्नान्धकारो विलयं प्रयाति ॥ १८॥

शम्भोः समालोक्य जटाकलापे, शशाङ्कखण्डं निजपुष्करेण ।
स्वभग्नदन्तं प्रविचिन्त्य मौग्ध्यादाकर्ष्टुकामः श्रियमातनोतु ॥ १९॥
विघ्नार्गलानां विनिपातनार्थं, यं नारिकेलैः कदलीफलाद्यैः ।
प्रभावयन्तो मदवारणास्यं, प्रभुं सदाऽभीष्टमहं भजे तम् ॥ २०॥

॥ फलश्रुति ॥
यज्ञैरनेकैर्बहुभिस्तपोभिराराध्यमाद्यं गजराजवक्त्रम् ।
स्तुत्याऽनया ये विधिना स्तुवन्ति, ते सर्वलक्ष्मीनिधयो भवन्ति ॥ १॥

॥ इति श्री गणेश स्तोत्रं सम्पूर्णम् ॥
॥ श्री गजानन स्तोत्र ॥
॥ Shri Gajanan Stotra ॥
॥ ॐ गण गणपतये नमः ॥
जय देव गजानन प्रभो जय सर्वासुरगर्वभेदक ।
जय सङ्कटपाशमोचन प्रणवाकार विनायकाऽव माम् ॥ १॥
तव देव जयन्ति मूर्तयः कलितागण्यसुपुण्यकीर्तयः ।
मनसा भजतां हतार्तयः कृतशीघ्राधिककामपूर्तयः ॥ २॥

तव रम्यकथास्वनादरः स नरो जन्मलयैकमन्दिरम् ।
न परत्र न चेह सौख्यभाङ् निजदुष्कर्मवशाद्विमोहभाक् ॥ ३॥
गजवक्त्र तवाङ्घ्रिपङ्कजे ध्वजवज्राङ्कयुते सदा भजे ।
तव मूर्तिमहं परिष्वजे त्वयि हृन्मेऽस्तु सुमूषकध्वजे ॥ ४॥

त्वदृते हि गजानन प्रभो न हि भक्तौघसुखौघदायकः ।
सुदृढा मम भक्तिरस्तु ते चरणाब्जे विबुधेश विश्वपाः ॥ ५॥
फलपूरगदेक्षुकार्मुकैर्युत रुक्चक्रधराब्जपाशधृक् ।
अव वारिजशालिमञ्जरीरदधृग्रत्नघटाढ्यशुण्ड माम् ॥ ६॥

करयुग्मसुहेमशृङ्खल द्विजराजाढ्यक तुन्दिलोदर ।
शशिसुप्रभ विद्यया युत स्तनभारानमितेड्य रक्ष माम् ॥ ७॥
शशिभास्करवीतिहोत्रदृक् शुभसिन्दूररुचे विनायक ।
द्विपवक्त्र महाहिभूषण त्रिदिवेशासुरवन्द्य पाहि माम् ॥ ८॥

सृणिपाशवरद्विजैर्युत द्विजराजार्धक मूषकध्वज ।
शुभलोहितचन्दनोक्षित श्रुतिवेद्याभयदायकाऽव माम् ॥ ९॥
स्मरणात्तव शम्भुविध्यजेन्द्विनशक्रादिसुराः कृतार्थताम् ।
गणपाऽऽपुरघौघभञ्जन द्विपराजास्य सदैव पाहि माम् ॥ १०॥

शरणं भगवान्विनायकः शरणं मे सततं च सिद्धिका ।
शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम् ॥ ११॥
गलद्दानगण्डं महाहस्तितुण्डं सुपर्वप्रचण्डं धृतार्धेन्दुखण्डम् ।
करास्फोटिताण्डं महाहस्तदण्डं हृताढ्यारिमुण्डं भजे वक्रतुण्डम् ॥ १२॥

गणनाथ निबन्धसंस्तवं कृपयाङ्गीकुरु मत्कृतं ह्यमुम् ।
इदमेव सदा प्रदीयतां करुणा मय्यतुलाऽस्तु सर्वदा ॥ १३॥

॥ इति श्री गजानन स्तोत्रं सम्पूर्णम् ॥
॥ संकट नाशनं श्री गणेश स्तोत्र ॥
॥ Sankat Nashnam Shri Ganesh Stotra ॥
॥ ॐ गण गणपतये नमः ॥
नारद उवाच
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये ॥ १॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ ३॥
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ॥ ५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६॥

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८॥

॥ इति संकट नाशनं श्री गणेश स्तोत्रं सम्पूर्णम् ॥
॥ शत्रु संहारकम श्री ऐक दन्त स्तोत्र ॥
॥ Shatru Sanharakam Shri Ek Dant Stotra ॥
॥ ॐ गण गणपतये नमः ॥
सनत्कुमार उवाच
श्रृणु शम्भ्वादयो देवा मदासुरविनाशने ।
उपायं कथयिष्यामि तत्कुरुध्वं मुनीश्वराः ॥ १॥
गणेशं पूजयध्वं वै यूयं सर्वे समावृताः ।
स बाह्यान्तरसंस्थो वै हनिष्यति मदासुरम् ॥ २॥
सनत्कुमारवाक्यं तच्छ्रुत्वा देवर्षिसत्तमाः ।
ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकन्धराः ॥ ३॥

देवर्षय उवाच
केनोपायेन देवेशं गणेशं मुनिसत्तमम् ।
पूजयामो विशेषेण तं ब्रवीहि यथातथम् ॥ ४॥
एवं पृष्टो महायोगी देवैश्च मुनिभिः सह ।
उवाचाराधनं तेभ्यो गाणपत्यो महायशाः ॥ ५॥
पूजयामो विशेषेण तं ब्रवीहि यथातथम् ॥ ४॥
एवं पृष्टो महायोगी देवैश्च मुनिभिः सह ।
उवाचाराधनं तेभ्यो गाणपत्यो महायशाः ॥ ५॥
एकाक्षरेण तं देवं हृदिस्थं गणनायकम् ।
विधिना पूजयध्वं च तुष्टस्तेन भविष्यति ॥ ६॥
ध्यानं तस्य प्रवक्ष्यामि श्रृणुध्वं सुरसत्तमाः ।
यूयं तं तादृशं ध्यात्वा तोषयध्वं विधानतः ॥ ७॥

एकदन्तं चतुर्बाहुं गजवक्त्रं महोदरम् ।
सिद्धिबुद्धिसमायुक्तं मूषकारूढमेव च ॥ ८॥
नाभिशेषं सपाशं वै परशुं कमलं शुभम् ।
अभयं सन्दधन्तं च प्रसन्नवदनाम्बुजम् ॥ ९॥

भक्तेभ्यो वरदं नित्यमभक्तानां निषूदनम् ।
एतादृशं हृदि ध्यात्वा सेवध्वमेकदन्तकम् ॥ १०॥
सर्वेषां हृदि संस्थोऽयं बुद्धिप्रेरकभावतः ।
स्वयं बुद्धिपतिः साक्षादात्मा च सर्वदेहिनाम् ॥ ११॥

एकशब्दात्मिका माया देहरूपा विलासिनी ।
दन्तः सत्तात्मकः प्रोक्तः शब्दस्तत्र न संशयः ॥ १२॥
मायाया धारकोऽयं वै सत्तमात्रेण संस्थितः ।
एकदन्तो गणेशो वै कथ्यते वेदवादिभिः ॥ १३॥

सर्वसत्ताधरं पूर्णमेकदन्तं गजाननम् ।
सेवध्वं भक्तिभावेन भविष्यति सदा सुखम् ॥ १४॥
एवमुक्त्वा ययौ योगी स सनत्कुमार आदरात् ।
जय हेरम्बमन्त्रं वै समुच्चरन् मुखेन सः ॥ १५॥

ततो देवगणाः सर्वे मनुयस्तपसि स्थिताः ।
एकाक्षरविधानेन तोषयामासुरादरात् ॥ १६॥
पत्रभक्षा निराहारा वायुभक्षा जलाशिनः ।
कन्दमूलफलाहाराः केचित्केचिद्बभूविरे ॥ १७॥

संस्थिता ध्याननिष्ठा वै जपहोमपरायणाः ।
नानातपःप्रभावेण तोषयन् गणनायकम् ॥ १८॥
गतवर्षशतेषु वै सन्तुष्ट एकदन्तकः ।
आययौ तान्वरान्दातुं ध्यातस्तैर्यादृशस्तथा ॥ १९॥

जगाद स तपोयुक्तान् मुनीन्देवन्गजाननः ।
वरं वृणुत तुष्टोऽहं दास्यामि ब्राह्मणामराः ॥ २०॥
तस्य तद्वचनं श्रुत्वा हृष्टा देवर्षयोऽभवन् ।
उन्मील्य लोचने देवमपश्यन्समीपस्थितम् ॥ २१॥

दृष्ट्वा मूषकसंस्थं तं प्रणेमुस्ते गजाननम् ।
मुनयो देवदेवेन्द्रा पुपूजुर्भक्तिसंयुताः ॥ २२॥
पूजयित्वा यथान्यायं प्रणम्य करसम्पुटाः ।
तुष्टुवुरेकदन्तं तं भक्तिनम्रात्मकन्धराः ॥ २३॥

नमस्ते गजवक्त्राय गणेशाय नमो नमः ।
अनन्तानन्दभोक्त्रे वै ब्रह्मणे ब्रह्मरूपिणे ॥ २४॥
आदिमध्यान्तहीनाय चराचरमयाय ते ।
अनन्तोदरसंस्थाय नाभिशेषाय ते नमः ॥ २५॥

कर्त्रे पात्रे च संहर्त्रे त्रिगुणानामधीश्वर ।
सर्वसत्ताधरायैव निर्गुणाय नमो नमः ॥ २६॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च ।
ब्रह्मभूताय देवेश सगुणाय नमो नमः ॥ २७॥

परशुधारिणे तुभ्यं कमलहस्तशोभिने ।
पाशाभयधरायैव महोदराय ते नमः ॥ २८॥
मूषकारूढदेवाय मूषकध्वजिने नमः ।
आदिपूज्याय सर्वाय सर्वपूज्याय ते नमः ॥ २९॥

सगुणात्मककायाय निर्गुणमस्तकाय ते ।
तयोदभेदरूपेण चैकदन्तय ते नमः ॥ ३०॥
देवान्ताऽगोचरायैव वेदान्तलभ्यकाय ते ।
योगाधीशाय वै तुभ्यं ब्रह्माधीशाय ते नमः ॥ ३१॥

अपारगुणधामायानन्तमायाप्रचरिणे ।
नानावतारभेदाय शान्तिदाय नमो नमः ॥ ३२॥
वयं धन्या वयं धन्या यैर्दृष्टो गणनायकः ।
ब्रह्मभूतमयः साक्षात्प्रत्यक्षं पुरतः स्थितः ॥ ३३॥

एवं स्तुत्वा प्रहर्षेण ननृतुर्भक्तिसंयुताः ।
साश्रुनेत्रान्सरोमाञ्चान्दृष्ट्वा तान् ढुण्ढिरब्रवीत् ॥ ३४॥

एकदन्त उवाच
वरं वृणुत देवेशा मनुयश्च यथेप्सितम् ।
दास्यामि तं न सन्देहो यद्यपि दुर्लभं भवेत् ॥ ३५॥
भवत्कृतं मदीयं तत् स्तोत्रं सर्वार्थदं भवेत् ।
पठते श्रुण्वते देवा नानासिद्धिप्रदं द्विजाः ॥ ३६॥

शत्रुनाशकरं चैव सुखानन्दप्रदायकम् ।
पुत्रपौत्रादिकं सर्वं लभते पाठतो नरः ॥ ३७॥

गृत्समद उवाच
एवं तस्य वचः श्रुत्वा हर्षयुक्ताः सुरर्षयः ।
ऊचुस्तमेकदन्तं ते प्रणम्य भक्तिभावतः ॥ ३८॥

सुरर्षय उवाच
यदि तुष्टोऽसि सर्वेश एकदन्त महाप्रभो ।
यदि देयो वरो नश्चेज्जहि दुष्टं मदासुरम् ॥ ३९॥

॥ इति शत्रु संहारकम ऐक दन्त स्तोत्रम् समाप्तम् ॥
॥ विघ्न निवारकं श्री सिद्धिविनायक स्तोत्र ॥
॥ Vighan Nivarkam Shri Sidhivinayak Stotra ॥
॥ ॐ गण गणपतये नमः ॥
विघ्नेश विघ्नचयखण्डननामधेय श्रीशङ्करात्मज सुराधिपवन्द्यपाद ।
दुर्गामहाव्रतफलाखिलमङ्गलात्मन् विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ १॥
सत्पद्मरागमणिवर्णशरीरकान्तिः श्रीसिद्धिबुद्धिपरिचर्चितकुङ्कुमश्रीः ।
दक्षस्तने वलयितातिमनोज्ञशुण्डो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ २॥

पाशाङ्कुशाब्जपरशूंश्च दधच्चतुर्भिर्दोर्भिश्च शोणकुसुमस्रगुमाङ्गजातः ।
सिन्दूरशोभितललाटविधुप्रकाशो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ३॥
कार्येषु विघ्नचयभीतविरञ्चिमुख्यैः सम्पूजितः सुरवरैरपि मोदकाद्यैः ।
सर्वेषु च प्रथममेव सुरेषु पूज्यो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ४॥

शीघ्राञ्चनस्खलनतुङ्गरवोर्ध्वकण्ठस्थूलोन्दुरुद्रवणहासितदेवसङ्घः ।
शूर्पश्रुतिश्च पृथुवर्तुलतुङ्गतुन्दो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ५॥
यज्ञोपवीतपदलंभितनागराजो मासादिपुण्यददृशीकृतऋक्षराजः ।
भक्ताभयप्रद दयालय विघ्नराज विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ६॥

सद्रत्नसारततिराजितसत्किरीटः कौसुम्भचारुवसनद्वय ऊर्जितश्रीः ।
सर्वत्रमङ्गलकरस्मरणप्रतापो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ७॥
देवान्तकाद्यसुरभीतसुरार्तिहर्ता विज्ञानबोधेनवरेण तमोपहर्ता ।
आनन्दितत्रिभुवनेशु कुमारबन्धो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ८॥

॥ इति विघ्ननिवारकं श्री सिद्धि विनायक स्तोत्रं सम्पूर्णम् ॥
॥ श्री शिव रक्षा स्तोत्र ॥
॥ Shri Shiv Raksha Stotra ॥
॥ ॐ गण गणपतये नमः ॥
अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः ।
श्री सदाशिवो देवता ॥ अनुष्टुप् छन्दः ।
श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥

चरितं देवदेवस्य महादेवस्य पावनम् ।
अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ १॥
गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ २॥

गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः ।
नयने मदनध्वंसी कर्णो सर्पविभूषण ॥ ३॥
घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः ।
जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः ॥ ४॥

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥ ५॥
हृदयं शंकरः पातु जठरं गिरिजापतिः ।
नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥ ६॥

सक्थिनी पातु दीनार्तशरणागतवत्सलः ।
उरू महेश्वरः पातु जानुनी जगदीश्वरः ॥ ७॥
जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ।
चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः ॥ ८॥

एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् ।
स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥ ९॥
ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।
दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥ १० ॥

अभयङ्करनामेदं कवचं पार्वतीपतेः ।
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥ ११॥
इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत् ।
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यः तथाऽलिखत् ॥ १२॥

॥ इति शिव रक्षा स्तोत्रं सम्पूर्णम् ॥
॥ श्री शिव रुद्राष्टकं स्तोत्र ॥
॥ Shri Shiv Rudrashtakam Stora ॥
॥ ॐ गण गणपतये नमः ॥
नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम् ।
निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहम् ॥१॥

निराकारमोङ्करमूलं तुरीयं गिराज्ञानगोतीतमीशं गिरीशम् ।
करालं महाकालकालं कृपालं गुणागारसंसारपारं नतोऽहम् ॥२॥

तुषाराद्रिसंकाशगौरं गभिरं मनोभूतकोटिप्रभाश्री शरीरम् ।
स्फुरन्मौलिकल्लोलिनी चारुगङ्गा लसद्भालबालेन्दु कण्ठे भुजङ्गा ॥३॥

चलत्कुण्डलं भ्रूसुनेत्रं विशालं प्रसन्नाननं नीलकण्ठं दयालम् ।
मृगाधीशचर्माम्बरं मुण्डमालं प्रियं शङ्करं सर्वनाथं भजामि ॥४॥

प्रचण्डं प्रकृष्टं प्रगल्भं परेशं अखण्डं अजं भानुकोटिप्रकाशं ।
त्र्यःशूलनिर्मूलनं शूलपाणिं भजेऽहं भवानीपतिं भावगम्यम् ॥५॥

कलातीतकल्याण कल्पान्तकारी सदा सज्जनानन्ददाता पुरारी ।
चिदानन्दसंदोह मोहापहारी प्रसीद प्रसीद प्रभो मन्मथारी ॥६॥

न यावद् उमानाथपादारविन्दं भजन्तीह लोके परे वा नराणाम् ।
न तावत्सुखं शान्ति सन्तापनाशं प्रसीद प्रभो सर्वभूताधिवासं ॥७॥

न जानामि योगं जपं नैव पूजां नतोऽहं सदा सर्वदा शम्भुतुभ्यम् ।
जराजन्मदुःखौघ तातप्यमानं प्रभो पाहि आपन्नमामीश शंभो ॥८॥

रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतोषये ये
पठन्ति नरा भक्त्या तेषां शम्भुः प्रसीदति ॥९॥

॥ इति श्री रुद्राष्टकं सम्पूर्णम् ॥
॥ श्री शिव पञ्चाक्षर मन्त्र स्तोत्र ॥
॥ Shri Shiv Panchakshra Mantra Stotra ॥
॥ ॐ गण गणपतये नमः ॥
॥ दारिद्र्यदुह्ख-दहनाय नमः शिवाय ॥
शिवपंचाक्षरस्तोत्र
नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय ॥ १॥

मन्दाकिनि-सलिलचन्दन-चर्चिताय नन्दीश्वर-प्रमथनाथ- महेश्वराय ।
मन्दारपुष्प-बहुपुष्प-सुपूजिताय तस्मै मकाराय नमः शिवाय ॥ २॥

शिवाय गौरीवदनाब्ज-वृन्द-सूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजायतस्मै शिकाराय नमः शिवाय ॥ ३॥

वसिष्ठ-कुम्भोद्भव-गौतमार्यमुनीन्द्र-देवार्चितशेखराय ।
चन्द्रार्क-वैश्वानरलोचनाय तस्मै वकाराय नमः शिवाय ॥ ४॥

यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय तस्मै यकाराय नमः शिवाय ॥ ५॥

पंचाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥
शिवलोकमवाप्नोति शिवेन सह मोदते ॥
॥ इति श्री शिव पञ्चाक्षर स्तोत्रं समाप्तं ॥
॥ श्री शिवताण्डव स्तोत्रम् रावणरचित ॥
॥ Shri Shiv Tandav stotra ॥
॥ ॐ गण गणपतये नमः ॥
जटाटवीगलज्जलप्रवाहपावितस्थले
गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् ।
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं
चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥ १॥

जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी-
विलोलवीचिवल्लरीविराजमानमूर्धनि ।
धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके
किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥ २॥

धराधरेन्द्रनंदिनीविलासबन्धुबन्धुर
स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे ।
कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि क्वचिद्दिगम्बरे
(क्वचिच्चिदम्बरे) मनो विनोदमेतु वस्तुनि ॥ ३॥

जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा
कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे ।
मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे
मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ॥ ४॥
कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे ।
मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे
मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ॥ ४॥
सहस्रलोचनप्रभृत्यशेषलेखशेखर
प्रसूनधूलिधोरणी विधूसराङ्घ्रिपीठभूः ।
भुजङ्गराजमालया निबद्धजाटजूटक
श्रियै चिराय जायतां चकोरबन्धुशेखरः ॥ ५॥
प्रसूनधूलिधोरणी विधूसराङ्घ्रिपीठभूः ।
भुजङ्गराजमालया निबद्धजाटजूटक
श्रियै चिराय जायतां चकोरबन्धुशेखरः ॥ ५॥
ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा-
निपीतपञ्चसायकं नमन्निलिम्पनायकम् ।
सुधामयूखलेखया विराजमानशेखरं
महाकपालिसम्पदेशिरोजटालमस्तु नः ॥ ६॥
निपीतपञ्चसायकं नमन्निलिम्पनायकम् ।
सुधामयूखलेखया विराजमानशेखरं
महाकपालिसम्पदेशिरोजटालमस्तु नः ॥ ६॥
करालभालपट्टिकाधगद्धगद्धगज्ज्वल-
द्धनञ्जयाहुतीकृतप्रचण्डपञ्चसायके ।
धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रक-
प्रकल्पनैकशिल्पिनि त्रिलोचने रतिर्मम ॥। ७॥

नवीनमेघमण्डली निरुद्धदुर्धरस्फुरत्-
कुहूनिशीथिनीतमः प्रबन्धबद्धकन्धरः ।
निलिम्पनिर्झरीधरस्तनोतु कृत्तिसिन्धुरः
कलानिधानबन्धुरः श्रियं जगद्धुरंधरः ॥ ८॥
कुहूनिशीथिनीतमः प्रबन्धबद्धकन्धरः ।
निलिम्पनिर्झरीधरस्तनोतु कृत्तिसिन्धुरः
कलानिधानबन्धुरः श्रियं जगद्धुरंधरः ॥ ८॥
प्रफुल्लनीलपङ्कजप्रपञ्चकालिमप्रभा-
वलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्धरम् ।
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं
गजच्छिदांधकच्छिदं तमन्तकच्छिदं भजे ॥ ९॥
वलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्धरम् ।
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं
गजच्छिदांधकच्छिदं तमन्तकच्छिदं भजे ॥ ९॥
अखर्व(अगर्व)सर्वमङ्गलाकलाकदम्बमञ्जरी
रसप्रवाहमाधुरी विजृम्भणामधुव्रतम् ।
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं
गजान्तकान्धकान्तकं तमन्तकान्तकं भजे ॥ १०॥

जयत्वदभ्रविभ्रमभ्रमद्भुजङ्गमश्वस-
द्विनिर्गमत्क्रमस्फुरत्करालभालहव्यवाट् ।
धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमङ्गल
ध्वनिक्रमप्रवर्तित प्रचण्डताण्डवः शिवः ॥ ११॥

दृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोर्-
गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः ।
तृणारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः
समं प्रवर्तयन्मनः कदा सदाशिवं भजे ॥ १२॥

कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन्
विमुक्तदुर्मतिः सदा शिरः स्थमञ्जलिं वहन् ।
विमुक्तलोललोचनो ललामभाललग्नकः
शिवेति मंत्रमुच्चरन् कदा सुखी भवाम्यहम् ॥ १३॥

निलिम्प नाथनागरी कदम्ब मौलमल्लिका-
निगुम्फनिर्भक्षरन्म धूष्णिकामनोहरः ।
तनोतु नो मनोमुदं विनोदिनींमहनिशं
परिश्रय परं पदं तदङ्गजत्विषां चयः ॥ १४॥
निगुम्फनिर्भक्षरन्म धूष्णिकामनोहरः ।
तनोतु नो मनोमुदं विनोदिनींमहनिशं
परिश्रय परं पदं तदङ्गजत्विषां चयः ॥ १४॥
प्रचण्ड वाडवानल प्रभाशुभप्रचारणी
महाष्टसिद्धिकामिनी जनावहूत जल्पना ।
विमुक्त वाम लोचनो विवाहकालिकध्वनिः
शिवेति मन्त्रभूषगो जगज्जयाय जायताम् ॥ १५॥

इदम् हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं
पठन्स्मरन्ब्रुवन्नरो विशुद्धिमेतिसंततम् ।
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं
विमोहनं हि देहिनां सुशङ्करस्य चिंतनम् ॥ १६॥

पूजावसानसमये दशवक्त्रगीतं यः
शम्भुपूजनपरं पठति प्रदोषे ।
तस्य स्थिरां रथगजेन्द्रतुरङ्गयुक्तां
लक्ष्मीं सदैव सुमुखिं प्रददाति शम्भुः ॥ १७॥

॥ इति श्री रावणविरचितं शिव ताण्डव स्तोत्रं सम्पूर्णम् ॥
॥ श्री नारायण स्तोत्र ॥
॥ Shri Narayan Stotra ॥
॥ ॐ गण गणपतये नमः ॥
नारायण नारायण जय गोविन्द हरे ॥
नारायण नारायण जय गोपाल हरे ॥ ध्रु ॥
नारायण नारायण जय गोपाल हरे ॥ ध्रु ॥
करुणापारावार वरुणालयगम्भीर ॥ नारायण ॥ १॥
घननीरदसङ्काश कृतकलिकल्मषनाश ॥ नारायण ॥ २॥
यमुनातीरविहार धृतकौस्तुभमणिहार ॥ नारायण ॥ ३॥
पीताम्बरपरिधान सुरकल्याणनिधान ॥ नारायण ॥ ४॥

मञ्जुलगुञ्जाभूष मायामानुषवेष ॥ नारायण ॥ ५॥
राधाधरमधुरसिक रजनीकरकुलतिलक ॥ नारायण ॥ ६॥
मुरलीगानविनोद वेदस्तुतभूपाद ॥ नारायण ॥ ७॥
बर्हिनिबर्हापीड नटनाटकफणिक्रीड ॥ नारायण ॥ ८॥

वारिजभूषाभरण राजिवरुक्मिणीरमण ॥ नारायण ॥ ९॥
जलरुहदलनिभनेत्र जगदारम्भकसूत्र ॥ नारायण ॥ १०॥
पातकरजनीसंहर करुणालय मामुद्धर ॥ नारायण ॥ ११॥
अघबकक्षयकंसारे केशव कृष्ण मुरारे ॥ नारायण ॥ १२॥

हाटकनिभपीताम्बर अभयं कुरु मे मावर ॥ नारायण ॥ १३॥
दशरथराजकुमार दानवमदसंहार ॥ नारायण ॥ १४॥
गोवर्धनगिरिरमण गोपीमानसहरण ॥ नारायण ॥ १५॥
शरयूतीरविहार सज्जनऋषिमन्दार ॥ नारायण ॥ १६॥

विश्वामित्रमखत्र विविधपरासुचरित्र ॥ नारायण ॥ १७॥
ध्वजवज्राङ्कुशपाद धरणीसुतसहमोद ॥ नारायण ॥ १८॥
जनकसुताप्रतिपाल जय जय संसृतिलील ॥ नारायण ॥ १९॥
दशरथवाग्धृतिभार दण्डकवनसञ्चार ॥ नारायण ॥ २०॥

मुष्टिकचाणूरसंहार मुनिमानसविहार ॥ नारायण ॥ २१॥
वालिविनिग्रहशौर्य वरसुग्रीवहितार्य ॥ नारायण ॥ २२॥
मां मुरलीकर धीवर पालय पालय श्रीधर ॥ नारायण ॥ २३॥
जलनिधिबन्धनधीर रावणकण्ठविदार ॥ नारायण ॥ २४॥

ताटीमददलनाढ्य नटगुणविविधधनाढ्य ॥ नारायण ॥ २५॥
गौतमपत्नीपूजन करुणाघनावलोकन ॥ नारायण ॥ २६॥
सम्भ्रमसीताहार साकेतपुरविहार ॥ नारायण ॥ २७॥
अचलोद्धृतिचञ्चत्कर भक्तानुग्रहतत्पर ॥ नारायण ॥ २८॥

नैगमगानविनोद रक्षःसुतप्रह्लाद ॥ नारायण ॥ २९॥
भारतीयतिवरशङ्कर नामामृतमखिलान्तर ॥ नारायण ॥ ३०॥

। इति नारायण स्तोत्रं सम्पूर्णम् ।
॥ विष्णु सहस्रनाम स्तोत्र ॥
॥ Vishnu Sahastranam Stotra ॥
॥ ॐ गण गणपतये नमः ॥
रुद्र उवाच
संसारसागराग्धोरान्मुच्यते किं जपन्प्रभो ।
नरस्तन्मे परं जप्यं कथय त्वं जनार्दन ॥ १॥

हरिरुवाच
परेश्वरं परं ब्रह्म परमात्मानमव्ययम् । ईश्वरम् परमं
विष्णुं नामसहस्रेण स्तुवन्मुक्तो भवेन्नरः ॥ २॥
यत्पवित्रं परं जप्यं कथयामि वृषध्वज ! ।
शृणुष्वावहितो भूत्वा सर्वपापविनाशनम् ॥ ३॥

ॐ वासुदेवो महाविष्णुर्वामनो वासवो वसुः ।
बालचन्द्रनिभो बालो बलभद्रो बलाधिपः ॥ ४॥
बलिबन्धनकृद्वेधा (११) वरेण्यो वेदवित्कविः ।
वेदकर्ता वेदरूपो वेद्यो वेदपरिप्लुतः ॥ ५॥

वेदाङ्गवेत्ता वेदेशो (२०) बलाधारो बलार्दनः । बलधारो
अविकारो वरेशश्च वरुणो वरुणाधिपः ॥ ६॥
वीरहा च बृहद्वीरो वन्दितः परमेश्वरः (३०) ।
आत्मा च परमात्मा च प्रत्यगात्मा वियत्परः ॥ ७॥

पद्मनाभः पद्मनिधिः पद्महस्तो गदाधरः ।
परमः (४०) परभूतश्च पुरुषोत्तम ईश्वरः ॥ ८॥
पद्मजङ्घः पुण्डरीकः पद्ममालाधरः प्रियः ।
पद्माक्षः पद्मगर्भश्च पर्जन्यः (५०) पद्मसंस्थितः ॥ ९॥

अपारः परमार्थश्च पराणां च परः प्रभुः ।
पण्डितः पण्डितेड्यश्च पवित्रः पापमर्दकः ॥ १०॥ पण्डितेभ्यश्च
शुद्धः (६०) प्रकाशरूपश्च पवित्रः परिरक्षकः ।
पिपासावर्जितः पाद्यः पुरुषः प्रकृतिस्तथा ॥ ११॥

प्रधानं पृथिवीपद्मं पद्मनाभः (७०) प्रियप्रदः ।
सर्वेशः सर्वगः सर्वः सर्ववित्सर्वदः सुरः ॥ १२॥ परः
सर्वस्य जगतो धाम सर्वदर्शी च सर्वभृत् (८०) ।
सर्वानुग्रहकृद्देवः सर्वभूतहृदिस्थितः ॥ १३॥

सर्वपूज्यश्च सर्वाद्यः सर्वदेवनमस्कृतः । सर्वपः सर्वपूज्यश्च
सर्वस्य जगतो मूलं सकलो निष्कलोऽनलः (९०) ॥ १४॥
सर्वगोप्ता सर्वनिष्ठः सर्वकारणकारणम् ।
सर्वध्येयः सर्वमित्रः सर्वदेवस्वरूपधृक् ॥ १५॥

सर्वाध्यक्षः सुराध्यक्षः सुरासुरनमस्कृतः । सर्वाध्यायः
दुष्टानां चासुराणां च सर्वदा घातकोऽन्तकः (१०१) ॥ १६॥
सत्यपालश्च सन्नाभः सिद्धेशः सिद्धवन्दितः ।
सिद्धसाध्यः सिद्धसिद्धः साध्यसिद्धो हृदीश्वरः ॥ १७॥ सिद्धिसिद्धो

शरणं जगतश्चैव (११०) श्रेयः क्षेमस्तथैव च ।
शुभकृच्छोभनः सौम्यः सत्यः सत्यपराक्रमः ॥ १८॥
सत्यस्थः सत्यसङ्कल्पः सत्यवित्सत्यदस्तथा (१२१) । सत्पदस्तथा
धर्मो धर्मीच कर्मीच सर्वकर्मविवर्जितः ॥ १९॥

कर्मकर्ता च कर्मैव क्रिया कार्यं तथैव च ।
श्रीपतिर्नृपतिः (१३१) श्रीमान्सर्वस्य पतिरूर्जितः ॥ २०॥
स देवानां पतिश्चैव वृष्णीनां पतिरीडितः । पतिरीरितः
पतिर्हिरण्यगर्भस्य त्रिपुरान्तपतिस्तथा ॥ २१॥

पशूनां च पतिः प्रायो वसूनां पतिरेव च (१४०) ।
पतिराखण्डलस्यैव वरुणस्य पतिस्तथा ॥ २२॥
वनस्पतीनां च पतिरनिलस्य पतिस्तथा ।
अनलस्य पतिश्चैव यमस्य पतिरेव च ॥ २३॥
पतिराखण्डलस्यैव वरुणस्य पतिस्तथा ॥ २२॥
वनस्पतीनां च पतिरनिलस्य पतिस्तथा ।
अनलस्य पतिश्चैव यमस्य पतिरेव च ॥ २३॥
कुबेरस्य पतिश्चैव नक्षत्राणां पतिस्तथा ।
ओषधीनां पतिश्चैव वृक्षाणां च पतिस्तथा (१५०) ॥ २४॥
नागानां पतिरर्कस्य दक्षस्य पतिरेव च ।
सुहृदां च पतिश्चैव नृपाणां च पतिस्तथा ॥ २५॥

गन्धर्वाणां पतिश्चैव असूनां पतिरुत्तमः ।
पर्वतानां पतिश्चैव निम्नगानां पतिस्तथा ॥ २६॥
सुराणां च पतिः श्रेष्ठः (१६०) कपिलस्य पतिस्तथा ।
लतानां च पतिश्चैव वीरुधां च पतिस्तथा ॥ २७॥

मुनीनां च पतिश्चैव सूर्यस्य पतिरुत्तमः ।
पतिश्चन्द्रमसः श्रेष्ठः शुक्रस्य पतिरेव च ॥ २८॥
ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा ।
किन्नराणां पतिश्चैव (१७०) द्विजानां पतिरुत्तमः ॥ २९॥

सरितां च पतिश्चैव समुद्राणां पतिस्तथा ।
सरसां च पतिश्चैव भूतानां च पतिस्तथा ॥ ३०॥
वेतालानां पतिश्चैव कूष्माण्डानां पतिस्तथा ।
पक्षिणां च पतिः श्रेष्ठः पशूनां पतिरेव च ॥ ३१॥

महात्मा (१८०) मङ्गलो मेयो मन्दरो मन्दरेश्वरः ।
मेरुर्माता प्रमाणं च माधवो मलवर्जितः ॥ ३२॥ मनुवर्जितः
मालाधरो (१९०) महादेवो महादेवेन पूजितः ।
महाशान्तो महाभागो मधुसूदन एव च ॥ ३३॥

महावीर्यो महाप्राणो मार्कण्डेयर्षिवन्दितः (२००) । प्रवन्दितः
मायात्मा मायया बद्धो मायया तु विवर्जितः ॥ ३४॥
मुनिस्तुतो मुनिर्मैत्रो (२१०) महानासो महाहनुः । महारासो
महाबाहुर्महादान्तो मरणेन विवर्जितः ॥ ३५॥ महादन्तो

महावक्त्रो महात्मा च महाकायो महोदरः । महाकारो
महापादो महाग्रीवो महामानी महामनाः ॥ ३६॥
महागतिर्महाकीर्तिर्महारूपो (२२२) महासुरः ।
मधुश्च माधवश्चैव महादेवो महेश्वरः ॥ ३७॥

मखेज्यो मखरूपी च माननीयो (२३०) मखेश्वरः । मखेष्टो महेश्वरः
महावातो महाभागो महेशोऽतीतमानुषः ॥ ३८॥
मानवश्च मनुश्चैव मानवानां प्रियङ्करः ।
मृगश्च मृगपूज्यश्च (२४०) मृगाणां च पतिस्तथा ॥ ३९॥

बुधस्य च पतिश्चैव पतिश्चैव बृहस्पतेः ।
पतिः शनैश्चरस्यैव राहोः केतोः पतिस्तथा ॥ ४०॥
लक्ष्मणो लक्षणश्चैव लम्बोष्ठो ललितस्तथा (२५०) ।
नानालङ्कारसंयुक्तो नानाचन्दनचर्चितः ॥ ४१॥

नानारसोज्ज्वलद्वक्त्रो नानापुष्पोपशोभितः ।
रामो रमापतिश्चैव सभार्यः परमेश्वरः ॥ ४२॥
रत्नदो रत्नहर्ता च (२६०) रूपी रूपविवर्जितः ।
महारूपोग्ररूपश्च सौम्यरूपस्तथैव च ॥ ४३॥

नीलमेघनिभः शुद्धः सालमेघनिभस्तथा । कालमेघ
धूमवर्णः पीतवर्णो नानारूपो (२७०) ह्यवर्णकः ॥ ४४॥
विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च ।
सर्ववर्णो महायोगी यज्ञो यज्ञकृदेव च ॥ ४५॥ var याज्यो

सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च (२८०) । सुवर्णो वर्ण
सुवर्णावयवश्चैव सुवर्णः स्वर्णमेखलः ॥ ४६॥
सुवर्णस्य प्रदाता च सुवर्णेशस्तथैव च ।
सुवर्णस्य प्रियश्चैव (२९०) सुवर्णाढ्यस्तथैव च ॥ ४७॥

सुपर्णी च महापर्णो सुपर्णस्य च कारणम् (२९०) ।
वैनतेयस्तथादित्य आदिरादिकरः शिवः ॥ ४८॥
कारणं महतश्चैव प्रधानस्य च कारणम् । पुराणस्य
बुद्धीनां कारणं चैव कारणं मनसस्तथा ॥ ४९॥

कारणं चेतसश्चैव (३००) अहङ्कारस्य कारणम् ।
भूतानां कारणं तद्वत्कारणं च विभावसोः ॥ ५०॥
आकाशकारणं तद्वत्पृथिव्याः कारणं परम् ।
अण्डस्य कारणं चैव प्रकृतेः कारणं तथा ॥ ५१॥

देहस्य कारणं चैव चक्षुषश्चैव कारणम् ।
श्रोत्रस्य कारणं (३१०) तद्वत्कारणं च त्वचस्तथा ॥ ५२॥
जिह्वायाः कारणं चैव प्राणस्यैव च कारणम् ।
हस्तयोः कारणं तद्वत्पादयोः कारणं तथा ॥ ५३॥

वाचश्चकारणं तद्वत्पायोश्चैव तु कारणम् ।
इन्द्रस्य कारणं चैव कुबेरस्य च कारणम् ॥ ५४॥
यमस्य कारणं चैव (३२०) ईशानस्य च कारणम् ।
यक्षाणां कारणं चैव रक्षसां कारणं परम् ॥ ५५॥

नृपाणां कारणं श्रेष्ठं धर्मस्यैव तु कारणम् । भूषाणां
जन्तूनां कारणं चैव वसूनां कारणं परम् ॥ ५६॥
मनूनां कारणं चैव पक्षिणां कारणं परम् ।
मुनीनां कारणं श्रेष्ठ (३३०) योगिनां कारणं परम् ॥ ५७॥

सिद्धानां कारणं चैव यक्षाणां कारणं परम् ।
कारणं किन्नराणां च (३४०) गन्धर्वाणां च कारणम् ॥ ५८॥
नदानां कारणं चैव नदीनां कारणं परम् ।
कारणं च समुद्राणां वृक्षाणां कारणं तथा ॥ ५९॥

कारणं वीरुधां चैव लोकानां कारणं तथा ।
पातालकारणं चैव देवानां कारणं तथा ॥ ६०॥
सर्पाणां कारणं चैव (३५०) श्रेयसां कारणं तथा ।
पशूअनां कारणं चैव सर्वेषां कारणं तथा ॥ ६१॥

देहात्मा चेन्द्रियात्मा च आत्मा बुद्धेस्तथैव च ।
मनसश्च तथैवात्मा चात्माहङ्कारचेतसः ॥ ६२॥
जाग्रतः स्वपतश्चात्मा (३६०) महदात्मा परस्तथा ।
प्रधानस्य परात्मा च आकाशात्मा ह्यपां तथा ॥ ६३॥

पृथिव्याः परमात्मा च रसस्यात्मा तथैव च । वयस्यात्मा
गन्धस्य परमात्मा च रूपस्यात्मा परस्तथा ॥ ६४॥
शब्दात्मा चैव (३७०) वागात्मा स्पर्शात्मा पुरुषस्तथा ।
श्रोत्रात्मा च त्वगात्मा च जिह्वायाः परमस्तथा ॥ ६५॥

घ्राणात्मा चैव हस्तात्मा पादात्मा परमस्तथा (३८०) ।
उपस्थस्य तथैवात्मा पाय्वात्मा परमस्तथा ॥ ६६॥
इन्द्रात्मा चैव ब्रह्मात्मा रुद्रात्मा च मनोस्तथा । शान्तात्मा
दक्षप्रजापतेरात्मा सत्यात्मा परमस्तथा ॥ ६७॥

ईशात्मा (३९०) परमात्मा च रौद्रात्मा मोक्षविद्यतिः ।
यत्नवांश्च तथा यत्नश्चर्मी खड्गी मुरान्तकः ॥ ६८॥ खड्ग्यसुरा
ह्रीप्रवर्तनशीलश्च यतीनां च हिते रतः ।
यतिरूपी च (४००) योगी च योगिध्येयो हरिः शितिः ॥ ६९॥

संविन्मेधा च कालश्च ऊष्मा वर्षा मतिस्तथा (४१०) । नतिस्तथा
संवत्सरो मोक्षकरो मोहप्रध्वंसकस्तथा ॥ ७०॥
मोहकर्ता च दुष्टानां माण्डव्यो वडवामुखः ।
संवर्तः कालकर्ता च गौतमो भृगुरङ्गिराः (४२०) ॥ ७१॥ संवर्तकः कालकर्ता

अत्रिर्वसिष्ठः पुलहः पुलस्त्यः कुत्स एव च ।
याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशरः ॥ ७२॥
शर्मदश्चैव (४३०) गाङ्गेयो हृषीकेशो बृहच्छ्रवाः ।
केशवः क्लेशहन्ता च सुकर्णः कर्णवर्जितः ॥ ७३॥

नारायणो महाभागः प्राणस्य पतिरेव च (४४०) ।
अपानस्य पतिश्चैव व्यानस्य पतिरेव च ॥ ७४॥
उदानस्य पतिः श्रेष्ठः समानस्य पतिस्तथा ।
शब्दस्य च पतिः श्रेष्ठः स्पर्शस्य पतिरेव च ॥ ७५॥

रूपाणां च पतिश्चाद्यः खड्गपाणिर्हलायुधः (४५०) ।
चक्रपाणिः कुण्डली च श्रीवत्साङ्कस्तथैव च ॥ ७६॥
प्रकृतिः कौस्तुभग्रीवः पीताम्बरधरस्तथा ।
सुमुखो दुर्मुखश्चैव मुखेन तु विवर्जितः ॥ ७७॥

अनन्तोऽनन्तरूपश्च (४६१) सुनखः सुरमन्दरः ।
सुकपोलो विभुर्जिष्णुर्भ्राजिष्णुश्चेषुधीस्तथा ॥ ७८॥
हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दकः (४७०) ।
निहन्ता पूतनायाश्च भास्करान्तविनाशनः ॥ ७९॥

केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः ।
कंसदानवभेत्ता च चाणूरस्य प्रमर्दकः ॥ ८०॥
अरिष्टस्य निहन्ता च अक्रूरप्रिय एव च ।
अक्रूरः क्रूररूपश्च (४८०) अक्रूरप्रियवन्दितः ॥ ८१॥

भगहा भगवान्भानुस्तथा भागवतः स्वयम् ।
उद्धवश्चोद्धवस्येशो ह्युद्धवेन विचिन्तितः ॥ ८२॥
चक्रधृक्चञ्चलश्चैव (४९०) चलाचलविवर्जितः ।
अहङ्कारो मतिश्चित्तं गगनं पृथिवी जलम् ॥ ८३॥

वायुश्चक्षुस्तथा श्रोत्रं (५००) जिह्वा च घ्राणमेव च ।
वाक्पाणिपादजवनः पायूपस्थस्तथैव च ॥ ८४॥
शङ्करश्चैव शर्वश्च क्षान्तिदः क्षान्तिकृन्नरः (५११) ।
भक्तप्रियस्तथा भर्ता भक्तिमान्भक्तिवर्धनः ॥ ८५॥

भक्तस्तुतो भक्तपरः कीर्तिदः कीर्तिवर्धनः ।
कीर्तिर्दीप्तिः (५२०) क्षमा कान्तिर्भक्तश्चैव (५३०) दयापरा ॥ ८६॥
दानं दाता च कर्ता च देवदेवप्रियः शुचिः ।
शुचिमान्सुखदो (५३१) मोक्षः कामश्चार्थः सहस्रपात् ॥ ८७॥

सहस्रशीर्षा वैद्यश्च मोक्षद्वारस्तथैव च ।
प्रजाद्वारं सहस्राक्षः सहस्रकर एव च (५४०) ॥ ८८॥ सहस्रान्तः
शुक्रश्च सुकिरीटी च सुग्रीवः कौस्तुभस्तथा ।
प्रद्युम्नश्चानिरुद्धश्च हयग्रीवश्च सूकरः ॥ ८९॥

मत्स्यः परशुरामश्च (५५०) प्रह्लादो बलिरेवच ।
शरण्यश्चैव नित्यश्च बुद्धो मुक्तः शरीरभृत् ॥ ९०॥
खरदूषणहन्ता च रावणस्य प्रमर्दनः ।
सीतापतिश्च (५६०) वर्धिष्णुर्भरतश्च तथैव च ॥ ९१॥

कुम्भेन्द्रजिन्निहन्ता च कुम्भकर्णप्रमर्दनः ।
नरान्तकान्तकश्चैव देवान्तकविनाशनः ॥ ९२॥
दुष्टासुरनिहन्ता च शम्बरारिस्तथैव च ।
नरकस्य निहन्ता च त्रिशीर्षस्य विनाशनः (५७०) ॥ ९३॥

यमलार्जुनभेत्ता च तपोहितकरस्तथा ।
वादित्रश्चैव वाद्यं च बुद्धश्चैव वरप्रदः ॥ ९४॥
सारः सारप्रियः सौरः कालहन्ता निकृन्तनः (५८०) ।
अगस्त्यो देवलश्चैव नारदो नारदप्रियः ॥ ९५॥

प्राणोऽपानस्तथा व्यानो रजः सत्त्वं तमः (५९०) शरत् ।
उदानश्च समानश्च भेषजं च भिषक्तथा ॥ ९६॥
कूटस्थः स्वच्छरूपश्च सर्वदेहविवर्जितः ।
चक्षुरिन्द्रियहीनश्च वागिन्द्रियविवर्जितः (६००) ॥ ९७॥

हस्तेन्द्रियविहीनश्च पादाभ्यां च विवर्जितः ।
पायूपस्थविहीनश्च मरुतापविवर्जितः ॥ ९८॥ महातपोविसर्जितः
प्रबोधेन विहीनश्च बुद्ध्या चैव विवर्जितः ।
चेतसा विगतश्चैव प्राणेन च विवर्जितः ॥ ९९॥

अपानेन विहीनश्च व्यानेन च विवर्जितः (६१०) ।
उदानेन विहीनश्च समानेन विवर्जितः ॥ १००॥
आकाशेन विहीनश्च वायुना परिवर्जितः ।
अग्निना च विहीनश्च उदकेन विवर्जितः ॥ १०१॥

पृथिव्या च विहीनश्च शब्देन च विवर्जितः ।
स्पर्शेन च विहीनश्च सर्वरूपविवर्जितः (६२०) ॥ १०२॥
रागेण विगतश्चैव अघेन परिवर्जितः ।
शोकेन रहितश्चैव वचसा परिवर्जितः ॥ १०३॥

रजोविवर्जितश्चैव विकारैः षड्भिरेव च ।
कामेन वर्जितश्चैव क्रोधेन परिवर्जितः ॥ १०४॥
लोभेन विगतश्चैव दम्भेन च विवर्जितः ।
सूक्ष्मश्चैव (६३०) सुसूक्ष्मश्च स्थूलात्स्थूलतरस्तथा ॥ १०५॥

विशारदो बलाध्यक्षः सर्वस्य क्षोभकस्तथा ।
प्रकृतेः क्षोभकश्चैव महतः क्षोभकस्तथा ॥ १०६॥
भूतानां क्षोभकश्चैव बुद्धेश्च क्षोभकस्तथा ।
इन्द्रियाणां क्षोभकश्च (६४०) विषयक्षोभकस्तथा ॥ १०७॥

ब्रह्मणः क्षोभकश्चैव रुद्रस्य क्षोभकस्तथा ।
अगम्यश्चक्षुरादेश्च श्रोत्रागम्यस्तथैव च ॥ १०८॥
त्वचा न गम्यः कूर्मश्च जिह्वाग्राह्यस्तथैव च ।
घ्राणेन्द्रियागम्य एव वाचाग्राह्यस्तथैव च (६५०) ॥ १०९॥

अगम्यश्चैव पाणिभ्यां पदागम्यस्तथैव च । पादागम्य
अग्राह्यो मनसश्चैव बुद्ध्या ग्राह्यो हरिस्तथा ॥ ११०॥
अहम्बुद्ध्या तथा ग्राह्यश्चेतसा ग्राह्य एव च ।
शङ्खपाणिरव्ययश्च गदापाणिस्तथैव च (६६०) ॥ १११॥

शार्ङ्गपाणिश्च कृष्णश्च ज्ञानमूर्तिः परन्तपः ।
तपस्वी ज्ञानगम्यो हि ज्ञानी ज्ञानविदेव च ॥ ११२॥
ज्ञेयश्च ज्ञेयहीनश्च (६७०) ज्ञप्तिश्चैतन्यरूपकः ।
भावो भाव्यो भवकरो भावनो भवनाशनः ॥ ११३॥

गोविन्दो गोपतिर्गोपः (६८०) सर्वगोपीसुखप्रदः ।
गोपालो गोगतिश्चैव गोमतिर्गोधरस्तथा ॥ ११४॥ गोपति
उपेन्द्रश्च नृसिंहश्च शौरिश्चैव जनार्दनः ।
आरणेयो (६९०) बृहद्भानुर्बृहद्दीप्तिस्तथैव च ॥ ११५॥

दामोदरस्त्रिकालश्च कालज्ञः कालवर्जितः ।
त्रिसन्ध्यो द्वापरं त्रेता प्रजाद्वारं (७००) त्रिविक्रमः ॥ ११६॥
विक्रमो दण्डहस्तश्च ह्येकदण्डी त्रिदण्डधृक् । दरहस्तश्च
सामभेदस्तथोपायः सामरूपी च सामगः ॥ ११७॥

सामवेदोः (७१०) ह्यथर्वश्च सुकृतः सुखरूपकः ।
अथर्ववेदविच्चैव ह्यथर्वाचार्य एव च ॥ ११८॥
ऋग्रूपी चैव ऋग्वेदः ऋग्वेदेषु प्रतिष्ठितः ।
यजुर्वेत्ता यजुर्वेदो (७२०) यजुर्वेदविदेकपात् ॥ ११९॥

बहुपाच्च सुपाच्चैव तथैव च सहस्रपात् ।
चतुष्पाच्च द्विपाच्चैव स्मृतिर्न्यायो यमो बली (७३०) ॥ १२०॥
सन्न्यासी चैव सन्न्यासश्चतुराश्रम एव च ।
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ॥ १२१॥

ब्राह्मणः क्षत्रियो वैश्यः (७४०) शूद्रो वर्णस्तथैव च ।
शीलदः शीलसम्पन्नो दुःशीलपरिवर्जितः ॥ १२२॥
मोक्षोऽध्यात्मसमाविष्टः स्तुतिः स्तोता च पूजकः ।
पूज्यो (७५०) वाक्करणं चैव वाच्यश्चैव तु वाचकः ॥ १२३॥

वेत्ता व्याकरणश्चैव वाक्यं चैव च वाक्यवित् ।
वाक्यगम्यस्तीर्थवासी (७६०) तीर्थस्तीर्थी च तीर्थवित् ॥ १२४॥
तीर्थादिभूतः साङ्ख्यश्च निरुक्तं त्वधिदैवतम् ।
प्रणवः प्रणवेशश्च प्रणवेन प्रवन्दितः (७७०) ॥ १२५॥

प्रणवेन च लक्ष्यो वै गायत्री च गदाधरः ।
शालग्रामनिवासी च (७८०) शालग्रामस्तथैव च ॥ १२६॥
जलशायी योगशायी शेषशायी कुशेशयः ।
महीभर्ता च (७९०) कार्यं च कारणं पृथिवीधरः ॥ १२७॥

प्रजापतिः शाश्वतश्च काम्यः कामयिता विराट् ।
सम्राट्पूषा (८००) तथा स्वर्गो रथस्थः सारथिर्बलम् ॥ १२८॥
धनी धनप्रदो धन्यो यादवानां हिते रतः ।
अर्जुनस्य प्रियश्चैव ह्यर्जुनो (८१०) भीम एव च ॥ १२९॥

पराक्रमो दुर्विषहः सर्वशास्त्रविशारदः ।
सारस्वतो महाभीष्मः पारिजातहरस्तथा ॥ १३०॥
अमृतस्य प्रदाता च क्षीरोदः क्षीरमेव च (८२०) ।
इन्द्रात्मजस्तस्य गोप्ता गोवर्धनधरस्तथा ॥ १३१॥

कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः ।
शिपिविष्टः प्रसन्नश्च सर्वलोकार्तिनाशनः ॥ १३२॥
मुद्रो (८३०) मुद्राकरश्चैव सर्वमुद्राविवर्जितः ।
देही देहस्थितश्चैव देहस्य च नियामकः ॥ १३३॥

श्रोता श्रोत्रनियन्ता च श्रोतव्यः श्रवणस्तथा ।
त्वक्स्थितश्च (८४०) स्पर्शयिता स्पृश्यं च स्पर्शनं तथा ॥ १३४॥
रूपद्रष्टा च चक्षुःस्थो नियन्ता चक्षुषस्तथा ।
दृश्यं चैव तु जिह्वास्थो रसज्ञश्च नियामकः (८५०) ॥ १३५॥

घ्राणस्थो घ्राणकृद्घ्राता घ्राणेन्द्रियनियामकः ।
वाक्स्थो वक्ता च वक्तव्यो वचनं वाङ्नियामकः ॥ १३६॥
प्राणिस्थः (८६०) शिल्पकृच्छिल्पो हस्तयोश्च नियामकः ।
पदव्यश्चैव गन्ता च गन्तव्यं गमनं तथा ॥ १३७॥

नियन्ता पादयोश्चैव पाद्यभाक्च विसर्गकृत् (८७०) ।
विसर्गस्य नियन्ता च ह्युपस्थस्थः सुखस्तथा ॥ १३८॥
उपस्थस्य नियन्ता च तदानन्दकरश्च ह ।
शत्रुघ्नः कार्तवीर्यश्च दत्तात्रेयस्तथैव च ॥ १३९॥

अलर्कस्य हितश्चैव कार्तवीर्यनिकृन्तनः (८८०) ।
कालनेमिर्महानेमिर्मेघो मेघपतिस्तथा ॥ १४०॥
अन्नप्रदोऽन्नरूपी च ह्यन्नादोऽन्नप्रवर्तकः ।
धूमकृद्धूमरूपश्च (८९०) देवकीपुत्र उत्तमः ॥ १४१॥

देवक्या नन्दनो नन्दो रोहिण्याः प्रिय एव च ।
वसुदेवप्रियश्चैव वसुदेवसुतस्तथा ॥ १४२॥
दुन्दुभिर्हासरूपश्च पुष्पहासस्तथैव च (९००) ।
अट्टहासप्रियश्चैव सर्वाध्यक्षः क्षरोऽक्षरः ॥ १४३॥

अच्युतश्चैव सत्येशः सत्यायाश्च प्रियो वरः ।
रुक्मिण्याश्च पतिश्चैव रुक्मिण्या वल्लभस्तथा ॥ १४४॥
गोपीनां वल्लभश्चैव (९१०) पुण्यश्लोकश्च विश्रुतः ।
वृषाकपिर्यमो गुह्यो मङ्गलश्च बुधस्तथा ॥ १४५॥

राहुः केतुर्ग्रहो ग्राहो (९२०) गजेन्द्रमुखमेलकः ।
ग्राहस्य विनिहन्ता च ग्रामीणी रक्षकस्तथा ॥ १४६॥
किन्नरश्चैव सिद्धश्च छन्दः स्वच्छन्द एव च ।
विश्वरूपो विशालाक्षो (९३०) दैत्यसूदन एव च ॥ १४७॥

अनन्तरूपो भूतस्थो देवदानवसंस्थितः ।
सुषुप्तिस्थः सुषुप्तिश्च स्थानं स्थानान्त एव च ॥ १४८॥
जगत्स्थश्चैव जागर्ता स्थानं जागरितं तथा (९४०) ।
स्वप्नस्थः स्वप्नवित्स्वप्नस्थानं स्वप्नस्तथैव च ॥ १४९॥

स्वप्नस्थः स्वप्नवित्स्वप्नं स्थानस्थः सुस्थ एव च
जाग्रत्स्वप्नसुषुप्तेश्च विहीनो वै चतुर्थकः ।
विज्ञानं वेद्यरूपं च जीवो जीवयिता तथा (९५०) ॥ १५०॥ चैत्ररूपश्च
भुवनाधिपतिश्चैव भुवनानां नियामकः ।
पातालवासी पातालं सर्वज्वरविनाशनः ॥ १५१॥

परमानन्दरूपी च धर्माणां च प्रवर्तकः ।
सुलभो दुर्लभश्चैव प्राणायामपरस्तथा (९६०) ॥ १५२॥
प्रत्याहारो धारकश्च प्रत्याहारकरस्तथा ।
प्रभा कान्तिस्तथा ह्यर्चिः शुद्धस्फटिकसन्निभः ॥ १५३॥

अग्राह्यश्चैव गौरश्च सर्वः (९७०) शुचिरभिष्टुतः ।
वषट्कारो वषड्वौषट्स्वधा स्वाहा रतिस्तथा ॥ १५४॥
पक्ता नन्दयिता (९८०) भोक्ता बोद्धा भावयिता तथा ।
ज्ञानात्मा चैव देहात्मा भूमा सर्वेश्वरेश्वरः ॥ १५५॥ ऊहात्मा

नदी नन्दी च नन्दीशो (९९०) भारतस्तरुनाशनः ।
चक्रपः श्रीपतिश्चैव नृपाणां चक्रवर्तिनाम् ॥ १५६॥ नृपश्च
ईशश्च सर्वदेवानां द्वारकासंस्थितस्तथा । var स्वावकाशं स्थित
पुष्करः पुष्कराध्यक्षः पुष्करद्वीप एव च (१०००) ॥ १५७॥

भरतो जनको जन्यः सर्वाकारविवर्जितः ।
निराकारो निर्निमित्तो निरातङ्को निराश्रयः (१००८) ॥ १५८॥
इति नामसहस्रं ते वृषभध्वज कीर्तितम् ।
देवस्य विष्णोरीशस्य सर्वपापविनाशनम् ॥ १५९॥

पठन्द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात् ।
वैश्यो धनं सुखं शूद्रो विष्णुभक्तिसमन्वितः ॥ १६०॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे
श्रीविष्णुसहस्रनामस्तोत्रनिरूपणं नाम पञ्चदशोऽध्यायः ॥

॥ इति श्री विष्णु सहस्रनाम स्तोत्रं सम्पूर्णम ॥
॥ श्री विष्णु स्तोत्र ॥
॥ Shri Viishnu Stotra ॥
॥ ॐ गण गणपतये नमः ॥
राजोवाच
वाक्पुष्पेण कथं ब्रह्मन् ब्रह्माप्यर्चितवान् हरिम् ।
तन्मे कथय विप्रेन्द्र ब्रह्मोक्तं स्तोत्रमुत्तमम् ॥

मार्कण्डेय उवाच
श्रृणु राजन् प्रवक्ष्यामि स्तोत्रं ब्रह्ममुखेरितम् ।
सर्वपापहरं पुण्यं विष्णुतुष्टिकरं परम् ॥
तमाराध्य जगन्नाथमूर्ध्वबाहुः पितामहः ।
भूत्वैकाग्रमना राजन्निदं स्तोत्रमुदीरयत् ॥

ब्रह्मोवाच
नमामि देवं नरनाथमच्युतं नारायणं लोकगुरुं सनातनम् ।
अनादिमव्यक्तमचिन्त्यमव्ययं वेदान्तवेद्यं पुरुषोत्तमं हरिम् ॥ १॥
आनन्दरूपं परमं परात्परं चिदात्मकं ज्ञानवतां परां गतिम् ।
सर्वात्मकं सर्वगतैकरूपं ध्येयस्वरूपं प्रणमामि माधवम् ॥ २॥

भक्तप्रियं कान्तमतीव निर्मलं सुराधिपं सूरिजनैरभिष्टुतम् ।
चतुर्भुजं नीरजवर्णमीश्वरं रथाङ्गपाणिं प्रणतोऽस्मि केशवम् ॥ ३॥
गदासिशङ्खाब्जकरं श्रियः पतिं सदाशिवं शार्ङ्गधरं रविप्रभम् ।
पीताम्बरं हारविराजितोदरं नमामि विष्णुं सततं किरीटिनम् ॥ ४॥

गण्डस्थलासक्तसुरक्तकुण्डलं सुदीपिताशेषदिशं निजत्विषा ।
गन्धर्वसिद्धैरुपगीतमृग्ध्वनिं जनार्दनं भूतपतिं नमामि तम् ॥ ५॥
हत्वासुरान् पाति युगे युगे सुरान् स्वधर्मसंस्थान् भुवि संस्थितो हरिः ।
करोति सृष्टिं जगतः क्षयं यस्तं वासुदेवं प्रणतोऽस्मि केशवम् ॥ ६॥

यो मत्स्यरूपेण रसातलस्थितान् वेदान् समाहृत्य मम प्रदत्तवान् ।
निहत्य युद्धे मधुकैटभावुभौ तं वेदवेद्यं प्रणतोऽस्म्यहं सदा ॥ ७॥
देवासुरैः क्षीरसमुद्रमध्यतो न्यस्तो गिरिर्येन धृतः पुरा महान् ।
हिताय कौर्मं वपुरास्थितो यस्तं विष्णुमाद्यं प्रणतोऽस्मि भास्करम् ॥ ८॥

हत्वा हिरण्याक्षमतीव दर्पितं वराहरूपी भगवान् सनातनः ।
यो भूमिमेतां सकलां समुद्धरंस्तं वेदमूर्तिं प्रणमामि सूकरम् ॥ ९॥
कृत्वा नृसिंहं वपुरात्मनः परं हिताय लोकस्य सनातनो हरिः
जघान यस्तीक्ष्णनखैर्दितेः सुतं तं नारसिंहं पुरुषं नमामि ॥ १०॥

यो वामनोऽसौ भगवाञ्जनार्दनो बलिं बबन्ध त्रिभिरूर्जितैः पदैः ।
जगत्रयं क्रम्य ददौ पुरंदरे तदेवमाद्यं प्रणतोऽस्मि वामनम् ॥ ११॥
यः कार्तवीर्यं निजघान रोषात् त्रिस्सप्तकृत्वः क्षितिपात्मजानपि ।
तं जामदग्न्यं क्षितिभारनाशकं नतोऽस्मि विष्णुं पुरुषोत्तमं सदा ॥ १२॥

सेतुं महान्तं जलधौ बबन्ध यः सम्प्राप्य लङ्कां सगणं दशाननम् ।
जघान भृत्यै जगतां सनातनं तं रामदेवं सततं नतोऽस्मि ॥ १३॥
यथा तु वाराहनृसिंहरूपैः कृतं त्वया देव हितं सुराणाम् ।
तथाद्य भूमेः कुरु भारहानिं प्रसीद विष्णो भगवन्नमस्ते ॥ १४॥

॥ इति श्री विष्णु स्तोत्रम् सम्पूर्णम ॥
॥ श्री नृसिंह स्तोत्र ॥
॥ Shri Narsingh Stotra ॥
॥ ॐ गण गणपतये नमः ॥
ब्रह्मोवाच ।
नतोऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे ।
विश्वस्य सर्गस्थितिसंयमान्गुणैः स्वलीलया सन्दधतेऽव्ययात्मने ॥ १॥

श्रीरुद्र उवाच
कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः ।
तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥ २॥

इन्द्र उवाच
प्रत्यानीताः परम भवता त्रायतां नः स्वभागा
दैत्याक्रान्तं हृदयकमलं त्वद्गृहं प्रत्यबोधि ।

कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते
मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥ ३॥

ऋषय ऊचुः
त्वं नस्तपः परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतं ससर्ज ।
तद्विप्रलुप्तममुनाद्य शरण्यपाल रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ ४॥

पितर ऊचुः
श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर्दत्तानि तीर्थसमयेऽप्यपिबत्तिलाम्बु ।
तस्योदरान्नखविदीर्णवपाद्य आर्च्छत्तस्मै नमो नृहरयेऽखिल धर्मगोप्त्रे ॥ ५॥

सिद्धा ऊचुः
यो नो गतिं योगसिद्धामसाधुरहारषीद्योगतपोबलेन ।
नानादर्पं तं नखैर्निर्ददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥ ६॥

विद्याधरा ऊचुः
विद्यां पृथग्धारणयाऽनुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः ।
स येन संख्ये पशुबद्धतस्तं मायानृसिंहं प्रणताः स्म नित्यम् ॥ ७॥

नागा ऊचुः
येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः ।
तद्वक्षःपाटनेनासां दत्तानन्द नमोऽस्तु ते ॥ ८॥

मनव ऊचुः
मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः ।
भवता खलः स उपसंहृतः प्रभो करवाम ते किमनुशाधि किङ्करान् ॥ ९॥

प्रजापतय ऊचुः
प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः ।
स एष त्वया भिन्नवक्षानुशेते जगन्मङ्गलं सत्त्वमूर्तेऽवहारः ॥ १०॥

गन्धर्वा ऊचुः
वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृताः ।
स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते ॥ ११॥

चारणा ऊचुः
हरे तवांग्घ्रिपङ्कजं भवापवर्गमाश्रिताः ।
यदेव साधु हृच्छयस्त्वयाऽसुरः समापितः ॥ १२॥

यक्षा ऊचुः
वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस्त इह दितिसुतेन प्रापिता वाहकत्वम् ।
स तु जनपरितापं तत्कृतं जानता ते नरहर उपनीतः पञ्चतां पञ्चविंशः ॥ १३॥

किम्पुरुषा ऊचुः
वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वर ।
अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ॥ १४॥

वैतालिका ऊचुः
सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे ।
यस्तां व्यनैषीद्भृशमेष दुर्जनो दिष्ट्या हतस्ते भगवन्यथामयः ॥ १५॥

किन्नरा ऊचुः
वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनाऽनुकारिताः ।
भवता हरे स वृजिनोऽवसादितो नरसिंह नाथ विभवाय नो भव ॥ १६॥

विष्णुपार्षदा ऊचुः
अद्यैतद्धरिनररूपमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म ।
सोऽयं ते विधिकर ईश विप्रशप्तस्तस्येदं निधनमनुग्रहाय विद्मः ॥ १७॥

॥ इति श्री नृसिं हस्तोत्रं सम्पूर्णम् ॥
॥ श्री कृष्ण स्तोत्र ॥
॥ Shri Krishna Stotra ॥
॥ ॐ गण गणपतये नमः ॥
महादेव उवाच ।
जयस्वरुपं जयदं जयेशं जयकारणम् ।
प्रवरं जयदानां च वन्दे तमपराजितम् ॥ १॥
विश्वं विश्वेश्वरेशं च विश्वेशं विश्वकारणम् ।
विश्वाधारं च विश्वस्थं विश्वकारणकारणम् ॥ २॥

विश्वरक्षाकारणं च विश्वघ्नं विश्वजं परम् ।
फलबीजं फलाधारं फलं च तत्फलप्रदम् ॥ ३॥
तेजःस्वरुपं तेजोदं सर्वतेजस्विनां वरम् ।
इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे ।
नारायणं च संभाष्य उवास स तदाज्ञया ॥ ४॥

इति शंभुकृतं स्तोत्रं यो जनः संयतः पठेत् ।
सर्वसिद्धिर्भवेत्तस्य विजयं च पदे पदे ॥ ५॥
संततं वर्धते मित्रं धनमैश्वर्यमेव च ।
शत्रुसैन्यं क्षयं याति दुःखानि दुरितानि च ॥ ६॥

॥ इति श्री कृष्ण स्तोत्रम् सम्पूर्णम् ॥
॥ श्री राम स्तोत्र ॥
॥ Shri Ram Stotra ॥
॥ ॐ गण गणपतये नमः ॥
श्रीमहादेव उवाचः
नमोऽस्तु रामाय सशक्तिकाय नीलोत्पलश्यामलकोमलाय ।
किरीटहाराङ्गदभूषणाय सिंहासनस्थाय महाप्रभाय ॥ १॥
त्वमादिमध्यान्तविहीन एकः सृजस्यवस्यत्सि च लोकजातम् ।
स्वमायया तेन न लिप्यसे त्वं यत्स्वे मुखेऽजस्ररतोऽनवद्यः ॥ २॥

लीलां विधत्से गुणसंवृतस्त्वं प्रपन्नभक्तानुविधानहेतोः ।
नानावतारैः सुरमानुषाद्यैः प्रतीयसे ज्ञानिभिरेव नित्यम् ॥ ३॥
स्वांशेन लोकं सकलं विधाय तं बिभर्षि च त्वं तदधः फणीश्वरः ।
उपर्यधो भान्वनिलोडुपौषधीप्रवर्षरूपोऽवसि नैकधा जगत् ॥ ४॥

त्वमिह देहभृतां शिखिरूपः पचसि भक्तमशेषमजस्रम् ।
पवनमञ्चकरूपसहायो जगदखण्डमनेन बिभर्षि ॥ ५॥
चन्द्रसूर्यशिखिमध्यगतं यत्तेज ईश चिदशेषतनूनाम् ।
प्राभवत्तनुभृतामिह धैर्यं शौर्यमात्रमखिलं तव सत्त्वम् ॥ ६॥

त्वं विरिञ्चिशिवविष्णुविभेदात् कालकर्मशशिसूर्यविभागात् ।
वादिनां पृथगिवेश बिभासि ब्रह्म निश्चितमनन्यदिहैकम् ॥ ७॥
मत्स्यादिरूपेण यथा त्वमेकः श्रुतो पुराणेषु च लोकसिद्धः ।
तथैव सर्वं सदयद्विभागस्त्वमेव नान्यद्भवतो विभाति ॥ ८॥

यद्यत्समुत्पन्नमनन्तसृष्टावुत्पत्स्यते यच्च भवच्च यच्च ।
न दृश्यते स्थावरजङ्गमादौ त्वया विनाऽतः परतः परस्त्वम् ॥ ९॥
तत्वं न जानन्ति परात्मनस्ते जनः समस्तास्तव माययाऽतः ।
त्वद्भक्तसेवामलमानसानां विभाति तत्वं परमेकमैशम् ॥ १०॥

ब्रह्मादयस्ते न विदुः स्वरूपं चिदात्मतत्वं बहिरर्थभावाः ।
ततो बुधस्त्वामिदमेव रूपं भक्त्या भजन्मुक्तिमुपैत्यदुःखः ॥ ११॥
अहं भवन्नामगुणैः कृतार्थो वसामि काश्यामनिशं भवान्या ।
मुमूर्षमाणस्य विमुक्तयेऽहं दिशामि मन्त्रं तव रामनाम ॥ १२॥

इमं स्तवं नित्यमनन्यभक्त्या श्रृण्वन्ति गायन्ति लिखन्ति ये वै ।
ते सर्वसौख्यं परमं च लब्धा भवत्पदं यान्तु भवत्प्रसादात् ॥ १३॥

॥ इति श्री राम स्तोत्रं सम्पूर्णम् ॥
॥ श्री दत्तात्रेय प्रार्थना स्तोत्र ॥
॥ Shri Dattatreya Prarthna Stotra ॥
॥ ॐ गण गणपतये नमः ॥
श्रीपाद श्रीवल्लभ त्वं सदैव ।
श्रीदत्तास्मान्पाहि देवाधिदेव ॥
भावग्राह्य क्लेशहारिन्सुकीर्ते ।
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ १॥
श्रीदत्तास्मान्पाहि देवाधिदेव ॥
भावग्राह्य क्लेशहारिन्सुकीर्ते ।
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ १॥
त्वं नो माता त्वं पिताप्तोऽधिपस्त्वम् ।
त्राता योगक्षेमकृत्सद्गुरुस्त्वम् ॥
त्वं सर्वस्वं नोऽप्रभो विश्वमूर्ते ।
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ २॥
त्राता योगक्षेमकृत्सद्गुरुस्त्वम् ॥
त्वं सर्वस्वं नोऽप्रभो विश्वमूर्ते ।
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ २॥
पापं तापं व्याधिमाधिं च दैन्यम् ।
भीतिं क्लेशं त्वं हराशु त्वदन्यम् ॥
त्रातारं नो वीक्ष्य ईशास्तजूर्ते ।
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ ३॥
भीतिं क्लेशं त्वं हराशु त्वदन्यम् ॥
त्रातारं नो वीक्ष्य ईशास्तजूर्ते ।
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ ३॥
नान्यस्त्राता नापि दाता न भर्ता ।
त्वत्तो देव त्वं शरण्योऽकहर्ता ॥
कुर्वात्रेयानुग्रहं पूर्णराते ।
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ ४॥
त्वत्तो देव त्वं शरण्योऽकहर्ता ॥
कुर्वात्रेयानुग्रहं पूर्णराते ।
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ ४॥
धर्मे प्रीतिं सन्मतिं देवभक्तिम् ।
सत्संगाप्तिं देहि भुक्तिं च मुक्तिम् ।
भावासक्तिं चाखिलानंदमूर्ते ।
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ ५॥
सत्संगाप्तिं देहि भुक्तिं च मुक्तिम् ।
भावासक्तिं चाखिलानंदमूर्ते ।
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ ५॥
श्लोकपंचकमेततद्यो लोकमङ्गलवर्धनम् ।
प्रपठेन्नियतो भक्त्या स श्रीदत्तप्रियो भवेत् ॥

॥ इति श्री दत्तात्रेय प्रार्थना स्तोत्रं सम्पूर्णम् ॥
॥ श्री गरूड ध्वज स्तोत्र ॥
॥ Shri Garur Dhwaj Stotra ॥
॥ ॐ गण गणपतये नमः ॥
ध्रुव उवाच
योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां
संजीयत्यखिलशक्तिधरः स्वधाम्ना ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान्नमो भगवते पुरूषाय तुभ्यम् ॥ १॥
संजीयत्यखिलशक्तिधरः स्वधाम्ना ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान्नमो भगवते पुरूषाय तुभ्यम् ॥ १॥
एकस्त्वमेव भगवन्निदमात्मशक्त्या
मायाख्ययोरूगुणया महदाद्यशेषम् ।
सृष्ट्वाऽनुविश्य पुरुषस्तदसद्गुणेषु
नानेव दारूषु विभावसुवद्विभासि ॥ २॥
मायाख्ययोरूगुणया महदाद्यशेषम् ।
सृष्ट्वाऽनुविश्य पुरुषस्तदसद्गुणेषु
नानेव दारूषु विभावसुवद्विभासि ॥ २॥
त्वद्दत्तया वयुनयेदमचष्ट विश्वं
सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः ।
तस्यापवर्ग्यशरणं तव पादमूलं
विस्मर्यते कृतविदा कथमार्तबन्धो ॥ ३॥
सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः ।
तस्यापवर्ग्यशरणं तव पादमूलं
विस्मर्यते कृतविदा कथमार्तबन्धो ॥ ३॥
नूनं विमुष्टमतयस्तव मायया तेये
त्वां भवाप्ययविमोक्षणमन्यहेतोः ।
अर्चन्ति कल्पकतरूं कुणपोपभोग्य
मिच्छन्ति यत्स्पर्शजं निरयेऽपि नॄणाम् ॥ ४॥

या निर्वृतिस्तनुभूतां तव पादपद्म
ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् ।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किन्त्वन्तकासिलुलितात् पततां विमानात् ॥ ५॥

भक्तिं मूहुः प्रवहतां त्वयि मे प्रसङ्गो
भूयादनन्त महताममलाशयानाम् ।
येनाञ्जसोल्बणमुरूव्यसनं भवाब्धिं
नेष्ये भवद्गुणकथामृतपानमत्तः ॥ ६॥
भूयादनन्त महताममलाशयानाम् ।
येनाञ्जसोल्बणमुरूव्यसनं भवाब्धिं
नेष्ये भवद्गुणकथामृतपानमत्तः ॥ ६॥
ते न स्मरन्त्यतितरां प्रियमीशमर्त्यं
ये चान्वदः सुतसुहृद्गृहवित्तदाराः ।
ये त्वब्जनाभ भवदीयपदारविन्द
सौगंध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ ७॥
ये चान्वदः सुतसुहृद्गृहवित्तदाराः ।
ये त्वब्जनाभ भवदीयपदारविन्द
सौगंध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ ७॥
तिर्यङ्मगद्विजसरीसृपदेवदैत्य
मर्त्यादिभिः परिचितं सदसद्विशेषम् ।
रूपम् स्थविष्ठमज ते महदाद्यनेकं
नातःपरं परम वेद्मि न यत्र वादः ॥ ८॥
मर्त्यादिभिः परिचितं सदसद्विशेषम् ।
रूपम् स्थविष्ठमज ते महदाद्यनेकं
नातःपरं परम वेद्मि न यत्र वादः ॥ ८॥
कल्पान्त एतदखिलं जठरेण गृह्वन्
शेते पुमान् स्वदृगनन्तसखस्तदङ्के ।
यन्नाभिसिन्धुरूहकाञ्चनलोकपद्म
गर्भे द्युमान् भगवते प्रणतोऽस्मि तस्मै ॥ ९॥

त्वं नित्यमुक्तपरिशुद्धविशुद्ध आत्मा
कूटस्थ आदिपुरूषो भगवांस्त्र्यधीशः ।
यद्बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या
द्रष्टा स्थितावधिमखो व्यातिरिक्त आस्से ॥ १०॥

यस्मिन् विरूद्धगतयो ह्यनिशं पतन्ति
विद्यादयो विविधशक्तय आनुपूर्व्यात् ।
तद्भह्म विश्वभवमेकमनन्तमाद्यम
अनन्दमात्रमविकारमहं प्रपद्ये ॥ ११॥
विद्यादयो विविधशक्तय आनुपूर्व्यात् ।
तद्भह्म विश्वभवमेकमनन्तमाद्यम
अनन्दमात्रमविकारमहं प्रपद्ये ॥ ११॥
सत्याशिषो हि भगवंस्तव पादपद्म
माशीस्तथाऽनुभजतः पुरुषार्थमूर्तेः ।
अप्येवमार्य भगवान् परिपाति दीनान्
वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १२॥
माशीस्तथाऽनुभजतः पुरुषार्थमूर्तेः ।
अप्येवमार्य भगवान् परिपाति दीनान्
वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १२॥
मैत्रेय उवाच
अथाभिष्टुत एवं वै सत्सङ्कल्पेन धीमता ।
भृत्यानुरक्तो भगवान् प्रतिनन्द्येदमब्रवीत् ॥ १३॥

श्री भगवानुवाच
वेदाहं ते व्यवसितं हृदि राजन्यबालक ।
तत्प्रयच्छामि भद्रं ते दुरापमपि सुव्रत ॥ १४॥
नान्यैरधिष्ठितं भद्र यद्भ्राजिष्णु ध्रुवक्षिति ।
यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् ॥ १५॥

मेढ्यां गोचक्रवत्स्थास्नु परस्तात् कल्पवासिनाम् ।
धर्मोऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः ॥
चरन्ति दक्षिणोकृत्य भ्रमन्तो यत्सतारकाः ॥ १६॥

प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रयः ।
षत्त्रिंशद्वर्षसाहस्रं रक्षिताऽव्याहतेन्द्रियः ॥ १७॥
त्वद्भ्रातर्युत्तमे नष्टे मृगयायां तु तन्मनाः ।
अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्षय्ति ॥ १८॥

इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः ।
भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि ॥ १९॥
ततो गंतासि मत्स्थानं सर्वलोकनमस्कृतम् ।
उपरिष्ठादृषिभ्यस्त्वं यतो नावर्तते गतः ॥ २०॥

इत्यर्चितः स भगवानतिदिश्यात्मनः पदम् ।
बालस्य पश्यतो धाम स्वमगाद्गरुडध्वजः ॥ २१॥

॥ इति श्री गरुड ध्वज स्तोत्रं सम्पूर्णम् ॥
॥ श्री नवग्रह स्तोत्र ॥
Shri Navgreh Stotra
॥ ॐ गण गणपतये नमः ॥
जपाकुसुमसंकाशं काश्यपेयं महद्युतिम् ।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ १॥
दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् ।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥ २॥

धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥ ३॥
प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् ।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ ४॥

देवानां च ऋषीणां च गुरुं काञ्चनसंनिभम् ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ ५॥
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् ।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ६॥

नीलांजनसमाभासं रविपुत्रं यमाग्रजम् ।
छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥ ७॥
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ॥ ८॥

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥ ९॥
इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः ।
दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति ॥ १०॥

नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम् ।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ॥
ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः ।
ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ॥

॥ इति श्री नवग्रह स्तोत्रं सम्पूर्णम् ॥
॥ श्री गुरु स्तोत्र ॥
॥ Shri Guru Stotra ॥
॥ ॐ गण गणपतये नमः ॥
अथ गुरुस्तोत्रम्
बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः ।
लोकत्रयगुरुः श्रीमान्सर्वज्ञः सर्वकोविदः ॥ १॥
सर्वेशः सर्वदाऽभीष्टः सर्वजित्सर्वपूजितः ।
अक्रोधनो मुनिश्रेष्ठो नीतिकर्ता गुरुः पिता ॥ २॥

विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः ।
भूर्भुवःसुवरों चैव भर्ता चैव महाबलः ॥ ३॥
पञ्चविंशतिनामानि पुण्यानि नियतात्मना ।
वसता नन्दभवने विष्णुना कीर्तितानि वै ॥ ४॥

यः पठेत् प्रातरुत्थाय प्रयतः सुसमाहितः ।
विपरीतोऽपि भगवान्प्रीतो भवति वै गुरुः ॥ ५॥
यश्छृणोति गुरुस्तोत्रं चिरं जीवेन्न संशयः ।
बृहस्पतिकृता पीडा न कदाचिद्भविष्यति ॥ ६॥

॥ इति श्री गुरु स्तोत्रं सम्पूर्णम् ॥
॥ श्री बृहस्पति स्तोत्र ॥
॥ Shri Brahaspati Stotra ॥
॥ ॐ गण गणपतये नमः ॥
अस्य श्रीबृहस्पतिस्तोत्रस्य गृत्समद ऋषिः, अनुष्टुप् छन्दः,
बृहस्पतिर्देवता, बृहस्पतिप्रीत्यर्थं जपे विनियोगः ।
गुरुर्बृहस्पतिर्जीवः सुराचार्यो विदांवरः ।
वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा ॥ १॥

सुधादृष्टिर्ग्रहाधीशो ग्रहपीडापहारकः ।
दयाकरः सौम्यमूर्तिः सुरार्च्यः कुङ्मलद्युतिः ॥ २॥
लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः ।
तारापतिश्चाङ्गिरसो वेदवैद्यपितामहः ॥ ३॥

भक्त्या बृहस्पतिं स्मृत्वा नामान्येतानि यः पठेत् ।
अरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः ॥ ४॥
जीवेद्वर्षशतं मर्त्यो पापं नश्यति नश्यति ।
यः पूजयेद्गुरुदिने पीतगन्धाक्षताम्बरैः ॥ ५॥

पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम् ।
ब्राह्मणान्भोजयित्वा च पीडाशान्तिर्भवेद्गुरोः ॥ ६॥

॥ इति श्री बृहस्पति स्तोत्रं सम्पूर्णम् ॥
॥ श्री शुक्र स्तोत्र ॥
॥ Shri Shukra Stotra ॥
॥ ॐ गण गणपतये नमः ॥
शृण्वन्तु मुनयः सर्वे शुक्रस्तोत्रमिदं शुभम् ।
रहस्यं सर्वभूतानां शुक्रप्रीतिकरं शुभम् ॥ १॥
येषां सङ्कीर्तनान्नित्यं सर्वान् कामानवाप्नुयात् ।
तानि शुक्रस्य नामानि कथयामि शुभानि च ॥ २॥

शुक्रः शुभग्रहः श्रीमान् वर्षकृद्वर्षविघ्नकृत् ।
तेजोनिधिर्ज्ञानदाता योगी योगविदां वरः ॥ ३॥
दैत्यसञ्जीवनो धीरो दैत्यनेतोशना कविः ।
नीतिकर्ता ग्रहाधीशो विश्वात्मा लोकपूजितः ॥ ४॥

शुक्लमाल्याम्बरधरः श्रीचन्दनसमप्रभः ।
अक्षमालाधरः काव्यः तपोमूर्तिर्धनप्रदः ॥ ५॥
चतुर्विंशतिनामानि अष्टोत्तरशतं यथा ।
देवस्याग्रे विशेषेण पूजां कृत्वा विधानतः ॥ ६॥

य इदं पठति स्तोत्रं भार्गवस्य महात्मनः ।
विषमस्थोऽपि भगवान् तुष्टः स्यान्नात्र संशयः ॥ ७॥
स्तोत्रं भृगोरिदमनन्तगुणप्रदं यो
भक्त्या पठेच्च मनुजो नियतः शुचिः सन् ।

प्राप्नोति नित्यमतुलां श्रियमीप्सितार्थान्
राज्यं समस्तधनधान्ययुतां समृद्धिम् ॥ ८॥
राज्यं समस्तधनधान्ययुतां समृद्धिम् ॥ ८॥
॥ इति श्री शुक्र स्तोत्रं समाप्तम् ॥
॥ श्री शनैश्चर स्तोत्र ॥
॥ Shri Shani Stotra ॥
॥ ॐ गण गणपतये नमः ॥
अस्य श्रीशनैश्चरस्तोत्रस्य । दशरथ ऋषिः । शनैश्चरो देवता । त्रिष्टुप् छन्दः ॥
शनैश्चरप्रीत्यर्थ जपे विनियोगः । दशरथ उवाच ॥

कोणोऽन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिंगलमन्दसौरिः ।
नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविनन्दनाय ॥ १॥
सुरासुराः किंपुरुषोरगेन्द्रा गन्धर्वविद्याधरपन्नगाश्च ।
पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥ २॥

नरा नरेन्द्राः पशवो मृगेन्द्रा वन्याश्च ये कीटपतंगभृङ्गाः ।
पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥ ३॥
देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशाः पुरपत्तनानि ।
पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥ ४॥

तिलैर्यवैर्माषगुडान्नदानैर्लोहेन नीलाम्बरदानतो वा ।
प्रीणाति मन्त्रैर्निजवासरे च तस्मै नमः श्रीरविनन्दनाय ॥ ५॥
प्रयागकूले यमुनातटे च सरस्वतीपुण्यजले गुहायाम् ।
यो योगिनां ध्यानगतोऽपि सूक्ष्मस्तस्मै नमः श्रीरविनन्दनाय ॥ ६॥

अन्यप्रदेशात्स्वगृहं प्रविष्टस्तदीयवारे स नरः सुखी स्यात् ।
गृहाद् गतो यो न पुनः प्रयाति तस्मै नमः श्रीरविनन्दनाय ॥ ७॥
स्रष्टा स्वयंभूर्भुवनत्रयस्य त्राता हरीशो हरते पिनाकी ।
एकस्त्रिधा ऋग्यजुःसाममूर्तिस्तस्मै नमः श्रीरविनन्दनाय ॥ ८॥

शन्यष्टकं यः प्रयतः प्रभाते नित्यं सुपुत्रैः पशुबान्धवैश्च ।
पठेत्तु सौख्यं भुवि भोगयुक्तः प्राप्नोति निर्वाणपदं तदन्ते ॥ ९॥
कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः ।
सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः ॥ १०॥

एतानि दश नामानि प्रातरुत्थाय यः पठेत् ।
शनैश्चरकृता पीडा न कदाचिद्भविष्यति ॥ ११॥

॥ इति श्री शनैश्चर स्तोत्रं सम्पूर्णम् ॥
॥ श्री बुध स्तोत्र ॥
॥ Shri Budh Stotra ॥
॥ ॐ गण गणपतये नमः ॥
अस्य श्रीबुधस्तोत्रमहामन्त्रस्य वसिष्ठ ऋषिः । अनुष्टुप्छन्दः ।
बुधो देवता । बुधप्रीत्यर्थे जपे विनियोगः ।

ध्यानम्
भुजैश्चतुर्भिर्वरदाभयासिगदं वहन्तं सुमुखं प्रशान्तम् ।
पीतप्रभं चन्द्रसुतं सुरेढ्यं सिम्हे निषण्णं बुधमाश्रयामि ॥
पीताम्बरः पीतवपुः पीतध्वजरथस्थितः ।
पीयूषरश्मितनयः पातु मां सर्वदा बुधः ॥ १॥

सिंहवाहं सिद्धनुतं सौम्यं सौम्यगुणान्वितम् ।
सोमसूनुं सुराराध्यं सर्वदं सौम्यमाश्रये ॥ २॥
बुधं बुद्धिप्रदातारं बाणबाणासनोज्ज्वलम् ।
भद्रप्रदं भीतिहरं भक्तपालनमाश्रये ॥ ३॥

आत्रेयगोत्रसञ्जातमाश्रितार्तिनिवारणम् ।
आदितेयकुलाराध्यमाशुसिद्धिदमाश्रये ॥ ४॥
कलानिधितनूजातं करुणारसवारिधिम् ।
कल्याणदायिनं नित्यं कन्याराश्यधिपं भजे ॥ ५॥

मन्दस्मितमुखाम्भोजं मन्मथायुतसुन्दरम् ।
मिथुनाधीशमनघं मृगाङ्कतनयं भजे ॥ ६॥
चतुर्भुजं चारुरूपं चराचरजगत्प्रभुम् ।
चर्मखड्गधरं वन्दे चन्द्रग्रहतनूभवम् ॥ ७॥

पञ्चास्यवाहनगतं पञ्चपातकनाशनम् ।
पीतगन्धं पीतमाल्यं बुधं बुधनुतं भजे ॥ ८॥
बुधस्तोत्रमिदं गुह्यं वसिष्ठेनोदितं पुरा ।
यः पठेच्छृणूयाद्वापि सर्वाभीष्टमवाप्नुयात् ॥ ९॥

॥ इति श्री बुध स्तोत्रं सम्पूर्णम् ॥
॥ श्री चन्द्र स्तोत्र ॥
॥ Shri Chandra Stotra ॥
॥ ॐ गण गणपतये नमः ॥
श्वेताम्बर: श्वेतवपु: किरीटी,
श्वेतद्युतिर्दण्डधरो द्विबाहु: ।
चन्द्रो मृतात्मा वरद: शशांक:,
श्रेयांसि मह्यं प्रददातु देव: ॥ १ ॥
श्वेतद्युतिर्दण्डधरो द्विबाहु: ।
चन्द्रो मृतात्मा वरद: शशांक:,
श्रेयांसि मह्यं प्रददातु देव: ॥ १ ॥
दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम ।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम ॥ २ ॥
क्षीरसिन्धुसमुत्पन्नो रोहिणी सहित: प्रभु: ।
हरस्य मुकुटावास: बालचन्द्र नमोsस्तु ते ॥ ३ ॥

सुधायया यत्किरणा: पोषयन्त्योषधीवनम ।
सर्वान्नरसहेतुं तं नमामि सिन्धुनन्दनम ॥ ४ ॥
राकेशं तारकेशं च रोहिणीप्रियसुन्दरम ।
ध्यायतां सर्वदोषघ्नं नमामीन्दुं मुहुर्मुहु: ॥ ५ ॥

॥ इति श्री चन्द्र स्तोत्रम सम्पूर्णम् ॥
॥ श्री सूर्य स्तोत्र ॥
॥ Shri Surya Stotra ॥
॥ ॐ गण गणपतये नमः ॥
अस्य श्रीभगवत्सूर्यस्तोत्रमहामन्त्रस्य अगस्त्य ऋषिः । अनुष्टुप्छन्दः ।
श्रीसूर्यनारायणो देवता । सूं बीजम् । रिं शक्तिः । यं कीलकम् ।
सूर्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।

आदित्याय अङ्गुष्ठाभ्यां नमः । अर्काय तर्जनीभ्यां नमः ।
दिवाकराय मध्यमाभ्यां नमः । प्रभाकराय अनामिकाभ्यां नमः ।
सहस्रकिरणाय कनिष्ठिकाभ्यां नमः । मार्ताण्डाय करतलकरपृष्ठाभ्यां नमः ।

आदित्याय हृदयाय नमः । अर्काय शिरसे स्वाहा ।
दिवाकराय शिखायै वषट् । प्रभाकराय कवचाय हुम् ।
सहस्रकिरणाय नेत्रत्रयाय वौषट् । मार्ताण्डाय अस्त्राय फट् ।
भूर्भुवः सुवरोमिति दिग्बन्धः ॥

ध्यायेत् सूर्यमनन्तशक्तिकिरणं तेजोमयं भास्वरं
भक्तानामभयप्रदं दिनकरं ज्योतिर्मयं शङ्करम् ।
आदित्यं जगदीशमच्युतमजं त्रैलोक्यचूडामणिं
भक्ताभीष्टवरप्रदं दिनमणिं मार्ताण्डमाद्यं शुभम् ॥ १ ॥

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
पञ्चब्रह्ममयाकाराः येन जाता नमामि तम् ॥ २ ॥
कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः ।
जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ ३ ॥

ब्रह्मस्वरूप उदये मध्याह्ने तु सदाशिवः ।
अस्तकाले स्वयं विष्णुस्त्रयीमूर्तिर्दिवाकरः ॥ ४ ॥
एकचक्रो रथो यस्य दिव्यः कनकभूषितः ।
सोऽयं भवतु नः प्रीतः पद्महस्तो दिवाकरः ॥ ५ ॥

पद्महस्तः परञ्ज्योतिः परेशाय नमो नमः ।
अण्डयोने कर्मसाक्षिन्नादित्याय नमो नमः ॥ ६ ॥
कमलासन देवेश कर्मसाक्षिन्नमो नमः ।
धर्ममूर्ते दयामूर्ते तत्त्वमूर्ते नमो नमः ॥ ७ ॥

सकलेशाय सूर्याय सर्वज्ञाय नमो नमः ।
क्षयापस्मारगुल्मादिव्याधिहन्त्रे नमो नमः ॥ ८ ॥
सर्वज्वरहरं चैव सर्वरोगनिवारणम् ।
स्तोत्रमेतच्छिवप्रोक्तं सर्वसिद्धिकरं परम् ॥ ९ ॥

सर्वसम्पत्करं चैव सर्वाभीष्टप्रदायकम् ॥ १० ॥
॥ इति श्री सूर्य स्तोत्रं सम्पूर्णम् ॥
॥ श्री केतु स्तोत्र ॥
॥ Shri Ketu Stotra ॥
॥ ॐ गण गणपतये नमः ॥
ॐ अस्य श्री केतुस्तोत्रमहामन्त्रस्य वामदेव ॠषिः ।
अनुष्टुप्छन्दः । केतुर्देवता । केतुप्रसादसिद्ध्यर्थे जपे विनियोगः ।

गौतम उवाच
मुनीन्द्र सूत तत्त्वज्ञ सर्वशास्त्रविशारद ।
सर्वरोगहरं ब्रूहि केतोः स्तोत्रमनुत्तमम् ॥ १॥

सूत उवाच
शृणु गौतम वक्ष्यामि स्तोत्रमेतदनुत्तमम् ।
गुह्याद्गुह्यतमं केतोः ब्रमणा कीर्तितं पुरा ॥ २॥
आद्यः कराळवदनो द्वितीयो रक्तलोचनः ।
तृतीयः पिङ्गळाक्षश्च चतुर्थो ज्ञानदायकः ॥ ३॥

पञ्चमः कपिलाक्षश्च षष्ठः कालाग्निसन्निभः ।
सप्तमो हिमगर्भश्च् तूम्रवर्णोष्टमस्तथा ॥ ४॥
नवमः कृत्तकण्ठश्च दशमः नरपीठगः ।
एकादशस्तु श्रीकण्ठः द्वादशस्तु गदायुधः ॥ ५॥

द्वादशैते महाक्रूराः सर्वोपद्रवकारकाः ।
पर्वकाले पीडयन्ति दिवाकरनिशाकरौ ॥ ६॥
नामद्वादशकं स्तोत्रं केतोरेतन्महात्मनः ।
पठन्ति येऽन्वहं भक्त्या तेभ्यः केतुः प्रसीदति ॥ ७॥

कुळुक्थधान्ये विलिखेत् षट्कोणं मण्डलं शुभम् ।
पद्ममष्टदळं तत्र विलिखेच्च विधानतः ॥ ८॥
नीलं घटं च संस्थाप्य दिवाकरनिशाकरौ ।
केतुं च तत्र निक्षिप्य पूजयित्वा विधानतः ॥ ९॥

स्तोत्रमेतत्पठित्वा च ध्यायन् केतुं वरप्रदम् ।
ब्राह्मणं श्रोत्रियं शान्तं पूजयित्वा कुटुम्बिनम् ॥ १०॥
केतोः कराळवक्त्रस्य प्रतिमां वस्त्रसंयुताम् ।
कुम्भादिभिश्च संयुक्तां चित्रातारे प्रदापयेत् ॥ ११॥

दानेनानेन सुप्रीतः केतुः स्यात्तस्य सौख्यदः ।
वत्सरं प्रयता भूत्वा पूजयित्वा विधानतः ॥ १२॥
मूलमष्टोत्तरशतं ये जपन्ति नरोत्तमाः ।
तेषां केतुप्रसादेन न कदाचिद्भयं भवेत् ॥ १३॥

॥ इति श्री केतुस्तोत्रं सम्पूर्णम् ॥
॥ श्री राहु स्तोत्र ॥
॥ Shri Rahu Stotra ॥
॥ ॐ गण गणपतये नमः ॥
ॐ अस्य श्री राहुस्तोत्रमहामन्त्रस्य वामदेव ऋषिः ।
अनुष्टुप्च्छन्दः । राहुर्देवता । राहुप्रसादसिद्ध्यर्थे जपे विनियोगः ।

काश्यप उवाच ।
शृण्वन्तु मुनयः सर्वे राहुप्रीतिकरं स्तवम् ।
सर्वरोगप्रशमनं विषभीतिहरं परम् ॥ १॥
सर्वसम्पत्करं चैव गुह्यमेतदनुत्तमम् ।
आदरेण प्रवक्ष्यामि श्रूयतामवधानतः ॥ २॥
सर्वरोगप्रशमनं विषभीतिहरं परम् ॥ १॥
सर्वसम्पत्करं चैव गुह्यमेतदनुत्तमम् ।
आदरेण प्रवक्ष्यामि श्रूयतामवधानतः ॥ २॥
राहुः सूर्यरिपुश्चैव विषज्वाली भयाननः ।
सुधांशुवैरिः श्यामात्मा विष्णुचक्राहितो बली ॥ ३॥
भुजगेशस्तीक्ष्णदंष्ट्रः क्रूरकर्मा ग्रहाधिपः ।
द्वादशैतानि नामानि नित्यं यो नियतः पठेत् ॥ ४॥

जप्त्वा तु प्रतिमां रंयां सीसजां माषसुस्थिताम् ।
नीलैर्गन्धाक्षतैः पुष्पैः भक्त्या सम्पूज्य यत्नतः ॥ ५॥
विधिना वह्निमादाय दूर्वान्नाज्याहुतीः क्रमात्।
तन्मन्त्रेणैव जुहुयाद्यावदष्टोत्तरं शतम् ॥ ६॥

हुत्वैवं भक्तिमान् राहुं प्रार्थयेद्ग्रहनायकम् ।
सर्वापद्विनिवृत्यर्थं प्राञ्जलिः प्रणतो नरः ॥ ७\
राहो कराळवदन रविचन्द्रभयङ्कर ।
तमोरूप नमस्तुभ्यं प्रसादं कुरु सर्वदा ॥ ८॥

सिम्हिकासुत सूर्यारे सिद्धगन्धर्वपूजित ।
सिंहवाह नमस्तुभ्यं सर्वान्रोगान् निवारय ॥ ९॥
कृपाणफलकाहस्त त्रिशूलिन् वरदायक ।
गरळातिगराळास्य गदान्मे नाशयाखिलान् ॥ १०॥

स्वर्भानो सर्पवदन सुधाकरविमर्दन ।
सुरासुरवरस्तुत्य सर्वदा त्वं प्रसीद मे ॥ ११॥
इति सम्प्रार्थितो राहुः दुष्टस्थानगतोऽपि वा ।
सुप्रीतो जायते तस्य सर्वान् रोगान् विनाशयेत् ॥ १२॥

विषान्न जायते भीतिः महारोगस्य का कथा ।
सर्वान् कामानवाप्नोति नष्टं राज्यमवाप्नुयात् ॥ १३॥
एवं पठेदनुदिनं स्तवराजमेतं मर्त्यः प्रसन्न हृदयो विजितेन्द्रियो यः ।
आरोग्यमायुरतुलं लभते सुपुत्रान्सर्वे ग्रहा विषमगाः सुरतिप्रसन्नाः ॥ १४॥

॥ इति श्री राहुस्तोत्रं सम्पूर्णम् ॥
॥ श्री नवनाग नाम स्तोत्र ॥
॥ Shri Navnag Naam Stotra ॥
॥ ॐ गण गणपतये नमः ॥
अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् ।
शङ्खपालं धृतराष्ट्रं तक्षकं कालियं तथा ॥ १॥

एतानि नवनामानि नागानां च महात्मनाम् ।
सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः ॥ २॥

तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥ ३॥
॥ इति श्री नवनाग नाम स्तोत्रम् सम्पूर्णम् ॥
॥ श्री पितृ स्तोत्र ॥
॥ Shri Pitra Storta ॥
॥ ॐ गण गणपतये नमः ॥
रुचिरुवाच
नमस्येऽहं पितॄन्भक्त्या ये वसन्त्यधिदेवतम् । देवताः
देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वधोत्तरैः ॥ १॥
नमस्येऽहं पितॄन्स्वर्गे ये तर्प्यन्ते महर्षिभिः ।
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः ॥ २॥

नमस्येऽहं पितॄन्स्वर्गे सिद्धाः सन्तर्पयन्ति यान् ।
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥ ३॥
नमस्येऽहं पितॄन्भक्त्या येऽर्च्यन्ते गुह्यकैर्दिवि ।
तन्मयत्वेन वाञ्छद्भिरृद्धिमात्यन्तिकीं पराम् ॥ ४॥

नमस्येऽहं पितॄन्मर्त्यैरर्च्यन्ते भुवि ये सदा ।
श्राद्धेषु श्रद्धयाभीष्टलोकपुष्टिप्रदायिनः ॥ ५॥
नमस्येऽहं पितॄन्विप्रैरर्च्यन्ते भुवि ये सदा ।
वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥ ६॥

नमस्येऽहं पितॄन्ये वै तर्प्यन्तेऽरण्यवासिभिः ।
वन्यैः श्राद्धैर्यताहारैस्तपोनिर्धूतकल्मषैः ॥ ७॥
नमस्येऽहं पितॄन्विप्रैर्नैष्ठिकैर्धर्मचारिभिः ।
ये संयतात्मभिर्नित्यं सन्तर्प्यन्ते समाधिभिः ॥ ८॥

नमस्येऽहं पितॄञ्छ्राद्धै राजन्यास्तर्पयन्ति यान् ।
कव्यैरशेषैर्विधिवल्लोकद्वयफलप्रदान् ॥ ९॥
नमस्येऽहं पितॄन्वैश्यैरर्च्यन्ते भुवि ये सदा ।
स्वकर्माभिरतैर्न्नित्यं पुष्पधूपान्नवारिभिः ॥ १०॥

नमस्येऽहं पितॄञ्छ्राद्धे शूद्रैरपि च भक्तितः ।
सन्तर्प्यते जगत्कृत्स्नं नाम्ना ख्याताः सुकालिनः ॥ ११॥
नमस्येऽहं पितॄञ्छ्राद्धे पाताले ये महासुरैः ।
सन्तर्प्यन्ते सुधाहारास्त्यक्तदम्भमदैः सदा ॥ १२॥

नमस्येऽहं पितॄञ्छ्राद्धैरर्च्यन्ते ये रसातले ।
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः ॥ १३॥
नमस्येऽहं पितॄञ्छ्राद्धैः सर्पैः सन्तर्पितान्सदा ।
तत्रैव विधिवन्मन्त्रभोगसम्पत्समन्वितैः ॥ १४॥

पितॄन्नमस्ये निवसन्ति साक्षाद्ये देवलोकेऽथ महीतले वा ।
तथाऽन्तरिक्षे च सुरारिपूज्यास्ते वै प्रतीच्छन्तु मयोपनीतम् ॥ १५॥
पितॄन्नमस्ये परमार्थभूता ये वै विमाने निवसन्त्यमूर्ताः ।
यजन्ति यानस्तमलैर्मनोभिर्योगीश्वराः क्लेशविमुक्तिहेतून् ॥ १६॥

पितॄन्नमस्ये दिवि ये च मूर्ताः स्वधाभुजः काम्यफलाभिसन्धौ ।
प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेषु ॥ १७॥
तृप्यन्तु तेऽस्मिन्पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान् ।
सुरत्वमिन्द्रत्वमितोऽधिकं वा गजाश्वरत्नानि महागृहाणि ॥ १८॥

सोमस्य ये रश्मिषु येऽर्कबिम्बे शुक्ले विमाने च सदा वसन्ति ।
तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैर्गन्धादिना पुष्टिमितो व्रजन्तु ॥ १९॥
येषां हुतेऽग्नौ हविषा च तृप्तिर्ये भुञ्जते विप्रशरीरसंस्थाः ।
ये पिण्डदानेन मुदं प्रयान्ति तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैः ॥ २०॥

ये खड्गमांसेन सुरैरभीष्टैः कृष्णैस्तिलैर्दिव्य मनोहरैश्च ।
कालेन शाकेन महर्षिवर्यैः सम्प्रीणितास्ते मुदमत्र यान्तु ॥ २१॥
कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषां मम पूजितानाम् ।
तेषाञ्च सान्निध्यमिहास्तु पुष्पगन्धाम्बुभोज्येषु मया कृतेषु ॥ २२॥

दिनेदिने ये प्रतिगृह्णतेऽर्चां मासान्तपूज्या भुवि येऽष्टकासु ।
ये वत्सरान्तेऽभ्युदये च पूज्याः प्रयान्तु ते मे पितरोऽत्र तुष्टिम् ॥ २३॥
पूज्या द्विजानां कुमुदेन्दुभासो ये क्षत्रियाणां ज्वलनार्कवर्णाः ।
तथा विशां ये कनकावदाता नीलीप्रभाः शूद्रजनस्य ये च ॥ २४॥

तेऽस्मिन्समस्ता मम पुष्पगन्धधूपाम्बुभोज्यादिनिवेदनेन ।
तथाऽग्निहोमेन च यान्ति तृप्तिं सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः ॥ २५॥
ये देवपूर्वाण्यभितृप्तिहेतोर श्रन्ति कव्यानि शुभाहृतानि ।
तृप्ताश्च ये भूतिसृजो भवन्ति तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मि तेभ्यः ॥ २६॥

रक्षांसि भूतान्यसुरांस्तथोग्रात्रिर्णाशयन्तु त्वशिवं प्रजानाम् ।
आद्याः सुराणाममरेशपूज्यास्तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मितेभ्यः ॥ २७॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।
व्रजन्तु तृप्तिं श्राद्धेऽस्मिन्पितरस्तर्पिता मया ॥ २८॥

अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् ।
तथा बर्हिषदः पान्तु याम्यां मे पितरः सदा ।
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ॥ २९॥
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः ।

सर्वतः पितरो रक्षां कुर्वन्तु मम नित्यशः ॥ ३०॥
विश्वो विश्वभुगाराध्यो धर्मो धन्यः शुभाननः ।
भूतिदो भूतिकृद्भूतिः पितॄणां ये गणा नव ॥ ३१॥
कल्याणः कल्यदः कर्ता कल्यः कल्यतराश्रयः ।

कल्यताहेतुरन्घः षडिमे ते गणाः स्मृताः ॥ ३२॥
वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा ।
विश्वपाता तथा धाता सप्तैते च गणाः स्मृताः ॥ ३३॥
महान्महात्मा महितो महिमावान्महाबलः ।

गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ॥ ३४॥
सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिदः ।
पितॄणां कथ्यते चैव तथा गणचतुष्टयम् ॥ ३५॥
एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् ।

त एवात्र पितृगणास्तुष्यन्तु च मदाहितात् ॥ ३६॥
माक्रण्डेय उवाच
एवं तु स्तुवतस्तस्य तेजसोराशिरुच्छ्रितः ।
प्रादुर्बभूव सहसा गगनव्याप्तिकारकः ॥ ३७॥
तद्दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत् ।
जानुभ्यामवनीं गत्वा रुचिः स्तोत्रमिदञ्जगौ ॥ ३८॥

अर्चितानाममूर्तानां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ ३९॥
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षोणां तथाऽन्येषां तान्नमस्यामि कामदान् ॥ ४०॥

मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा ।
तान्नमस्याम्यहं सर्वान्पितॄनप्युदधावपि ॥ ४१॥
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ।
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ ४२॥

प्रजापतेः कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥ ४३॥
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वायम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ ४४॥

सोमाधारान्पितृगणान्योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् ॥ ४५॥
अग्निरूपांस्तथैवान्यान्नमस्यामि पितॄनहम् ।
अग्निसोममयं विश्वं यत एतदशेषतः ॥ ४६॥

ये च तेजसि ये चैते सोमसूर्याग्निमूर्तयः ।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥ ४७॥
तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः ।
नमोनमो नमस्तेऽस्तु प्रसीदन्तु स्वधाभुजः ॥ ४८॥

॥ इति श्री पितृ स्तोत्रं सम्पूर्णम ॥
॥ श्री दश महाविद्या स्तोत्र ॥
॥ Shri Das Mahavidya Stotra ॥
॥ ॐ गण गणपतये नमः ॥
ॐ नमस्ते चण्डिके चण्डि चण्डमुण्डविनाशिनि ।
नमस्ते कालिके कालमहाभयविनाशिनि ॥ १॥
शिवे रक्ष जगद्धात्रि प्रसीद हरवल्लभे ।
प्रणमामि जगद्धात्रीं जगत्पालनकारिणीम् ॥ २॥

जगत् क्षोभकरीं विद्यां जगत्सृष्टिविधायिनीम् ।
करालां विकटां घोरां मुण्डमालाविभूषिताम् ॥ ३॥
हरार्चितां हराराध्यां नमामि हरवल्लभाम् ।
गौरीं गुरुप्रियां गौरवर्णालङ्कारभूषिताम् ॥ ४॥

हरिप्रियां महामायां नमामि ब्रह्मपूजिताम् ।
सिद्धां सिद्धेश्वरीं सिद्धविद्याधरङ्गणैर्युताम् ॥ ५॥
मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्गशोभिताम् ।
प्रणमामि महामायां दुर्गां दुर्गतिनाशिनीम् ॥ ६॥

उग्रामुग्रमयीमुग्रतारामुग्रगणैर्युताम् ।
नीलां नीलघनश्यामां नमामि नीलसुन्दरीम् ॥ ७॥
श्यामाङ्गीं श्यामघटितां श्यामवर्णविभूषिताम् ।
प्रणमामि जगद्धात्रीं गौरीं सर्वार्थसाधिनीम् ॥ ८॥

विश्वेश्वरीं महाघोरां विकटां घोरनादिनीम् ।
आद्यामाद्यगुरोराद्यामाद्यनाथप्रपूजिताम् ॥ ९॥
श्रीं दुर्गां धनदामन्नपूर्णां पद्मां सुरेश्वरीम् ।
प्रणमामि जगद्धात्रीं चन्द्रशेखरवल्लभाम् ॥ १०॥

त्रिपुरां सुन्दरीं बालामबलागणभूषिताम् ।
शिवदूतीं शिवाराध्यां शिवध्येयां सनातनीम् ॥ ११॥
सुन्दरीं तारिणीं सर्वशिवागणविभूषिताम् ।
नारायणीं विष्णुपूज्यां ब्रह्मविष्णुहरप्रियाम् ॥ १२॥

सर्वसिद्धिप्रदां नित्यामनित्यां गुणवर्जिताम् ।
सगुणां निर्गुणां ध्येयामर्चितां सर्वसिद्धिदाम् ॥ १३॥
विद्यां सिद्धिप्रदां विद्यां महाविद्यां महेश्वरीम् ।
महेशभक्तां माहेशीं महाकालप्रपूजिताम् ॥ १४॥

प्रणमामि जगद्धात्रीं शुम्भासुरविमर्दिनीम् ।
रक्तप्रियां रक्तवर्णां रक्तबीजविमर्दिनीम् ॥ १५॥
भैरवीं भुवनां देवीं लोलजिव्हां सुरेश्वरीम् ।
चतुर्भुजां दशभुजामष्टादशभुजां शुभाम् ॥ १६॥

त्रिपुरेशीं विश्वनाथप्रियां विश्वेश्वरीं शिवाम् ।
अट्टहासामट्टहासप्रियां धूम्रविनाशिनीम् ॥ १७॥
कमलां छिन्नभालाञ्च मातङ्गीं सुरसुन्दरीम् ।
षोडशीं विजयां भीमां धूमाञ्च वगलामुखीम् ॥ १८॥

सर्वसिद्धिप्रदां सर्वविद्यामन्त्रविशोधिनीम् ।
प्रणमामि जगत्तारां साराञ्च मन्त्रसिद्धये ॥ १९॥
इत्येवञ्च वरारोहे स्तोत्रं सिद्धिकरं परम् ।
पठित्वा मोक्षमाप्नोति सत्यं वै गिरिनन्दिनि ॥ २०॥

॥ इति श्री दश महाविद्या स्तोत्रं सम्पूर्णम् ॥
॥ श्री गंगा स्तोत्र ॥
॥ Shri Ganga Stotra ॥
॥ ॐ गण गणपतये नमः ॥
देवि सुरेश्वरि भगवति गङ्गे त्रिभुवनतारिणि तरलतरङ्गे ।
शङ्करमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ॥ १॥
भागीरथि सुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः ।
नाऽहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् ॥ २॥

हरिपदपाद्यतरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे ।
दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम् ॥ ३॥
तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् ।
मातर्गङ्गे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ॥ ४॥

पतितोद्धारिणि जाह्नवि गङ्गे खण्डितगिरिवरमण्डितभङ्गे ।
भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवनधन्ये ॥ ५॥
कल्पलतामिव फलदाम् लोके प्रणमति यस्त्वां न पतति शोके ।
पारावारविहारिणि गङ्गे विमुखयुवतिकृततरलापाङ्गे ॥ ६॥

तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोऽपि न जातः ।
नरकनिवारिणि जाह्नवि गङ्गे कलुषविनाशिनि महिमोत्तुङ्गे ॥ ७॥
पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे ।
इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ॥ ८॥

रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम् ।
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे ॥ ९॥ गतिर्मय
अलकानन्दे परमानन्दे कुरु करुणामयि कातरवन्द्ये ।
तव तटनिकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः ॥ १०॥

वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः ।
अथवा श्वपचो मलिनो दीनस्तव न हि दूरे नृपतिकुलीनः ॥ ११॥
भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये ।
गङ्गास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् ॥ १२॥

येषां हृदये गङ्गाभक्तिस्तेषां भवति सदा सुखमुक्तिः ।
मधुराकान्तापञ्झटिकाभिः परमानन्दकलितललिताभिः ॥ १३॥
गङ्गास्तोत्रमिदं भवसारं वाञ्छितफलदम् विमलं सारम् ।
शङ्करसेवकशङ्कररचितं पठति सुखीस्तव इति च समाप्तः ॥ १४॥

॥ इति श्री गंगा स्तोत्रं सम्पूर्णम् ॥
॥ श्री अम्बा स्तोत्र ॥
॥ Shri Amba Stotra ॥
॥ ॐ गण गणपतये नमः ॥
का त्वं शुभकरे सुखदुःखहस्ते आघूर्णितं भवजलं प्रबलोर्मिभङ्गैः ।
शांतिं विधातुमिह किं बहुधा विभग्नाम् मतः प्रयत्नपरमासि सदैव विश्वे ॥

सम्पादयत्यविरतं त्वविरामवृता या वै स्थिता कृतफलं त्वकृतस्य नेत्री ।
सा मे भवत्वनिदिनं वरदा भवानी जानाम्यहं ध्रुवमिदं धृतकर्मपाशा ॥

को वा धर्मः किमकृतं क्वः कपाललेखः किंवादृष्टं फलमिहास्ति हि यां विना भोः ।
इच्छापाशैर्नियमिता नियमाः स्वतंत्रैः यस्या नेत्री भवति सा शरणं ममाद्या ॥

सन्तानयन्ति जलधिं जनिमृत्युजालम् सम्भावयन्त्यविकृतं विकृतं विभग्नम् ।
यस्या विभूतय इहामितशक्तिपालाः नाश्रित्य तां वद कुत शरणं व्रजामः ॥

मित्रे रिपौ त्वविषमं तव पद्मनेत्रम् स्वस्थे दुःस्थे त्ववितथं तव हस्तपातः ।
मृत्युच्छाया तव दया त्वमृतञ्च मातः मा मां मुञ्चन्तु परमे शुभदृष्टयस्ते ॥

क्वाम्बा सर्वा क्व गणनं मम हीनबुद्धेः धत्तुं दोर्भ्यामिव मतिर्जगदेकधात्रीम् ।
श्रीसञ्चिन्त्यं सुचरणमभयपतिष्ठम् सेवासारैरभिनुतं शरणं प्रपद्ये ॥

या मामा जन्म विनयत्यतिदुःखमार्गैः आसंसिद्धेः स्वकलितैर्ल्ललितैर्विलासैः ।
या मे बुद्धिं सुविदधे सततं धरण्यम् साम्बा सर्वा मम गतिः सफले फले वा ॥

॥ इति श्री अम्बा स्तोत्रं सम्पूर्णम ॥
॥ श्री त्रैलोक्य विजया अपराजिता स्तोत्र ॥
॥ Shri Trilokya Vijayee Aprajita Stotra ॥
॥ ॐ गण गणपतये नमः ॥
ॐ नमोऽपराजितायै । ॐ अस्या वैष्णव्याः पराया अजिताया महाविद्यायाः
वामदेव-बृहस्पति-मार्केण्डेया ऋषयः । गायत्र्युष्णिगनुष्टुब्बृहती छन्दांसि ।
लक्ष्मीनृसिंहो देवता । ॐ क्लीं श्रीं ह्रीं बीजम् । हुं शक्तिः ।
सकलकामनासिद्ध्यर्थं अपराजितविद्यामन्त्रपाठे विनियोगः ।
ॐ निलोत्पलदलश्यामां भुजङ्गाभरणान्विताम् ।
शुद्धस्फटिकसङ्काशां चन्द्रकोटिनिभाननाम् ॥ १॥

शङ्खचक्रधरां देवी वैष्ण्वीमपराजिताम् बालेन्दुशेखरां देवीं वरदाभयदायिनीम् ॥ २॥
नमस्कृत्य पपाठैनां मार्कण्डेयो महातपाः ॥ ३॥

मार्ककण्डेय उवाच
शृणुष्वं मुनयः सर्वे सर्वकामार्थसिद्धिदाम् ।
असिद्धसाधनीं देवीं वैष्णवीमपराजिताम् ॥ ४॥

ॐ नमो नारायणाय, नमो भगवते वासुदेवाय, नमोऽस्त्वनन्ताय
सहस्रशीर्षायणे, क्षीरोदार्णवशायिने, शेषभोगपर्य्यङ्काय,
गरुडवाहनाय, अमोघाय अजाय अजिताय पीतवाससे,

ॐ वासुदेव सङ्कर्षण प्रद्युम्न, अनिरुद्ध, हयग्रिव,
मत्स्य कूर्म्म, वाराह नृसिंह, अच्युत, वामन,
त्रिविक्रम, श्रीधर राम राम राम । वरद, वरद,
वरदो भव, नमोऽस्तु ते, नमोऽस्तुते, स्वाहा,

ॐ असुर-दैत्य-यक्ष-राक्षस-भूत-प्रेत-पिशाच-
कूष्माण्ड-सिद्ध-योगिनी-डाकिनी-शाकिनी-
स्कन्दग्रहान्उ पग्रहान्नक्षत्रग्रहांश्चान्या
हन हन पच पच मथ मथ विध्वंसय विध्वंसय
विद्रावय विद्रावय चूर्णय चूर्णय शङ्खेन चक्रेण वज्रेण
शूलेन गदया मुसलेन हलेन भस्मीकुरु कुरु स्वाहा ।

ॐ सहस्रबाहो सहस्रप्रहरणायुध,जय जय, विजय विजय,
अजित, अमित, अपराजित, अप्रतिहत, सहस्रनेत्र,
ज्वल ज्वल, प्रज्वल प्रज्वल, विश्वरूप बहुरूप,
मधुसूदन, महावराह, महापुरुष, वैकुण्ठ,नारायण,
पद्मनाभ, गोविन्द, दामोदर, हृषीकेश, केशव,
सर्वासुरोत्सादन, सर्वभूतवशङ्कर,सर्वदुः
स्वप्नप्रभेदन, सर्वयन्त्रप्रभञ्जन, सर्वनागविमर्दन,
सर्वदेवमहेश्वर, सर्वबन्धविमोक्षण, सर्वाहितप्रमर्दन,
सर्वज्वरप्रणाशन, सर्वग्रहनिवारण,
सर्वपापप्रशमन, जनार्दन, नमोऽस्तुते स्वाहा ।

विष्णोरियमनुप्रोक्ता सर्वकामफलप्रदा ।
सर्वसौभाग्यजननी सर्वभीतिविनाशिनी ॥ ५॥
सर्वैंश्च पठितां सिद्धैर्विष्णोः परमवल्लभा ।
नानया सदृशं किङ्चिद्दुष्टानां नाशनं परम् ॥ ६॥

विद्या रहस्या कथिता वैष्णव्येषापराजिता ।
पठनीया प्रशस्ता वा साक्षात्सत्त्वगुणाश्रया ॥ ७॥
ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ ८॥

अथातः सम्प्रवक्ष्यामि ह्यभयामपराजिताम् ।
या शक्तिर्मामकी वत्स रजोगुणमयी मता ॥ ९॥
सर्वसत्त्वमयी साक्षात्सर्वमन्त्रमयी च या ।
या स्मृता पूजिता जप्ता न्यस्ता कर्मणि योजिता ।
सर्वकामदुधा वत्स शृणुष्वैतां ब्रवीमि ते ॥ १०॥

य इमामपराजितां परमवैष्णवीमप्रतिहतां पठति सिद्धां
स्मरति सिद्धां महाविद्यां जपति पठति शृणोति स्मरति
धारयति कीर्तयति वा न तस्याग्निवायुवज्रोपलाशनिवर्षभयं,
न समुद्रभयं, न ग्रहभयं, न चौरभयं,
न शत्रुभयं, न शापभयं वा भवेत् ।

क्वचिद्रात्र्यन्धकारस्त्रीराजकुलविद्वेषि-विषगरगरदवशीकरण-
विद्वेष्णोच्चाटनवधबन्धनभयंवा न भवेत् ।
एतैर्मन्त्रैरुदाहृतैः सिद्धैः संसिद्धपूजितैः ।

ॐ नमोऽस्तुते । अभये, अनघे, अजिते, अमिते, अमृते,
अपरे, अपराजिते, पठति, सिद्धे जयति सिद्धे, स्मरति सिद्धे,
एकोनाशीतितमे, एकाकिनि, निश्चेतसि, सुद्रुमे, सुगन्धे,
एकान्नशे, उमे ध्रुवे, अरुन्धति, गायत्रि, सावित्रि, जातवेदसि,
मानस्तोके, सरस्वति, धरणि, धारणि, सौदामनि, अदिति,
दिति, विनते,गौरि, गान्धारि, मातङ्गी कृष्णे, यशोदे,
सत्यवादिनि, ब्रह्मवादिनि, कालि, कपालिनि, करालनेत्रे,
भद्रे, निद्रे, सत्योपयाचनकरि,स्थलगतं जलगतं
अन्तरिक्षगतं वा मां रक्ष सर्वोपद्रवेभ्यः स्वाहा ।

यस्याः प्रणश्यते पुष्पं गर्भो वा पतते यदि ।
म्रियते बालको यस्याः काकवन्ध्या च या भवेत् ॥ ११॥
धारयेद्या इमां विद्यामेतैर्दोषैर्न लिप्यते ।
गर्भिणी जीववत्सा स्यात्पुत्रिणी स्यान्न संशयः ॥ १२॥

भूर्जपत्रे त्विमां विद्यां लिखित्वा गन्धचन्दनैः ।
एतैर्दोषैर्न लिप्येत सुभगा पुत्रिणी भवेत् ॥ १३॥
रणे राजकुले द्यूते नित्यं तस्य जयो भवेत् ।
शस्त्रं वारयते ह्योषा समरे काण्डदारुणे ॥ १४॥

गुल्मशूलाक्षिरोगाणां क्षिप्रं नाश्यति च व्यथाम् ॥
शिरोरोगज्वराणां न नाशिनी सर्वदेहिनाम् ॥ १५॥
इत्येषा कथिता विध्या अभयाख्याऽपराजिता ।
एतस्याः स्मृतिमात्रेण भयं क्वापि न जायते ॥ १६॥

नोपसर्गा न रोगाश्च न योधा नापि तस्कराः ।
न राजानो न सर्पाश्च न द्वेष्टारो न शत्रवः ॥१७॥
यक्षराक्षसवेताला न शाकिन्यो न च ग्रहाः ।
अग्नेर्भयं न वाताच्व न स्मुद्रान्न वै विषात् ॥ १८॥

कार्मणं वा शत्रुकृतं वशीकरणमेव च ।
उच्चाटनं स्तम्भनं च विद्वेषणमथापि वा ॥ १९॥
न किञ्चित्प्रभवेत्तत्र यत्रैषा वर्ततेऽभया ।
पठेद् वा यदि वा चित्रे पुस्तके वा मुखेऽथवा ॥ २०॥

हृदि वा द्वारदेशे वा वर्तते ह्यभयः पुमान् ।
हृदये विन्यसेदेतां ध्यायेद्देवीं चतुर्भुजाम् ॥ २१॥
रक्तमाल्याम्बरधरां पद्मरागसमप्रभाम् ।
पाशाङ्कुशाभयवरैरलङ्कृतसुविग्रहाम् ॥ २२॥

साधकेभ्यः प्रयच्छन्तीं मन्त्रवर्णामृतान्यपि ।
नातः परतरं किञ्चिद्वशीकरणमनुत्तमम् ॥ २३॥
रक्षणं पावनं चापि नात्र कार्या विचारणा ।
प्रातः कुमारिकाः पूज्याः खाद्यैराभरणैरपि ।
तदिदं वाचनीयं स्यात्तत्प्रीत्या प्रीयते तु माम् ॥ २४॥

ॐ अथातः सम्प्रवक्ष्यामि विद्यामपि महाबलाम् ।
सर्वदुष्टप्रशमनीं सर्वशत्रुक्षयङ्करीम् ॥ २५॥
दारिद्र्यदुःखशमनीं दौर्भाग्यव्याधिनाशिनीम् ।
भूतप्रेतपिशाचानां यक्षगन्धर्वरक्षसाम् ॥ २६॥

डाकिनी शाकिनी-स्कन्द-कूष्माण्डानां च नाशिनीम् ।
महारौद्रिं महाशक्तिं सद्यः प्रत्ययकारिणीम् ॥ २७॥
गोपनीयं प्रयत्नेन सर्वस्वं पार्वतीपतेः ।
तामहं ते प्रवक्ष्यामि सावधानमनाः शृणु ॥ २८॥

एकान्हिकं द्व्यन्हिकं च चातुर्थिकार्द्धमासिकम् ।
द्वैमासिकं त्रैमासिकं तथा चातुर्मासिकम् ॥ २९॥
पाञ्चमासिकं षाङ्मासिकं वातिक पैत्तिकज्वरम् ।
श्लैष्पिकं सात्रिपातिकं तथैव सततज्वरम् ॥ ३०॥

मौहूर्तिकं पैत्तिकं शीतज्वरं विषमज्वरम् ।
द्व्यहिन्कं त्र्यह्निकं चैव ज्वरमेकाह्निकं तथा ।
क्षिप्रं नाशयेते नित्यं स्मरणादपराजिता ॥ ३१॥

ॐ हॄं हन हन, कालि शर शर, गौरि धम्, धम्,
विद्ये आले ताले माले गन्धे बन्धे पच पच
विद्ये नाशय नाशय पापं हर हर संहारय
वा दुःखस्वप्नविनाशिनि कमलस्तिथते
विनायकमातः रजनि सन्ध्ये, दुन्दुभिनादे,
मानसवेगे, शङ्खिनि, चाक्रिणि गदिनि वज्रिणि
शूलिनि अपमृत्युविनाशिनिविश्वेश्वरि द्रविडि
द्राविडि द्रविणि द्राविणिकेशवदयिते पशुपतिसहिते
दुन्दुभिदमनि दुर्म्मददमनि । शबरि किराति मातङ्गि
ॐ द्रं द्रं ज्रं ज्रं क्रं क्रं तुरु तुरु ॐ द्रं कुरु कुरु ।

ये मां द्विषन्ति प्रत्यक्षं परोक्षं वा तान् सर्वान् दम दम
मर्दय मर्दय तापय तापय गोपय गोपय पातय पातय
शोषय शोषय उत्सादय उत्सादय ब्रह्माणि वैष्णवि
माहेश्वरि कौमारि वाराहि नारसिंहि ऐन्द्रि चामुण्डे
महालक्ष्मि वैनायिकि औपेन्द्रि आग्नेयि चण्डि
नैरृति वायव्ये सौम्ये ऐशानिऊर्ध्वमधोरक्ष
प्रचण्डविद्ये इन्द्रोपेन्द्रभगिनि ।

ॐ नमो देवि जये विजये शान्ति स्वस्ति-तुष्टि
पुष्टि- विवर्द्धिनि । कामाङ्कुशे कामदुधे सर्वकामवरप्रदे ।
सर्वभूतेषु मां प्रियं कुरु कुरु स्वाहा । आकर्षणि आवेशनि-,
ज्वालामालिनि-, रमणि रामणि, धरणि धारिणि,
तपनि तापिनि, मदनि मादिनि, शोषणि सम्मोहिनि ।
नीलपताके महानीले महागौरि महाश्रिये । महाचान्द्रि
महासौरि महामायूरि आदित्यरश्मि जाह्नवि ।
यमघण्टे किणि किणि चिन्तामणि ।
सुगन्धे सुरभे सुरासुरोत्पन्ने सर्वकामदुघे ।
यद्यथा मनीषितं कार्यं तन्मम सिद्ध्यतु स्वाहा ।

ॐ स्वाहा । ॐ भूः स्वाहा । भुवः स्वाहा ।
ॐ स्वः स्वहा । ॐ महः स्वहा । ॐ जनः स्वहा ।
ॐ तपः स्वाहा । ॐ सत्यं स्वाहा । ॐ भूर्भुवः स्वः स्वाहा ।

यत एवागतं पापं तत्रैव प्रतिगच्छतु स्वाहेत्योम् ।
अमोघैषा महाविद्या वैष्णवी चापराजिता ॥ ३२॥
स्वयं विष्णुप्रणीता च सिद्धेयं पाठतः सदा ।
एषा महाबला नाम कथिता तेऽपराजिता ॥ ३३॥

नानया सद्रशी रक्षा। त्रिषु लोकेषु विद्यते ।
तमोगुणमयी साक्षद्रौद्री शक्तिरियं मता ॥ ३४॥
कृतान्तोऽपि यतो भीतः पादमूले व्यवस्थितः ।
मूलधारे न्यसेदेतां रात्रावेनं च संस्मरेत् ॥ ३५॥

नीलजीमूतसङ्काशां तडित्कपिलकेशिकाम् ।
उद्यदादित्यसङ्काशां नेत्रत्रयविराजिताम् ॥ ३६॥
शक्तिं त्रिशूलं शङ्खं च पानपात्रं च विभ्रतीम् ।
व्याघ्रचर्मपरीधानां किङ्किणीजालमण्डिताम् ॥ ३७॥

धावन्तीं गगनस्यान्तः तादुकाहितपादकाम् ।
दंष्ट्राकरालवदनां व्यालकुण्डलभूषिताम् ॥ ३८॥
व्यात्तवक्त्रां ललज्जिह्वां भृकुटीकुटिलालकाम् ।
स्वभक्तद्वेषिणां रक्तं पिबन्तीं पानपात्रतः ॥ ३९॥

सप्तधातून् शोषयन्तीं क्रुरदृष्टया विलोकनात् ।
त्रिशूलेन च तज्जिह्वां कीलयनतीं मुहुर्मुहः ॥ ४०॥
पाशेन बद्ध्वा तं साधमानवन्तीं तदन्तिके ।
अर्द्धरात्रस्य समये देवीं धायेन्महाबलाम् ॥ ४१॥

यस्य यस्य वदेन्नाम जपेन्मन्त्रं निशान्तके ।
तस्य तस्य तथावस्थां कुरुते सापि योगिनी ॥ ४२॥
ॐ बले महाबले असिद्धसाधनी स्वाहेति ।
अमोघां पठति सिद्धां श्रीवैष्ण्वीम् ॥ ४३॥

श्रीमदपराजिताविद्यां ध्यायेत् ।
दुःस्वप्ने दुरारिष्टे च दुर्निमित्ते तथैव च ।
व्यवहारे भेवेत्सिद्धिः पठेद्विघ्नोपशान्तये ॥ ४४॥

यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वऽक्षरहीनमीडितम् ।
तदस्तु सम्पूर्णतमं प्रयान्तु मे सङ्कल्पसिद्धिस्तु सदैव जायताम् ॥ ४५॥

तव तत्त्वं न जानामि कीदृशासि महेश्वरि ।
यादृशासि महादेवी तादृशायै नमो नमः ॥ ४६॥
यादृशासि महादेवी तादृशायै नमो नमः ॥ ४६॥
॥ इति श्री त्रैलोक्य विजया अपराजिता स्तोत्रम् सम्पूर्णम ॥
॥ श्री अर्गला स्तोत्र ॥
॥ Shri Argala Stotra ॥
॥ ॐ गण गणपतये नमः ॥
श्री चण्डिका ध्यानम्
या चण्डी मधुकैटभादिदैत्यदलनी या माहिषोन्मूलिनी
या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी ।
शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिदात्री
परा सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी ॥

अथ अर्गला स्तोत्रम्
ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुरृषिः, अनुष्टुप् छन्दः,
श्रीमहालक्ष्मीर्देवता,श्रीजगदम्बाप्रीतये सप्तशतिपाठाङ्गत्वेन
जपे विनियोगः । ॐ नमश्वण्डिकायै
श्रीमहालक्ष्मीर्देवता,श्रीजगदम्बाप्रीतये सप्तशतिपाठाङ्गत्वेन
जपे विनियोगः । ॐ नमश्वण्डिकायै
मार्कण्डेय उवाच
ॐ जय त्वं देवि चामुण्डे जय भूतापहारिणि ।
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥ १॥
जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ २॥

मधुकैटभविध्वंसि विधातृवरदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ३॥
महिषासुरनिर्नाशि भक्तानां सुखदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ४॥

धूम्रनेत्रवधे देवि धर्मकामार्थदायिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ५॥
रक्तबीजवधे देवि चण्डमुण्डविनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ६॥

निशुम्भशुम्भनिर्नाशि त्रिलोक्यशुभदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ७॥
वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ८॥

अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ९॥
नतेभ्यः सर्वदा भक्त्या चापर्णे दुरितापहे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १०॥

स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ११॥
चण्डिके सततं युद्धे जयन्ति पापनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १२॥

देहि सौभाग्यमारोग्यं देहि देवि परं सुखम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १३॥
विधेहि देवि कल्याणं विधेहि विपुलां श्रियम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १४॥

विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १५॥
सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १६॥

विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां कुरु ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १७॥
देवि प्रचण्डदोर्दण्डदैत्यदर्पनिषूदिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १८॥

प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १९॥
चतुर्भुजे चतुर्वक्त्रसंसुते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २०॥

कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २१॥
हिमाचलसुतानाथसंस्तुते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २२॥

इन्द्राणीपतिसद्भावपूजिते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २३॥
देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २४॥

भार्यां मनोरमां देहि मनोवृत्तानुसारिणीम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २५॥
तारिणि दुर्गसंसारसागरस्याचलोद्भवे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २६॥

इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः ।
सप्तशतीं समाराध्य वरमाप्नोति दुर्लभम् ॥ २७॥

॥ इति अर्गलास्तोत्रं समाप्तम् ॥
॥ श्री अष्ट लक्ष्मी स्तोत्र ॥
॥ Shri Ashta Lakshami Stotra ॥
॥ ॐ गण गणपतये नमः ॥
॥ आदिलक्ष्मी ॥
सुमनसवन्दित सुन्दरि माधवि चन्द्र सहोदरि हेममये ।
मुनिगणमण्डित मोक्षप्रदायिनि मञ्जुळभाषिणि वेदनुते ॥
पङ्कजवासिनि देवसुपूजित सद्गुणवर्षिणि शान्तियुते ।
जयजय हे मधुसूदन कामिनि आदिलक्ष्मि सदा पालय माम् ॥ १॥

॥ धान्यलक्ष्मी ॥
अहिकलि कल्मषनाशिनि कामिनि वैदिकरूपिणि वेदमये ।
क्षीरसमुद्भव मङ्गलरूपिणि मन्त्रनिवासिनि मन्त्रनुते ॥
मङ्गलदायिनि अम्बुजवासिनि देवगणाश्रित पादयुते ।
जयजय हे मधुसूदन कामिनि धान्यलक्ष्मि सदा पालय माम् ॥ २॥

॥ धैर्यलक्ष्मी ॥
जयवरवर्णिनि वैष्णवि भार्गवि मन्त्रस्वरूपिणि मन्त्रमये ।
सुरगणपूजित शीघ्रफलप्रद ज्ञानविकासिनि शास्त्रनुते ॥
भवभयहारिणि पापविमोचनि साधुजनाश्रित पादयुते ।
जयजय हे मधुसूदन कामिनि धैर्यलक्ष्मि सदा पालय माम् ॥ ३॥

॥ गजलक्ष्मी ॥
जयजय दुर्गतिनाशिनि कामिनि सर्वफलप्रद शास्त्रमये ।
रथगज तुरगपदादि समावृत परिजनमण्डित लोकनुते ॥
हरिहर ब्रह्म सुपूजित सेवित तापनिवारिणि पादयुते ।
जयजय हे मधुसूदन कामिनि गजलक्ष्मि रूपेण पालय माम् ॥ ४॥

॥ सन्तानलक्ष्मी ॥
अहिखग वाहिनि मोहिनि चक्रिणि रागविवर्धिनि ज्ञानमये ।
गुणगणवारिधि लोकहितैषिणि स्वरसप्त भूषित गाननुते ॥
सकल सुरासुर देवमुनीश्वर मानववन्दित पादयुते ।
जयजय हे मधुसूदन कामिनि सन्तानलक्ष्मि त्वं पालय माम् ॥ ५॥

॥ विजयलक्ष्मी ॥
जय कमलासनि सद्गतिदायिनि ज्ञानविकासिनि गानमये ।
अनुदिनमर्चित कुङ्कुमधूसर- भूषित वासित वाद्यनुते ॥
कनकधरास्तुति वैभव वन्दित शङ्कर देशिक मान्य पदे ।
जयजय हे मधुसूदन कामिनि विजयलक्ष्मि सदा पालय माम् ॥ ६॥

॥ विद्यालक्ष्मी ॥
प्रणत सुरेश्वरि भारति भार्गवि शोकविनाशिनि रत्नमये ।
मणिमयभूषित कर्णविभूषण शान्तिसमावृत हास्यमुखे ॥
नवनिधिदायिनि कलिमलहारिणि कामित फलप्रद हस्तयुते ।
जयजय हे मधुसूदन कामिनि विद्यालक्ष्मि सदा पालय माम् ॥७॥

॥ धनलक्ष्मी ॥
धिमिधिमि धिंधिमि धिंधिमि धिंधिमि दुन्दुभि नाद सुपूर्णमये ।
घुमघुम घुंघुम घुंघुम घुंघुम शङ्खनिनाद सुवाद्यनुते ॥
वेदपुराणेतिहास सुपूजितवैदिकमार्ग प्रदर्शयुते ।
जयजय हे मधुसूदन कामिनि धनलक्ष्मि रूपेण पालय माम् ॥ ८॥

॥ इति श्री अष्ट लक्ष्मी स्तोत्रम् सम्पूर्णम ॥
॥ श्री बगलामुखी स्तोत्र ॥
॥ Shri Baglamukhi Stotra ॥
॥ ॐ गण गणपतये नमः ॥
चलत्कनककुण्डलोल्लसितचारुगण्डस्थलीं
लसत्कनकचम्पकद्युतिमदिन्दुबिम्बाननाम् ।
गदाहतविपक्षकां कलितलोलजिह्वांचलां स्मरामि
बगलामुखीं विमुखवाङ्मनस्स्तम्भिनीम् ॥ १॥

पीयूषोदधिमध्यचारुविलद्रक्तोत्पले मण्डपे
सत्सिंहासनमौलिपातितरिपुं प्रेतासनाध्यासिनीम् ।
स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदां विभ्रतीमित्थं
ध्यायति यान्ति तस्य सहसा सद्योऽथ सर्वापदः ॥ २॥

देवि त्वच्चरणाम्बुजार्चनकृते यः पीतपुष्पाञ्जलीन्भक्त्या
वामकरे निधाय च मनुं मन्त्री मनोज्ञाक्षरम् ।
पीठध्यानपरोऽथ कुम्भकवशाद्बीजं स्मरेत्पार्थिवं
तस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत्तत्क्षणात् ॥ ३॥

वादी मूकति रङ्कति क्षितिपतिर्वैश्वानरः शीतति
क्रोधी शाम्यति दुर्जनः सुजनति क्षिप्रानुगः खञ्जति ।
गर्वी खर्वति सर्वविच्च जडति त्वन्मन्त्रिणा यन्त्रितः
श्रीर्नित्ये बगलामुखि प्रतिदिनं कल्याणि तुभ्यं नमः ॥ ४॥

मन्त्रस्तावदलं विपक्षदलने स्तोत्रं पवित्रं च ते यन्त्रं
वादिनियन्त्रणं त्रिजगतां जैत्रं च चित्रं च ते ।
मातः श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे
त्वन्नामग्रहणेन संसदि मुखे स्तम्भो भवेद्वादिनाम् ॥ ५॥

दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणं
भूभृत्सन्दमनं चलन्मृगदृशां चेतःसमाकर्षणम् ।
सौभाग्यैकनिकेतनं समदृशः कारुण्यपूर्णेक्षणम्
मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥ ६॥

मातर्भञ्जय मद्विपक्षवदनं जिह्वां च सङ्कीलय
ब्राह्मीं मुद्रय दैत्यदेवधिषणामुग्रां गतिं स्तंभय ।
शत्रूंश्चूर्णय देवि तीक्ष्णगदया गौराङ्गि पीताम्बरे
विघ्नौघं बगले हर प्रणमतां कारुण्यपूर्णेक्षणे ॥ ७॥

मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये
श्रीविद्ये समये महेशि बगले कामेशि वामे रमे ।
मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे दासोऽहं
शरणागतः करुणया विश्वेश्वरि त्राहि माम् ॥ ८॥

संरम्भे चौरसङ्घे प्रहरणसमये बन्धने व्याधिमध्ये
विद्यावादे विवादे प्रकुपितनृपतौ दिव्यकाले निशायाम् ।
वश्ये वा स्तम्भने वा रिपुवधसमये निर्जने वा वने वा
गच्छंस्तिष्ठंस्त्रिकालं यदि पठति शिवं प्राप्नुयादाशु धीरः ॥ ९॥

त्वं विद्या परमा त्रिलोकजननी विघ्नौघसंछेदिनी
योषित्कर्षणकारिणी जनमनःसम्मोहसन्दायिनी ।
स्तम्भोत्सारणकारिणी पशुमनःसम्मोहसन्दायिनी
जिह्वाकीलनभैरवी विजयते ब्रह्मादिमन्त्रो यथा ॥ १०॥

विद्या लक्ष्मीर्नित्यसौभाग्यमायुः पुत्रैः पौत्रैः सर्वसाम्राज्यसिद्धिः ।
मानो भोगो वश्यमारोग्यसौख्यं प्राप्तं तत्तद्भूतलेऽस्मिन्नरेण ॥ ११॥

त्वत्कृते जपसन्नाहं गदितं परमेश्वरि ।
दुष्टानां निग्रहार्थाय तद्गृहाण नमोऽस्तु ते ॥ १२॥
पीताम्बरां च द्विभुजां त्रिनेत्रां गात्रकोमलाम् ।
शिलामुद्गरहस्तां च स्मरे तां बगलामुखीम् ॥ १३॥

ब्रह्मास्त्रमिति विख्यातं त्रिषु लोकेषु विश्रुतम् ।
गुरुभक्ताय दातव्यं न देयं यस्य कस्यचित् ॥ १४॥

नित्यं स्तोत्रमिदं पवित्रमिह यो देव्याः पठत्यादराद्धृत्वा
यन्त्रमिदं तथैव समरे बाहौ करे वा गले ।
राजानोऽप्यरयो मदान्धकरिणः सर्पा मृगेन्द्रादिकास्ते वै
यान्ति विमोहिता रिपुगणा लक्ष्मीः स्थिरा सिद्धयः ॥ १५॥

॥ इति श्री बगलामुखी स्तोत्रं सम्पूर्णम ॥
॥ श्री बाला त्रिपुरसुन्दरी स्तोत्र ॥
॥ Shri Bala Tripura Sundari Stotra ॥
॥ ॐ गण गणपतये नमः ॥
श्री भैरव उवाच
अधुना देवि ! बालायाः स्तोत्रं वक्ष्यामि पार्वति ! ।
पञ्चमाङ्गं रहस्यं मे श्रुत्वा गोप्यं प्रयत्नतः ॥

विनियोग
ॐ अस्य श्रीबालात्रिपुरसुन्दरीस्तोत्रमन्त्रस्य
श्री दक्षिणामूर्तिः ऋषिः, पङ्क्तिश्छन्दः,
श्रीबालात्रिपुरसुन्दरी देवता, ऐं बीजं, सौः शक्तिः,
क्लीं किलकं, श्रीबालाप्रीतये पाठे विनियोगः ।

ऋष्यादि न्यास
ॐ श्री दक्षिणामूर्तिऋषये नमः – शिरसि ।
ॐ श्री पङ्क्तिश्छन्दसे नमः – मुखे ।
ॐ श्रीबालात्रिपुरसुन्दरी देवतायै नमः – हृदि ।
ॐ ऐं बीजाय नमः – नाभौ ।
ॐ सौः शक्तये नमः – गुह्ये ।
ॐ क्लीं कीलकाय नमः – पादयोः ।
ॐ श्रीबालाप्रीतये पाठे विनियोगाय नमः – सर्वाङ्गे ।

करन्यासः
ॐ ऐं अङ्गुष्ठाभ्यां नमः ।
ॐ क्लीं तर्जनीभ्यां नमः ।
ॐ सौः मध्यमाभ्यां नमः ।
ॐ ऐं अनामिकाभ्यां नमः ।
ॐ क्लीं कनिष्ठिकाभ्यां नमः ।
ॐ सौः करतलकरपृष्ठाभ्यां नमः ।
ॐ क्लीं तर्जनीभ्यां नमः ।
ॐ सौः मध्यमाभ्यां नमः ।
ॐ ऐं अनामिकाभ्यां नमः ।
ॐ क्लीं कनिष्ठिकाभ्यां नमः ।
ॐ सौः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यास
ॐ ऐं हृदयाय नमः ।
ॐ क्लीं शिरसे स्वाहा ।
ॐ सौः शिखायै वौषट् ।
ॐ ऐं कवचाय हुम् ।
ॐ क्लीं नेत्रत्रयाय वौषतट् ।
ॐ सौः अस्त्राय फट् ।
ॐ क्लीं शिरसे स्वाहा ।
ॐ सौः शिखायै वौषट् ।
ॐ ऐं कवचाय हुम् ।
ॐ क्लीं नेत्रत्रयाय वौषतट् ।
ॐ सौः अस्त्राय फट् ।
ध्यान
अरुणकिरणजालै रञ्जिताशावकाशा ।
विधृतजपवटीका पुस्तकाभीतिहस्ता ।
इतरकरवराढ्या फुल्लकह्लारसंस्था ।
निवसतु हृदि बाला नित्यकल्याणरूपा ॥
विधृतजपवटीका पुस्तकाभीतिहस्ता ।
इतरकरवराढ्या फुल्लकह्लारसंस्था ।
निवसतु हृदि बाला नित्यकल्याणरूपा ॥
मानस पूजन
ॐ लं पृथिवीतत्त्वात्मकं गन्धं श्रीबालात्रिपुराप्रीतये समर्पयामि नमः ।
ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीबालात्रिपुराप्रीतये समर्पयामि नमः ।
ॐ यं वायुतत्त्वात्मकं धूपं श्रीबालात्रिपुराप्रीतये घ्रापयामि नमः ।
ॐ रं अग्नितत्त्वात्मकं दीपं श्रीबालात्रिपुराप्रीतये दर्शयामि नमः ।
ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीबालात्रिपुराप्रीतये निवेदयामि नमः ।
ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीबालात्रिपुराप्रीतये समर्पयामि नमः ।

मूल श्रीबालास्तोत्रम्
वाणीं जपेद् यस्त्रिपुरे ! भवान्या बीजं निशीथे जडभावलीनः ।
भवेत स गीर्वाणगुरोर्गरीयान् गिरीशपत्नि प्रभुतादि तस्य ॥ १॥ प्रभयार्दि तस्य
कामेश्वरि ! त्र्यक्षरी कामराजं जपेद् दिनान्ते तव मन्त्रराजम् । जपेद् रतान्ते
रम्भाऽपि जृम्भारिसभां विहाय भूमौ भजेत् तं कुलदीक्षितं च ॥ २॥

तार्तीयकं बीजमिदं जपेद् यस्त्रैलोक्यमातस्त्रिपुरे ! पुरस्तात् ।
विधाय लीलां भुवने तथान्ते निरामयं ब्रह्मपदं प्रयाति ॥ ३॥
धरासद्मत्रिवृत्ताष्टपत्रषट्कोणनागरे ।
विन्दुपीठेऽर्चयेद् बालां योऽसौ प्रान्ते शिवो भवेत् ॥ ४॥

फलश्रुति
इति मन्त्रमयं स्तवं पठेद् यस्त्रिपुराया निशि वा निशावसाने ।
स भवेद् भुवि सार्वभौममौलिस्त्रिदिवे शक्रसमानशौर्यलक्ष्मीः ॥ १॥
इतीदं देवि ! बालाया स्तोत्रं मन्त्रमयं परम् ।
अदातव्यमभक्तेभ्यो गोपनीयं स्वयोनिवत् ॥ २॥

॥ श्री बाला त्रिपुरसुन्दरी स्तोत्रम् सम्पूर्णम ॥
॥ श्री भगवती स्तोत्र ॥
॥ Bhagwati Stotra ॥
॥ ॐ गण गणपतये नमः ॥
जय भगवति देवि नमो वरदे जय पापनिवाशिनि बहुफलदे ।
जय शुम्भ-निशुम्भ कपालधरे प्रणमामि तु देवि नरार्तिहरे ॥ १॥
जय चन्द्रदिवाकर-नेत्रधरे जय पावकभूषितवक्त्रवरे ।
जय भैरवदेहनिलीनपरे जय अन्धकदैत्यविशोषकरे ॥ २॥

जय महिषविमर्दिनिशूलकरे जय लोकसमस्तकपापहरे ।
जय देवि पितामहविष्णुनुते जय भास्करशक्रशिराऽवनते ॥ ३॥
जय षण्मुख-सायुध-ईशनुते जय सागरगामिनि शम्भुनुते ।
जय दुःख-दरिद्र-विनाशकरे जय पुत्रकल त्रविवृद्धिकरे ॥ ४॥

जय देवि समस्तशरीरधरे जय नाकविदर्शिनि दुःखहरे ।
जय व्याधिविनाशिनि मोक्षकरे जय वांछितदायिनि सिद्धिकरे ॥ ५॥
एतद्व्यासकृतं स्तोत्रं यः पठेन्नियतः शुचिः ।
गृहे वा शुद्धभावेन प्रीता भगवती सदा ॥ ६॥

॥ इति श्री भगवतीस्तोत्रं सम्पूर्णम् ॥
॥ श्री चण्डी ध्वज स्तोत्र ॥
॥ Shri Chandi Dhwaja Stotra ॥
॥ ॐ गण गणपतये नमः ॥
अस्य श्री चण्डीध्वज स्त्रोत्र महामन्त्रस्य ।
मार्कण्डेय ऋशिः । अनुश्तुप् छन्दः ।
श्रीमहालक्ष्मीर्देवता । श्रां बीजम् । श्रीं शक्तिः ।
श्रूं कीलकम् । मम वाञ्छितार्थ फलसिद्ध्यर्थं विनियोगः ।
अङ्गन्यसः । श्रां श्रीं श्रुं श्रैं श्रौं श्रः इति कर हृदयादिन्यासौ ।

श्यानन्
ॐ श्रीं नमो जगत्प्रतिष्ठायै देव्यै भूत्यै नमो नमः ।
परमानन्दरूपायै नित्यायै सततं नमः ॥ १ ॥
नमस्तेऽस्तु महादेवि परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २ ॥

रक्षमां शरण्ये देवि धन-धान्य-प्रदायिनि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ३ ॥
नमस्तेऽस्तु महाकाली परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ४ ॥

नमस्तेऽस्तु महालक्ष्मी परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ५ ॥
महासरस्वती देवी परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ६ ॥

नमो ब्राह्मी नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ७ ॥
नमो महेश्वरी देवि परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ८ ॥

नमस्तेऽस्तु च कौमारी परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ९ ॥
नमस्ते वैष्णवी देवि परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १० ॥

नमस्तेऽस्तु च वाराही परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ११ ॥
नारसिंही नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १२ ॥

नमो नमस्ते इन्द्राणी परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १३ ॥
नमो नमस्ते चामुण्डे परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १४ ॥

नमो नमस्ते नन्दायै परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १५ ॥
रक्तदन्ते नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १६ ॥

नमस्तेऽस्तु महादुर्गे परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १७ ॥
शाकम्भरी नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १८ ॥

शिवदूति नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १९ ॥
नमस्ते भ्रामरी देवि परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २० ॥

नमो नवग्रहरूपे परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २१ ॥
नवकूट महादेवि परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २२ ॥

स्वर्णपूर्णे नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २३ ॥
श्रीसुन्दरी नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २४ ॥

नमो भगवती देवि परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २५ ॥
दिव्ययोगिनी नमस्ते परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २६ ॥
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २५ ॥
दिव्ययोगिनी नमस्ते परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २६ ॥
नमस्तेऽस्तु महादेवि परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २७ ॥
नमो नमस्ते सावित्री परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २८ ॥

जयलक्ष्मी नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २९ ॥
मोक्षलक्ष्मी नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ३० ॥

चण्डीध्वजमिदं स्तोत्रं सर्वकामफलप्रदम् ।
राजते सर्वजन्तूनां वशीकरण साधनम् ॥ ३२ ॥
राजते सर्वजन्तूनां वशीकरण साधनम् ॥ ३२ ॥
॥ श्री चण्डी ध्वज स्तोत्रम् सम्पूर्णम ॥
॥ श्री चण्डिका हृदय स्तोत्र ॥
॥ Shri Chandika Hridya Stotra ॥
॥ ॐ गण गणपतये नमः ॥
अस्य श्री चण्डिका हृदय स्तोत्र महामन्त्रस्य ।
मार्क्कण्डेय ऋषिः, अनुष्टुप्च्छन्दः, श्री चण्डिका देवता ।
ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, अस्य श्री चण्डिका प्रसाद
सिद्ध्यर्थे जपे विनियोगः । ह्रां इत्यादि षडंग न्यासः ।

ध्यानं
सर्वमंगळ मांगल्ये शिवे सर्वार्त्थ साधिके ।
शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तुते ॥
शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तुते ॥
ब्रह्मोवाच
अथातस्सं प्रवक्ष्यामि विस्तरेण यथातथं ।
चण्डिका हृदयं गुह्यं शृणुष्वैकाग्रमानसः ।
ॐ ऐं ह्रीं क्ळीं, ह्रां, ह्रीं, ह्रूं जय जय चामुण्डे,
चण्डिके, त्रिदश, मणिमकुटकोटीर संघट्टित
चरणारविन्दे, गायत्री, सावित्री, सरस्वति,
महाहिकृताभरणे, भैरवरूप धारिणी, प्रकटित
दंष्ट्रोग्रवदने,घोरे, घोराननेज्वल ज्वलज्ज्वाला
सहस्रपरिवृते, महाट्टहास बधरीकृत दिगन्तरे,
सर्वायुध परिपूर्ण्णे, कपालहस्ते, गजाजिनोत्तरीये,
भूतवेताळबृन्दपरिवृते, प्रकन्पित धराधरे,
मधुकैटमहिषासुर, धूम्रलोचन चण्डमुण्डरक्तबीज
शुंभनिशुंभादि दैत्यनिष्कण्ढके, काळरात्रि, महामाये,
शिवे, नित्ये, इन्द्राग्नियमनिरृति वरुणवायु सोमेशान
प्रधान शक्ति भूते,ब्रह्माविष्णु शिवस्तुते, त्रिभुवनाधाराधारे,
वामे, ज्येष्ठे, रौद्र्यंबिके, ब्राह्मी, माहेश्वरि, कौमारि,
वैष्णवी शंखिनीवाराहीन्द्राणी चामुण्डा शिवदूति महाकाळि
महालक्ष्मी, महासरस्वतीतिस्थिते, नादमध्यस्थिते,
महोग्रविषोरगफणामणिघटित मकुटकटकादिरत्न
महाज्वालामय पादबाहुदण्डोत्तमांगे, महामहिषोपरि गन्धर्व
विद्याधराराधिते, नवरत्ननिधिकोशे तत्त्वस्वरूपे
वाक्पाणिपादपायूपस्थात्मिके,शब्दस्पर्शरूपरसगन्धादि
स्वरूपे, त्वक्चक्षुः श्रोत्रजिह्वाघ्राणमहाबुद्धिस्थिते,
ॐ ऐंकार ह्रीं कार क्ळीं कारहस्ते आं क्रों आग्नेयनयनपात्रे
प्रवेशय, द्रां शोषय शोषय, द्रीं सुकुमारय सुकुमारय,
श्रीं सर्वं प्रवेशय प्रवेशय, त्रैलोक्यवर वर्ण्णिनि
समस्त चित्तं वशीकरु वशीकरु मम शत्रून्,
शीघ्रं मारय मारय, जाग्रत् स्वप्न सुषुप्त्य वस्थासु अस्मान्
राजचोराग्निजल वात विषभूत-शत्रुमृत्यु-ज्वरादि
स्फोटकादि नानारोगेभ्योः नानाभिचारेभ्यो नानापवादेभ्यः
परकर्म मन्त्र तन्त्र यन्त्रौषध शल्यशून्य क्षुद्रेभ्यः सम्यङ्मां
रक्ष रक्ष, ॐ ऐं ह्रां ह्रीं ह्रूं ह्रैं ह्रः, स्फ्रां स्फ्रीं स्फ्रैं स्फ्रौं स्फ्रः –
मम सर्व कार्याणिसाधय साधय हुं फट् स्वाहा –
राज द्वारे श्मशाने वा विवादे शत्रु सङ्कटे ।
भूताग्नि चोर मद्ध्यस्थे मयि कार्याणि साधय ॥ स्वाहा ।
चण्डिका हृदयं गुह्यं त्रिसन्ध्यं यः पठेन्नरः ।
सर्व काम प्रदं पुंसां भुक्ति मुक्तिं प्रियच्चति ॥

॥ इति श्री चण्डिकाहृदयस्तोत्रम् सम्पूर्णम ॥
॥ श्री छिन्नमस्ता स्तोत्र ॥
॥ Shri Chinnamasta Stotra ॥
॥ ॐ गण गणपतये नमः ॥
आनन्दयित्रि परमेश्वरि वेदगर्भे मातः पुरन्दरपुरान्तरलब्धनेत्रे ।
लक्ष्मीमशेषजगतां परिभावयन्तः सन्तो भजन्ति भवतीं धनदेशलब्ध्यै ॥ १॥
लज्जानुगां विमलविद्रुमकान्तिकान्तां कान्तानुरागरसिकाः परमेश्वरि त्वाम् ।
ये भावयन्ति मनसा मनुजास्त एते सीमन्तिनीभिरनिशं परिभाव्यमानाः ॥ २॥

मायामयीं निखिलपातककोटिकूटविद्राविणीं भृशमसंशयिनो भजन्ति ।
त्वां पद्मसुन्दरतनुं तरुणारुणास्यां पाशाङ्कुशाभयवराद्यकरां वरास्त्रैः ॥ ३॥
ते तर्ककर्कशधियः श्रुतिशास्त्रशिल्पैश्छन्दोऽ-भिशोभितमुखाः सकलागमज्ञाः ।
सर्वज्ञलब्धविभवाः कुमुदेन्दुवर्णांये वाग्भवे च भवतीं परिभावयन्ति ॥ ४॥

वज्रपणुन्नहृदया समयद्रुहस्तेवैरोचने मदनमन्दिरगास्यमातः ।
मायाद्वयानुगतविग्रहभूषिताऽसिदिव्यास्त्रवह्निवनितानुगताऽसि धन्ये ॥ ५॥
वृत्तत्रयाष्टदलवह्निपुरःसरस्य मार्तण्डमण्डलगतां परिभावयन्ति ।
ये वह्निकूटसदृशीं मणिपूरकान्तस्ते कालकण्टकविडम्बनचञ्चवः स्युः ॥ ६॥

कालागरुभ्रमरचन्दनकुण्डगोल-खण्डैरनङ्गमदनोद्भवमादनीभिः ।
सिन्दूरकुङ्कुमपटीरहिमैर्विधाय सन्मण्डलं तदुपरीह यजेन्मृडानीम् ॥ ७॥
चञ्चत्तडिन्मिहिरकोटिकरां विचेला-मुद्यत्कबन्धरुधिरां द्विभुजां त्रिनेत्राम् ।
वामे विकीर्णकचशीर्षकरे परे तामीडे परं परमकर्त्रिकया समेताम् ॥ ८॥

कामेश्वराङ्गनिलयां कलया सुधांशोर्विभ्राजमानहृदयामपरे स्मरन्ति ।
सुप्ताहिराजसदृशीं परमेश्वरस्थां त्वामाद्रिराजतनये च समानमानाः ॥ ९॥
लिङ्गत्रयोपरिगतामपि वह्निचक्र-पीठानुगां सरसिजासनसन्निविष्टाम् ।
सुप्तां प्रबोध्य भवतीं मनुजा गुरूक्तहूँकारवायुवशिभिर्मनसा भजन्ति ॥ १०॥।

शुभ्रासि शान्तिककथासु तथैव पीता स्तम्भे रिपोरथ च शुभ्रतरासि मातः ।
उच्चाटनेऽप्यसितकर्मसुकर्मणि त्वं संसेव्यसे स्फटिककान्तिरनन्तचारे ॥ ११॥
त्वामुत्पलैर्मधुयुतैर्मधुनोपनीतैर्गव्यैः पयोविलुलितैः शतमेव कुण्डे ।
साज्यैश्च तोषयति यः पुरुषस्त्रिसन्ध्यं षण्मासतो भवति शक्रसमो हि भूमौ ॥ १२॥

जाग्रत्स्वपन्नपि शिवे तव मन्त्रराजमेवं विचिन्तयति यो मनसा विधिज्ञः ।
संसारसागरसमृद्धरणे वहित्रं चित्रं न भूतजननेऽपि जगत्सु पुंसः ॥ १३॥
इयं विद्या वन्द्या हरिहरविरिञ्चिप्रभृतिभिः पुरारातेरन्तः पुरमिदमगम्यं पशुजनैः ।
सुधामन्दानन्दैः पशुपतिसमानव्यसनिभिः सुधासेव्यैः सद्भिर्गुरुचरणसंसारचतुरैः ॥ १४॥

कुण्डे वा मण्डले वा शुचिरथ मनुना भावयत्येव मन्त्री
संस्थाप्योच्चैर्जुहोति प्रसवसुफलदैः पद्मपालाशकानाम् ।
हैमं क्षीरैस्तिलैर्वां समधुककुसुमैर्मालतीबन्धुजातीश्वेतैरब्धं
सकानामपि वरसमिधा सम्पदे सर्वसिद्ध्यै ॥ १५॥

अन्धः साज्यं समांसं दधियुतमथवा योऽन्वहं यामिनीनां
मध्ये देव्यै ददाति प्रभवति गृहगा श्रीरमुष्यावखण्डा ।
आज्यं मांसं सरक्तं तिलयुतमथवा तण्डुलं पायसं वा
हुत्वा मांसं त्रिसन्ध्यं स भवति मनुजो भूतिभिर्भूतनाथः ॥ १६॥

इदं देव्याः स्तोत्रं पठति मनुजो यस्त्रिसमयं
शुचिर्भूत्वा विश्वे भवति धनदो वासवसमः ।
वशा भूपाः कान्ता निखिलरिपुहन्तुः सुरगणा
भवन्त्युच्चैर्वाचो यदिह ननु मासैस्त्रिभिरपि ॥ १७॥

॥ इति श्री छिन्नमस्ता स्तोत्रम् सम्पूर्णम ॥
॥ श्री डाकिनीस्तोत्र ॥
॥ Shri Dakini Stotra ॥
॥ ॐ गण गणपतये नमः ॥
आनन्दभैरवी उवाच
अथ वक्ष्ये महाकाल मूलपद्मविवेचनम् ।
यत् कृत्वा अमरो भूत्वा वसेत् कालचतुष्टयम् ॥ १॥
अथ षट्चक्रभेदार्थे भेदिनीशक्तिमाश्रयेत् ।
छेदिनीं सर्वग्रन्थीनां योगिनीं समुपाश्रयेत् ॥ २॥

तस्या मन्त्रान् प्रवक्ष्यामि येन सिद्धो भवेन्नरः ।
आदौ शृणु महामन्त्रं भेदिन्याः परं मनुम् ॥ ३॥
आदौ कालींसमुत्कृत्य ब्रह्ममन्त्रं ततः परम् ।
देव्याः प्रणवमुद्धृत्य भेदनी तदनन्तरम् ॥ ४॥

ततो हि मम गृह्णीयात् प्रापय द्वयमेव च ।
चित्तचञ्चीशब्दान्ते मां रक्ष युग्ममेव च ॥ ५॥
भेदिनी मम शब्दान्ते अकालमरणं हर ।
हर युग्मं स्वं महापापं नमो नमोऽग्निजायया ॥ ६॥

एतन्मन्त्रं जपेत्तत्र डाकिनीरक्षसि प्रभो ।
आदौ प्रणवमुद्धृत्य ब्रह्ममन्त्रं ततः परम् ॥ ७॥
शाम्भवीति ततश्चोक्त्वा ब्राह्मणीति पदं ततः ।
मनोनिवेशं कुरुते तारयेति द्विधापदम् ॥ ८॥

छेदिनीपदमुद्धृत्य मम मानसशब्दतः ।
महान्धकारमुद्धृत्य छेदयेति द्विधापदम् ॥ ९॥
स्वाहान्तं मनुमुद्धृत्य जपेन्मूलाम्बुजे सुधीः ।
एतन्मन्त्रप्रसादेन जीवन्मुक्तो भवेन्नरः ॥ १०॥

तथा स्त्रीयोगिनीमन्त्रं जपेत्तत्रैव शङ्कर ।
ॐ घोररूपिणिपदं सर्वव्यापिनि शङ्कर ॥ ११॥
महायोगिनि मे पापं शोकं रोगं हरेति च ।
विपक्षं छेदयेत्युक्त्वा योगं मय्यर्पय द्वयम् ॥ १२॥

स्वाहान्तं मनुमुद्धृत्य जपाद्योगी भवेन्नरः ।
खेचरत्वं समाप्नोति योगाभ्यासेन योगिराट् ॥ १३॥
डाकिनीं ब्रह्मणा युक्तां मूले ध्यात्वा पुनः पुनः ।
जपेन्मन्त्रं सदायोगी ब्रह्ममन्त्रेण योगवित् ॥ १४॥

ब्रह्ममन्त्रं प्रवक्ष्यामि तज्जापेनापि योगिराट् ।
ब्रह्ममन्त्रप्रसादेन जडो योगी न संशयः ॥ १५
प्रणवत्रयमुद्धृत्य दीर्घप्रणवयुग्मकम् ।
तदन्ते प्रणवत्रीणि ब्रह्म ब्रह्म त्रयं त्रयम् ॥ १६॥

सर्वसिद्धिपदस्यान्ते पालयेति च मां पदम् ।
सत्त्वं गुणो रक्ष रक्ष मायास्वाहापदं जपेत् ॥ १७॥
डाकिनीमन्त्रराजञ्च शृणुष्व परमेश्वर ।
यज्जप्त्वा डाकिनी वश्या त्रैलोक्यस्थितिपालकाः ॥ १८॥

यो जपेत् डाकिनीमन्त्रं चैतन्या कुण्डली झटित् ।
अनायासेन सिद्धिः स्यात् परमात्मप्रदर्शनम् ॥ १९॥
मायात्रयं समुद्धृत्य प्रणवैकं ततः परम् ।
डाकिन्यन्ते महाशब्दं डाकिन्यम्बपदं ततः ॥ २०॥

पुनः प्रणवमुद्धृत्य मायात्रयं ततः परम् ।
मम योगसिद्धिमन्ते साधयेति द्विधापदम् ॥ २१॥
मनुमुद्धृत्य देवेशि जपाद्योगी भवेज्जडः ।
जप्त्वा सम्पूजयेन्मन्त्री पुरश्चरणसिद्धये ॥ २२॥

सर्वत्र चित्तसाम्येन द्रव्यादिविविधानि च ।
पूजयित्वा मूलपद्मे चित्तोपकरणेन च ॥ २३॥
ततो मानसजापञ्च स्तोत्रञ्च कालिपावनम् ।
पठित्वा योगिराट् भूत्त्वा वसेत् षट्चक्रवेश्मनि ॥ २४॥

शक्तियुक्तं विधिं यस्तु स्तौति नित्यं महेश्वर ।
तस्यैव पालनार्थाय मम यन्त्रं महीतले ॥ २५॥
तत् स्तोत्रं शृणु योगार्थं सावधानावधारय ।
एतत्स्तोत्रप्रसादेन महालयवशो भवेत् ॥ २६॥

ब्रह्माणं हंससङ्घायुतशरणवदावाहनं देववक्त्र।
विद्यादानैकहेतुं तिमिचरनयनाग्नीन्दुफुल्लारविन्दम्
वागीशं वाग्गतिस्थं मतिमतविमलं बालार्कं चारुवर्णम् ।
डाकिन्यालिङ्गितं तं सुरनरवरदं भावयेन्मूलपद्मे ॥ २७॥

नित्यां ब्रह्मपरायणां सुखमयीं ध्यायेन्मुदा डाकिनी।
रक्तां गच्छविमोहिनीं कुलपथे ज्ञानाकुलज्ञानिनीम् ।
मूलाम्भोरुहमध्यदेशनिकटे भूविम्बमध्ये प्रभा।
हेतुस्थां गतिमोहिनीं श्रुतिभुजां विद्यां भवाह्लादिनीम् ॥ २८॥

विद्यावास्तवमालया गलतलप्रालम्बशोभाकरा।
ध्यात्वा मूलनिकेतने निजकुले यः स्तौति भक्त्या सुधीः ।
नानाकारविकारसारकिरणां कर्त्री विधो योगिना।
मुख्यां मुख्यजनस्थितां स्थितिमतिं सत्त्वाश्रितामाश्रये ॥ २९॥

या देवी नवडाकिनी स्वरमणी विज्ञानिनी मोहिनी ।
मां पातु पिरयकामिनी भवविधेरानन्दसिन्धूद्भवा ।
मे मूलं गुणभासिनी प्रचयतु श्रीः कीतीचक्रं हि मा।
नित्या सिद्धिगुणोदया सुरदया श्रीसंज्ञया मोहिता ॥ ३०॥

तन्मध्ये परमाकला कुलफला बाणप्रकाण्डाकरा
राका राशषसादशा शशिघटा लोलामला कोमला ।
सा माता नवमालिनी मम कुलं मूलाम्बुजं सर्वदा ।
सा देवी लवराकिणी कलिफलोल्लासैकबीजान्तरा ॥ ३१॥

धात्री धैर्यवती सती मधुमती विद्यावती भारती ।
कल्याणी कुलकन्यकाधरनरारूपा हि सूक्ष्मास्पदा ।
मोक्षस्था स्थितिपूजिता स्थितिगता माता शुभा योगिना।
नौमि श्रीभविकाशयां शमनगां गीतोद्गतां गोपनाम् ॥ ३२॥

कल्केशीं कुलपण्डितां कुलपथग्रन्थिक्रियाच्छेदिनी।
नित्यां तां गुणपण्डितां प्रचपलां मालाशतार्कारुणाम् ।
विद्यां चण्डगुणोदयां समुदयां त्रैलोक्यरक्षाक्षरा।
ब्रह्मज्ञाननिवासिनीं सितशुभानन्दैकबीजोद्गताम् ॥ ३३॥

गीतार्थानुभवपिरयां सकलया सिद्धप्रभापाटलाम् ।
कामाख्यां प्रभजामि जन्मनिलयां हेतुपिरयां सत्क्रियाम् ।
सिद्धौ साधनतत्परं परतरं साकाररूपायिताम् ॥ ३४॥

ब्रह्मज्ञानं निदानं गुणनिधिनयनं कारणानन्दयानम् ।
ब्रह्माणं ब्रह्मबीजं रजनिजयजनं यागकार्यानुरागम् ॥ ३५॥
शोकातीतं विनीतं नरजलवचनं सर्वविद्याविधिज्ञम् ।
सारात् सारं तरुं तं सकलतिमिरहं हंसगं पूजयामि ॥ ३६॥

एतत्सम्बन्धमार्गं नवनवदलगं वेदवेदाङ्गविज्ञम् ।
मूलाम्भोजप्रकाशं तरुणरविशशिप्रोन्नताकारसारम् ॥ ३७॥
भावाख्यं भावसिद्धं जयजयदविधिं ध्यानगम्यं
पुराणम्पाराख्यं पारणायं परजनजनितं ब्रह्मरूपं भजामि ॥ ३८॥

डाकिनीसहितं ब्रह्मध्यानं कृत्वा पठेत् स्तवम् ।
पठनाद् धारणान्मन्त्री योगिनां सङ्गतिर्भवेत् ॥ ३९॥
एतत्पठनमात्रेण महापातकनाशनम् ।
एकरूपं जगन्नाथं विशालनयनाम्बुजम् ॥ ४०॥
एवं ध्यात्वा पठेत् स्तोत्रं पठित्वा योगिराड् भवेत् ॥ ४१॥

॥ इति श्री डाकिनी स्तोत्रं सम्पूर्णम् ॥
॥ श्री देव्यपराध क्षमापण स्तोत्र ॥
॥ Shri Devyaparadha Kshamapana Stotra ॥
॥ ॐ गण गणपतये नमः ॥
न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहोन
चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः ।
न जाने मुद्रास्ते तदपि च न जाने विलपनं परं
जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ १॥

विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ २॥

पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ३॥

जगन्मातर्मातस्तव चरणसेवा न रचिता न
वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ४॥

परित्यक्ता देवा विविधविधसेवाकुलतया
मया पञ्चा शीतेरधिकमपनीते तु वयसि ।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ५॥

श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।
तवापर्णे कर्णे विशति मनु वर्णे फलमिदं जनः
को जानीते जननि जननीयं जपविधौ ॥ ६॥

चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥ ७॥
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥ ७॥
न मोक्षस्याकांक्षा भवविभववाञ्छापि च न मे न
विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥ ८॥

नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः ।
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥ ९॥
आपत्सु मग्नः स्मरणं त्वदीयं करोमि दुर्गे करुणार्णवेशि ।
नैतच्छठत्वं मम भावयेथाः क्षुधातृषार्ता जननीं स्मरन्ति ॥ १०॥

जगदम्ब विचित्र मत्र किं परिपूर्णा करुणास्ति चेन्मयि ।
अपराधपरम्परापरं न हि माता समुपेक्षते सुतम् ॥ ११॥
मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ॥ १२॥ ॐ ॥

॥ इति श्री देव्यपराध क्षमापण स्तोत्रम् सम्पूर्णम ॥
॥ श्री देवी क्षमापण स्तोत्र ॥
॥ Shri Devi Kshamapan Stotra ॥
॥ ॐ गण गणपतये नमः ॥
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्त्वा क्षमस्व परमेश्वरि ॥ १॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥ २॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥ ३॥
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।
यां गतिं समवान्पोति न तां ब्रह्मादयः सुराः ॥ ४॥

सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ ५॥
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ ६॥

कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥ ७॥
गृह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वप्रसादात्सुरेश्वरि ॥ ८॥

॥ इति श्री देवी क्षमापण स्तोत्रं सम्पूर्णम् ॥
॥ श्री देवी ताण्डव स्तोत्र ॥
॥ Shri Devi Tandava Stotra ॥
॥ ॐ गण गणपतये नमः ॥
अमरतापसभूपसुरयोगिभिर्नुतपदाबुरुहे प्रणमास्पदे
निगममूर्धिनि नित्यविनोदिनि भवभयाभवमां परमेश्वरी ।

अथ कुदाचित्
अकारोकारमकारबिन्दुनादस्वरूपिणी । अखिलजगदैककारिणी । अखण्डपरिपूर्ण
सच्चिदानन्द स्वरूपिणी । अरुणकोटिकोटि प्रकाशदर्शिताश्रयाशार्कसोममण्डला
नामुपरि । श्रीसादाख्य कलारूपत्वेनसाक्षिरूपतया । अनेककोटि ब्रह्माण्डानां ।
देवमनुश्यतिर्यग्योनिजातीनां । स्तापरजङ्गमाण्डजाति चतुर्विधयोनि जातानां ।

तेशुत्तममध्यमाधमानां । पुण्यमिश्रपापकर्मानु जातानामपि ।
अतलवितलसुतलतलातल महातल रसातल पातालसप्तधौलोकानां
भूर्भुवादिसप्तोर्ध्वलोकानां । सर्गस्थिति प्रलयहेतुभूततया । निरज्ञनाकरतया ।
नित्यशुद्धबुद्धमुक्तसत्य परमानन्दस्वरूपया वर्तमाने । इन्दुचूडप्रिये ।

शोडशकलाभारिन्दुरिव चन्द्रज्ञानविद्यायां प्रतिवादिते । नित्यानन्दैकरसानुभवचित्तानां
निर्मलानां । द्वैत प्रपञ्चवासनाव्यतिरक्तकलिमलदोशाणां ।शुद्धबोधानन्दाकार
सविन्मये पावके । सञ्चितागामिसकप्रारब्धकर्मोत्भव सुखसुखादिर्भिद्रवैर्यजतां ।
हुताशीनां निखिललोकैकसाक्षित्वेन । सर्वमङ्गलोपेतशिवस्वरूपत्वेन । तुर्यातीत

निश्चलनिर्विकल्प । सजातीय विजातीय स्वगतभेदरहित्वेन । त्रैपुटीसाक्षित्वेन ।
शरीरत्रय विलक्षणरूपतया ।अवस्थात्रय साक्षित्वेन पञ्चकोशव्यतिरक्त्वत्वेन
सच्चिदानन्दस्वरूपतया । तत्वमस्यादि महावाक्यजन्यज्ञानज्ञेय स्वरूपतया
शुद्धस्वयं प्रकाशे ज्योतिस्वरूपे । परब्रह्मणी । दीनवृत्तीनां अर्थपुत्रमित्रकलत्र-

सदनादिसंबन्धैः संसारैः कामक्रोधलोभमोहमदमात्सर्यरागद्वेशादिभिर्मेघैर्निमुक्ते
दहराकाशेतिशुचौ दशादि पञ्चदशकलाभिस्सकलरूपत्वेन । श्री सदाख्याभिधानया
कलया निश्कलस्वरूपत्वेन । पूर्णकारतयाच शशभृद्दिविविद्यामाने ईश्वरस्य गृहणी ।
ईश्वररुद्रविष्णुब्रह्माणां व्युत्क्रमेन सृष्टिस्थितिसंहार तिरोधान कर्तृभूतानां ।

नकारमकारशिवकाराणामपि हेमस्फटिक माणिक्यनीलवर्णानां मूलाधारं विहाय
चतुश्चत्वारिशद्वर्णनां पदानामुपरि यो ।यकाररूपः सदाशिवः तटिज्वलेवानु
मय्यानुग्रहशक्त्या अतिसूक्ष्माकार गगनाकारतयावर्तते । तदाकाफलकांविधाय
एतादृशगुणविशिष्टदिवसनो वेदवेदाङ्गवेदान्तादि सकलमताधिष्ठान रूपतया ।

शैवागमोक्तप्रकारात् । ॐकार स्वरूपतया । शाक्तानुगतसकलशास्त्राणां ।
पूर्वापरपक्षाणां । एकीभूताधारेय लक्ष्यस्वरूपतया । ह्रीइंकारस्वरूपतया ।
च अथवा परमरहस्याकारायां श्रीपञ्चदशाक्षर्यांआत्मविद्यामतिशूच्यां
हरिहरविरिञ्चादिभिरभ्यर्च्चमानियां । तस्योपासकानां । ईकारसहितश्रीकार

रेफबिन्दुस्वरूपतया विराजमाने । उत्कृष्टकर्मोपासना योगैश्वर्यादिशुविनुर्मुक्त-
चित्तानां शुद्धोपनिशत् संभृत वेदान्त वाक्यार्थवेदीनां परमहंसानांवरिष्ठवृतीनामति
वर्णाश्रम प्रवृत्तानांतत्वविदां नादरूपरहितानन्दाकार विश्वतैजस प्राज्ञानामपि विराट्
हिरण्यगर्भान्तर्यामिणाञ्च प्रजापत्य चिज्वलित शान्तानां मूलाधार

स्वाधिष्ठानमणिपूरकानां हत विशुध्याज्ञाचक्राणामुपरि चतुर्विंशति तत्वानश्च
सर्वज्ञ सर्वाकारण सर्वेश्वर सर्वान्तर्यामि सर्वसृष्टि सर्वस्थिति सर्वसंहार सप्तोपाधिभिः
र्ज्जहदजहत् लक्षणया सोयं देवतत्तेत्यखण्डवाक्यानुवृत्या । शिवकारतया च
परमात्मस्वरूपेण भासमामाणे आदिव्याधि उत्भव दुखैरतितीव्रै व्रजभिः

गृहक्षेत्रधनधान्य पुत्रमित्रकलत्रादिभिः रतिभयानकैजलजन्तुभिः दुस्तरे महावारिधौ
निमग्नमतिदीनं मां त्वदीयया भक्तरक्षणनिपुणया करुणाद्रया दृष्ट्या
उद्धरोद्धर रक्षरक्षत्वच्चरणारविन्दे निवेशय निवेशय ॥

॥ इति श्री देवी ताण्डव स्तोत्रम् सम्पूर्णम ॥
॥ धनलक्ष्मी स्तोत्र ॥
॥ Dhan Lakshmi Stotra ॥
॥ ॐ गण गणपतये नमः ॥
धनदा उवाच
देवी देवमुपागम्य नीलकण्ठं मम प्रियम् ।
कृपया पार्वती प्राह शंकरं करुणाकरम् ॥
कृपया पार्वती प्राह शंकरं करुणाकरम् ॥
देव्युवाच
ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् ।
दरिद्र दलनोपायमंजसैव धनप्रदम् ॥
दरिद्र दलनोपायमंजसैव धनप्रदम् ॥
शिव उवाच
पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः ।
उचितं जगदम्बासि तव भूतानुकम्पया ॥
स सीतं सानुजं रामं सांजनेयं सहानुगम् ।
प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम् ॥

धनदं श्रद्धानानां सद्यः सुलभकारकम् ।
योगक्षेमकरं सत्यं सत्यमेव वचो मम ॥
पठंतः पाठयंतोऽपि ब्रह्मणैरास्तिकोत्तमैः ।
धनलाभो भवेदाशु नाशमेति दरिद्रता ॥

भूभवांशभवां भूत्यै भक्तिकल्पलतां शुभाम् ।
प्रार्थयत्तां यथाकामं कामधेनुस्वरूपिणीम् ॥
धनदे धनदे देवि दानशीले दयाकरे ।
त्वं प्रसीद महेशानि! यदर्थं प्रार्थयाम्यहम् ॥

धराऽमरप्रिये पुण्ये धन्ये धनदपूजिते ।
सुधनं र्धामिके देहि यजमानाय सत्वरम् ॥
रम्ये रुद्रप्रिये रूपे रामरूपे रतिप्रिये ।
शिखीसखमनोमूर्त्ते प्रसीद प्रणते मयि ॥

आरक्त-चरणाम्भोजे सिद्धि-सर्वार्थदायिके ।
दिव्याम्बरधरे दिव्ये दिव्यमाल्यानुशोभिते ॥
समस्तगुणसम्पन्ने सर्वलक्षणलक्षिते ।
शरच्चन्द्रमुखे नीले नील नीरज लोचने ॥

चंचरीक चमू चारु श्रीहार कुटिलालके ।
मत्ते भगवती मातः कलकण्ठरवामृते ॥
हासाऽवलोकनैर्दिव्यैर्भक्तचिन्तापहारिके ।
रूप लावण्य तारूण्य कारूण्य गुणभाजने ॥

क्वणत्कंकणमंजीरे लसल्लीलाकराम्बुजे ।
रुद्रप्रकाशिते तत्त्वे धर्माधरे धरालये ॥
प्रयच्छ यजमानाय धनं धर्मेकसाधनम् ।
मातस्त्वं मेऽविलम्बेन दिशस्व जगदम्बिके ॥

कृपया करुरागारे प्रार्थितं कुरु मे शुभे ।
वसुधे वसुधारूपे वसु वासव वन्दिते ॥
धनदे यजमानाय वरदे वरदा भव ।
ब्रह्मण्यैर्ब्राह्मणैः पूज्ये पार्वतीशिवशंकरे ॥

स्तोत्रं दरिद्रताव्याधिशमनं सुधनप्रदम् ।
श्रीकरे शंकरे श्रीदे प्रसीद मयिकिंकरे ॥
पार्वतीशप्रसादेन सुरेश किंकरेरितम् ।
श्रद्धया ये पठिष्यन्ति पाठयिष्यन्ति भक्तितः ॥

सहस्रमयुतं लक्षं धनलाभो भवेद् ध्रुवम् ।
धनदाय नमस्तुभ्यं निधिपद्माधिपाय च ।
भवन्तु त्वत्प्रसादान्मे धन-धान्यादिसम्पदः ॥

॥ इति श्री धनलक्ष्मी स्तोत्रं सम्पूर्णम् ॥
॥ शिव कृतम् श्री दुर्गा स्तोत्र ॥
॥ Shiv Kritam Shri Durga Stotra ॥
॥ ॐ गण गणपतये नमः ॥
रक्ष रक्ष महादेवि दुर्गे दुर्गतिनाशिनि ।
मां भक्तमनुरक्तं च शत्रुग्रस्तं कृपामयि ॥ १॥
विष्णुमाये महाभागे नारायणि सनातनि ।
ब्रह्मस्वरूपे परमे नित्यानन्दस्वरूपिणी ॥ २॥

त्वं च ब्रह्मादिदेवानामम्बिके जगदम्बिके ।
त्वं साकारे च गुणतो निराकारे च निर्गुणात् ॥ ३॥
मायया पुरुषस्त्वं च मायया प्रकृतिः स्वयम् ।
तयोः परं ब्रह्म परं त्वं बिभर्षि सनातनि ॥ ४॥

वेदानां जननी त्वं च सावित्री च परात्परा ।
वैकुण्ठे च महालक्ष्मीः सर्वसम्पत्स्वरूपिणी ॥ ५॥
मर्त्यलक्ष्मीश्च क्षीरोदे कामिनी शेषशायिनः ।
स्वर्गेषु स्वर्गलक्ष्मीस्त्वं राजलक्ष्मीश्च भूतले ॥ ६॥

नागादिलक्ष्मीः पाताले गृहेषु गृहदेवता ।
सर्वसस्यस्वरूपा त्वं सर्वैश्वर्यविधायिनी ॥ ७॥
रागाधिष्ठातृदेवी त्वं ब्रह्मणश्च सरस्वती ।
प्राणानामधिदेवी त्वं कृष्णस्य परमात्मनः ॥ ८॥

गोलोके च स्वयं राधा श्रीकृष्णस्यैव वक्षसि ।
गोलोकाधिष्ठाता देवी वृन्दावनवने वने ॥ ९॥
श्रीरासमण्डले रम्या वृन्दावनविनोदिनी ।
शतशृङ्गाधिदेवी त्वं नाम्ना चित्रावलीति च ॥ १०॥

दक्षकन्या कुत्र कल्पे कुत्रकल्पे च शैलजा ।
देवमाता दितिस्त्वं च सर्वाधारा वसुन्धरा ॥ ११॥
त्वमेव गङ्गा तुलसी त्वं च स्वाहा स्वधा सती ।
त्वदंशांशांशकलया सर्वदेवादियोषितः ॥ १२॥

स्त्रीरूपं चापि पुरुषं देवि त्वं च नपुंसकम् ।
वृक्षाणां वृक्षरूपा त्वं सृष्टौ चाङ्कुररूपिणी ॥ १३॥
वह्नौ च दाहिका शक्तिर्जले शैत्यस्वरूपिणी ।
सूर्ये तेजस्वरूपा च प्रभारूपा च सन्ततम् ॥ १४॥

गन्धरूपा च भूमौ च आकाशे शब्दरूपिणी ।
शोभास्वरूपा चन्द्रे च पद्मसङ्घे च निश्चितम् ॥ १५॥
सृष्टौ सृष्टिस्वरूपा च पालने परिपालिका ।
महामारी च संहारे जले च जलरूपिणी ॥ १६॥

क्षुत् त्वं दया त्वं निद्रा त्वं तृष्णा त्वं बुद्धिरूपिणी ।
तुष्टिस्त्वं चपि पुष्टिस्त्वं श्रद्धा त्वं च क्षमा स्वयम् ॥ १७॥
शान्तिस्त्वं च स्वयं भ्रान्तिः कान्तिस्त्वं कीर्तिरेव च ।
लज्जा त्वं च तथा माया भुक्तिमुक्तिस्वरूपिणी ॥ १८॥

सर्वशक्तिस्वरूपा त्वं सर्वसंपत्प्रदायिनी ।
वेदेऽनिर्वचनीया त्वं त्वां न जानाति कश्चन ॥ १९॥
सहस्रवक्त्रस्त्वां स्तोतुं न शक्तः सुरेश्वरि ।
वेदाः न शक्ताः को विद्वान् न च शक्ता सरस्वती ॥ २०॥

स्वयं विधाता शक्तो न न च विष्णुः सनातनः ।
किं स्तौमि पञ्चवक्त्रेण रणत्रस्तो महेश्वरि ।
कृपां कुरु महामाये मम शत्रुक्षयं कुरु ॥ २१॥

॥ इति श्री दुर्गा स्तोत्रं संपूर्णम् ॥
॥ श्री गायत्री स्तोत्र ॥
॥ Shri Gayatri Stortra ॥
॥ ॐ गण गणपतये नमः ॥
नमस्ते देवि गायत्री सावित्री त्रिपदेऽक्षरी ।
अजरे अमरे माता त्राहि मां भवसागरात् ॥ १॥
नमस्ते सूर्यसंकाशे सूर्यवावित्रिकेऽमले ।
ब्रह्मविद्ये महाविद्ये वेदमातर्नमोऽस्तु ते ॥ २॥

अनन्तकोटि-ब्रह्माण्डव्यापिनी ब्रह्मचारिणी ।
नित्यानन्दे महामये परेशानी नमोऽस्तु ते ॥ ३॥
त्वं ब्रह्मा त्वं हरिः साक्षाद् रुद्रस्त्वमिन्द्रदेवता ।
मित्रस्त्वं वरुणस्त्वं च त्वमग्निरश्विनौ भगः ॥ ४॥

पूषाऽर्यमा मरुत्वांश्च ऋषयोऽपि मुनीश्वराः ।
पितरो नागयक्षांश्च गन्धर्वाऽप्सरसां गणाः ॥ ५॥
रक्षो-भूत-पिशाचाच्च त्वमेव परमेश्वरी ।
ऋग्-यजु-स्सामविद्याश्च अथर्वाङ्गिरसानि च ॥ ६॥

त्वमेव सर्वशास्त्राणि त्वमेव सर्वसंहिताः ।
पुराणानि च तन्त्राणि महागममतानि च ॥ ७॥
त्वमेव पञ्चभूतानि तत्त्वानि जगदीश्वरी ।
ब्राह्मी सरस्वती सन्ध्या तुरीया त्वं महेश्वरी ॥ ८॥

तत्सद्ब्रह्मस्वरूपा त्वं किञ्चित् सदसदात्मिका ।
परात्परेशी गायत्री नमस्ते मातरम्बिके ॥ ९॥
चन्द्रकलात्मिके नित्ये कालरात्रि स्वधे स्वरे ।
स्वाहाकारेऽग्निवक्त्रे त्वां नमामि जगदीश्वरी ॥ १०॥

नमो नमस्ते गायत्री सावित्री त्वं नमाम्यहम् ।
सरस्वती नमस्तुभ्यं तुरीये ब्रह्मरूपिणी ॥ ११॥
अपराध सहस्राणि त्वसत्कर्मशतानि च ।
मत्तो जातानि देवेशी त्वं क्षमस्व दिने दिने ॥ १२॥

॥ इति श्री गायत्री स्तोत्रं सम्पूर्णम् ॥
॥ श्री ज्वालामुखी स्तोत्र ॥
॥ Shri Jwalamukhi Stotra ॥
॥ ॐ गण गणपतये नमः ॥
श्रीभैरव उवाच
तारं यो भजते मातर्बीजं तव सुधाकरम् ।
पारावारसुता नित्यं निश्चला तद्गृहे वसेत् ॥ १॥

शून्यं यो दहनाधिरूढममलं वामाक्षिसंसेवितंसेन्दुं
बिन्दुयुतं भवानि वरदे स्वान्ते स्मरेत् साधकः ।
मूकस्यापि सुरेन्द्रसिन्धुजलवद्वाग्देवता भारती
गद्यः पद्यमयीं निरर्गलतरा मातर्मुखे तिष्ठति ॥ २॥

शुभं वह्न्यारूढं मतियुतमनल्पेष्टफलदंसबिन्द्वीन्दुं
मन्दो यदि जपति बीजं तव प्रियम् ।
तदा मातः स्वःस्त्रीजनविहरणक्लेशसहितः
सुखमिन्द्रोद्याने स्वपिति स भवत्पूजनरतः ॥ ३॥

ज्वालामुखीति जपते तव नामवर्णान्यः
साधको गिरिशपत्नि सुभक्तिपूर्वम् ।
तस्याङ्घ्रिपद्मयुगलं सुरनाथवेश्याः
सीमन्तरत्नकिरणैरनुरञ्जयन्ति ॥ ४॥
साधको गिरिशपत्नि सुभक्तिपूर्वम् ।
तस्याङ्घ्रिपद्मयुगलं सुरनाथवेश्याः
सीमन्तरत्नकिरणैरनुरञ्जयन्ति ॥ ४॥
पाशाम्बुजाभयधरे मम सर्वशत्रून्शब्दं
त्विति स्मरति यस्तव मन्त्रमध्ये ।
तस्याद्रिपुत्रि चरणौ बहुपांसुयुक्तौ
प्रक्षालयन्त्यरिवधूनयनाश्रुपाताः ॥ ५॥
त्विति स्मरति यस्तव मन्त्रमध्ये ।
तस्याद्रिपुत्रि चरणौ बहुपांसुयुक्तौ
प्रक्षालयन्त्यरिवधूनयनाश्रुपाताः ॥ ५॥
भक्षयद्वयमिदं यदि भक्त्या साधको जपति चेतसि मातः ।
स स्मरारिरिव त्वत्प्रसादतस्त्वत्पदं च लभते दिवानिशम् ॥ ६॥
कूर्चबीजमनघं यदि ध्यायेत् साधकस्तव महेश्वरि योऽन्तः ।
अष्ट हस्तकमलेषु सुवश्यास्तस्य त्र्यम्बकसमस्तसिद्धयः ॥ ७॥

ठद्वयं तव मनूत्तरस्थितं यो जपेत्तु परमप्रभावदम् ।
तस्य देवि हरिशङ्करादयः पूजयन्ति चरणौ दिवौकसः ॥ ८॥
ॐ ह्रीं श्रीं त्र्यक्षरे देवि सुरासुरनिसुदिनि ।
त्रैलोक्याभयदे मातर्ज्वालामुखि नमोऽस्तु ते ॥ ९॥

उदितार्कद्युते लक्ष्मि लक्ष्मीनाथसमर्चिते ।
वराम्बुजाभयधरे ज्वालामुखि नमोऽस्तु ते ॥ १०॥
सर्वसारमयि सर्वे सर्वामरनमस्कृते ।
सत्ये सति सदाचारे ज्वालामुखि नमोऽस्तु ते ॥ ११॥

यस्या मूर्ध्नि शशी त्रिलोचनगता यस्या रवीन्द्वग्नयः
पाशाम्भोजवराभयाः करतलाम्भोजेषु सद्धेतयः ।
गात्रे कुङ्कुमसन्निभा द्युतिरहिर्यस्यागले सन्ततं देवीं
कोटिसहस्ररश्मिसदृशीं ज्वालामुखीं नौम्यहम् ॥ १२॥

निद्रां नो भजते विधिर्भगवति शङ्का शिवं नो त्यजेद्
विष्णुर्व्याकुलतामलं कमलिनीकान्तोऽपि धत्ते भयम् ।
दृष्ट्वा देवि त्वदीयकोपदहनज्वालां ज्वलन्ति तदा देवः
कुङ्कुमपीतगण्डयुगलः संक्रन्दनः क्रन्दति ॥ १३॥

यामाराध्य दिवानिशं सुरसरित्तीरे स्तवैरात्मभू-
रुद्यद्भास्वरघर्मभानुसदृशीं प्राप्तोऽमरज्येष्ठताम् ।
दारिद्र्योरगदष्टलोकत्रितयीसञ्जिवनीं मातरं देवीं
तां हृदये शशाङ्कशकलाचूडावतंसा भजे ॥ १४॥

आपीनस्तनश्रोणिभारनमितां कन्दर्पदर्पोज्ज्वलां
लावण्याङ्कितरम्यगण्डयुगलां यस्त्वां स्मरेत् साधकः ।
वश्यास्तस्य धराभृदीश्वरसुते गीर्वाणवामभ्रुवः
पादाम्भोजतलं भजन्ति त्रिदशा गन्धर्वसिद्धादयः ॥ १५॥

हृत्वा देवि शिरो विधेर्यदकरोत् पात्रं कराम्भोरुहे
शूलप्रोतममुं हरिं व्यगमयत् सद्भूषणं स्कन्धयोः ।
कालान्ते त्रितयं मुखेन्दुकुहरे शम्भोः शिरः पार्वति
तन्मातर्भुवने विचित्रमखिलं जाने भक्त्याः शिवे ॥ १६॥

गायत्री प्रकृतिर्गलेऽपि विधृता सा त्वं शिवे वेधसा
श्रीरूपा हरिणापि वक्षसि धृताप्यर्धाङ्गभागे तथा ।
शर्वेणापि भवानि देवि सकलाः ख्यातुं न शक्ता वयं
त्वद्रूपं हृदि मादृशां जडधियां ध्यातुं कथैवास्ति का ॥ १७॥

ज्वालामुखीस्तवमिमं पठते यदन्तः श्रीमन्त्रराजसहितं विभवैकहेतुम् ।
इष्टप्रदानसमये भुवि कल्पवृक्षं स्वर्गं व्रजेत् सुरवधूजनसेवितः सः ॥ १८॥

॥ इति श्री ज्वालामुखी स्तोत्रं सम्पूर्णम् ॥
॥ श्री कामाक्षी स्तोत्र ॥
॥ Shri Kamakshi Stotra ॥
॥ ॐ गण गणपतये नमः ॥
कल्पानोकहपुष्पजालविलसन्नीलालकां मातृकां
कान्तां कञ्जदलेक्षणां कलिमलप्रध्वंसिनीं कालिकाम् ।
काञ्चीनूपुरहारदामसुभगां काञ्चीपुरीनायिकां
कामाक्षीं करिकुम्भसन्निभकुचां वन्दे महेशप्रियाम् ॥ १॥

काशाभांशुकभासुरां प्रविलसत्कोशातकीसन्निभां
चन्द्रार्कानललोचनां सुरुचिरालङ्कारभूषोज्ज्वलाम् ।
ब्रह्मश्रीपतिवासवादिमुनिभिः संसेविताङ्घ्रिद्वयां
कामाक्षीं गजराजमन्दगमनां वन्दे महेशप्रियाम् ॥ २॥

ऐं क्लीं सौरिति यां वदन्ति मुनयस्तत्त्वार्थरूपां परां
वाचां आदिमकारणं हृदि सदा ध्यायन्ति यां योगिनः ।
बालां फालविलोचनां नवजपावर्णां सुषुम्नाश्रितां
कामाक्षीं कलितावतंससुभगां वन्दे महेशप्रियाम् ॥ ३॥

यत्पादाम्बुजरेणुलेशं अनिशं लब्ध्वा विधत्ते विधिर्-
विश्वं तत् परिपाति विष्णुरखिलं यस्याः प्रसादाच्चिरम् ।
रुद्रः संहरति क्षणात् तद् अखिलं यन्मायया मोहितः
कामाक्षीं अतिचित्रचारुचरितां वन्दे महेशप्रियाम् ॥ ४॥

सूक्ष्मात् सूक्ष्मतरां सुलक्षिततनुं क्षान्ताक्षरैर्लक्षितां
वीक्षाशिक्षितराक्षसां त्रिभुवनक्षेमङ्करीं अक्षयाम् ।
साक्षाल्लक्षणलक्षिताक्षरमयीं दाक्षायणीं सक्षिणीं साक्षिणीं
कामाक्षीं शुभलक्षणैः सुललितां वन्दे महेशप्रियाम् ॥ ५॥

ओङ्काराङ्गणदीपिकां उपनिषत्प्रासादपारावतीम्
आम्नायाम्बुधिचन्द्रिकां अधतमःप्रध्वंसहंसप्रभाम् ।
काञ्चीपट्टणपञ्जराऽऽन्तरशुकीं कारुण्यकल्लोलिनीं
कामाक्षीं शिवकामराजमहिषीं वन्दे महेशप्रियाम् ॥ ६॥

ह्रीङ्कारात्मकवर्णमात्रपठनाद् ऐन्द्रीं श्रियं तन्वतीं
चिन्मात्रां भुवनेश्वरीं अनुदिनं भिक्षाप्रदानक्षमाम् ।
विश्वाघौघनिवारिणीं विमलिनीं विश्वम्भरां मातृकां
कामाक्षीं परिपूर्णचन्द्रवदनां वन्दे महेशप्रियाम् ॥ ७॥

वाग्देवीति च यां वदन्ति मुनयः क्षीराब्धिकन्येति च
क्षोणीभृत्तनयेति च श्रुतिगिरो यां आमनन्ति स्फुटम् ।
एकानेकफलप्रदां बहुविधाऽऽकारास्तनूस्तन्वतीं
कामाक्षीं सकलार्तिभञ्जनपरां वन्दे महेशप्रियाम् ॥ ८॥

मायामादिम्कारणं त्रिजगतां आराधिताङ्घ्रिद्वयाम्
आनन्दामृतवारिराशिनिलयां विद्यां विपश्चिद्धियाम् ।
मायामानुषरूपिणीं मणिलसन्मध्यां महामातृकां
कामाक्षीं करिराजमन्दगमनां वन्दे महेशप्रियाम् ॥ ९॥

कान्ता कामदुघा करीन्द्रगमना कामारिवामाङ्कगा
कामदुहा कल्याणी कलितावतारसुभगा कस्तूरिकाचर्चिता
कम्पातीररसालमूलनिलया कारुण्यकल्लोलिनी
कल्याणानि करोतु मे भगवती काञ्चीपुरीदेवता ॥ १०॥

॥ इति श्री कामाक्षी स्तोत्रं सम्पूर्णम् ॥
॥ श्री कमला स्तोत्र ॥
॥ Shri Kamla Stotra ॥
॥ ॐ गण गणपतये नमः ॥
ओंकाररूपिणी देवि विशुद्धसत्त्वरूपिणी ।
देवानां जननी त्वं हि प्रसन्ना भव सुन्दरि ॥
तन्मात्रंचैव भूतानि तव वक्षस्थलं स्मृतम् ।
त्वमेव वेदगम्या तु प्रसन्ना भव सुंदरि ॥

देवदानवगन्धर्वयक्षराक्षसकिन्नरः ।
स्तूयसे त्वं सदा लक्ष्मि प्रसन्ना भव सुन्दरि ॥
लोकातीता द्वैतातीता समस्तभूतवेष्टिता ।
विद्वज्जनकीर्त्तिता च प्रसन्ना भव सुंदरि ॥

परिपूर्णा सदा लक्ष्मि त्रात्री तु शरणार्थिषु ।
विश्वाद्या विश्वकत्रीं च प्रसन्ना भव सुन्दरि ॥
ब्रह्मरूपा च सावित्री त्वद्दीप्त्या भासते जगत् ।
विश्वरूपा वरेण्या च प्रसन्ना भव सुंदरि ॥

क्षित्यप्तेजोमरूद्धयोमपंचभूतस्वरूपिणी ।
बन्धादेः कारणं त्वं हि प्रसन्ना भव सुंदरि ॥
महेशे त्वं हेमवती कमला केशवेऽपि च ।
ब्रह्मणः प्रेयसी त्वं हि प्रसन्ना भव सुंदरि ॥

चंडी दुर्गा कालिका च कौशिकी सिद्धिरूपिणी ।
योगिनी योगगम्या च प्रसन्ना भव सुन्दरि ॥
बाल्ये च बालिका त्वं हि यौवने युवतीति च ।
स्थविरे वृद्धरूपा च प्रसन्ना भव सुन्दरि ॥

गुणमयी गुणातीता आद्या विद्या सनातनी ।
महत्तत्त्वादिसंयुक्ता प्रसन्ना भव सुन्दरि ॥
तपस्विनी तपः सिद्धि स्वर्गसिद्धिस्तदर्थिषु ।
चिन्मयी प्रकृतिस्त्वं तु प्रसन्ना भव सुंदरि ॥

त्वमादिर्जगतां देवि त्वमेव स्थितिकारणम् ।
त्वमन्ते निधनस्थानं स्वेच्छाचारा त्वमेवहि ॥
चराचराणां भूतानां बहिरन्तस्त्वमेव हि ।
व्याप्यव्याकरूपेण त्वं भासि भक्तवत्सले ॥

त्वन्मायया हृतज्ञाना नष्टात्मानो विचेतसः ।
गतागतं प्रपद्यन्ते पापपुण्यवशात्सदा ॥
तावन्सत्यं जगद्भाति शुक्तिकारजतं यथा ।
यावन्न ज्ञायते ज्ञानं चेतसा नान्वगामिनी ॥

त्वज्ज्ञानात्तु सदा युक्तः पुत्रदारगृहादिषु ।
रमन्ते विषयान्सर्वानन्ते दुखप्रदान् ध्रुवम् ॥
त्वदाज्ञया तु देवेशि गगने सूर्यमण्डलम् ।
चन्द्रश्च भ्रमते नित्यं प्रसन्ना भव सुन्दरि ॥

ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया ।
व्यक्ताव्यक्त च देवेशि प्रसन्ना भव सुन्दरि ॥
अचला सर्वगा त्वं हि मायातीता महेश्वरि ।
शिवात्मा शाश्वता नित्या प्रसन्ना भव सुन्दरि ॥

सर्वकायनियन्त्री च सर्वभूतेश्वरी ।
अनन्ता निष्काला त्वं हि प्रसन्ना भवसुन्दरि ॥
सर्वेश्वरी सर्ववद्या अचिन्त्या परमात्मिका ।
भुक्तिमुक्तिप्रदा त्वं हि प्रसन्ना भव सुन्दरि ॥

ब्रह्माणी ब्रह्मलोके त्वं वैकुण्ठे सर्वमंगला ।
इंद्राणी अमरावत्यामम्बिका वरूणालये ॥
यमालये कालरूपा कुबेरभवने शुभा ।
महानन्दाग्निकोणे च प्रसन्ना भव सुन्दरि ॥

सुरसा त्वं मणिद्वीपे ऐशान्यां शूलधारिणी ।
भद्रकाली च लंकायां प्रसन्ना भव सुन्दरि ॥
रामेश्वरी सेतुबन्धे सिंहले देवमोहिनी ।
विमला त्वं च श्रीक्षेत्रे प्रसन्ना भव सुन्दरि ॥

कालिका त्वं कालिघाटे कामाख्या नीलपर्वत ।
विरजा ओड्रदेशे त्वं प्रसन्ना भव सुंदरि ॥
वाराणस्यामन्नपूर्णा अयोध्यायां महेश्वरी ।
गयासुरी गयाधाम्नि प्रसन्ना भव सुंदरि ॥

भद्रकाली कुरूक्षेत्रे त्वंच कात्यायनी व्रजे ।
माहामाया द्वारकायां प्रसन्ना भव सुन्दरि ॥
क्षुधा त्वं सर्वजीवानां वेला च सागरस्य हि ।
महेश्वरी मथुरायां च प्रसन्ना भव सुन्दरि ॥

रामस्य जानकी त्वं च शिवस्य मनमोहिनी ।
दक्षस्य दुहिता चैव प्रसन्ना भव सुन्दरि ॥
विष्णुभक्तिप्रदां त्वं च कंसासुरविनाशिनी ।
रावणनाशिनां चैव प्रसन्ना भव सुन्दरि ॥

लक्ष्मीस्तोत्रमिदं पुण्यं यः पठेद्भक्सिंयुतः ।
सर्वज्वरभयं नश्येत्सर्वव्याधिनिवारणम् ॥
इदं स्तोत्रं महापुण्यमापदुद्धारकारणम् ।
त्रिसंध्यमेकसन्ध्यं वा यः पठेत्सततं नरः ॥

मुच्यते सर्वपापेभ्यो तथा तु सर्वसंकटात् ।
मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले ॥
समस्तं च तथा चैकं यः पठेद्भक्तित्परः ।
स सर्वदुष्करं तीर्त्वा लभते परमां गतिम् ॥

सुखदं मोक्षदं स्तोत्रं यः पठेद्भक्तिसंयुक्तः ।
स तु कोटीतीर्थफलं प्राप्नोति नात्र संशयः ॥
एका देवी तु कमला यस्मिंस्तुष्टा भवेत्सदा ।
तस्याऽसाध्यं तु देवेशि नास्तिकिंचिज्जगत् त्रये ॥

पठनादपि स्तोत्रस्य किं न सिद्धयति भूतले ।
तस्मात्स्तोत्रवरं प्रोक्तं सत्यं हि पार्वति ॥

॥ इति श्री कमला स्तोत्रं सम्पूर्णम् ॥
॥ श्री कनकधारा स्तोत्र ॥
॥ Shri Kanakdhara Stotra ॥
॥ ॐ गण गणपतये नमः ॥
अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गळदेवतायाः ॥ १॥
मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि ।
माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसंभवायाः ॥ २॥

आमीलिताक्षमधिगम्य मुदा मुकुन्दं आनन्दकन्दमनिमेषमनङ्गतन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ३॥
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयायाः ॥ ४॥

कालाम्बुदाळिललितोरसि कैटभारेः धाराधरे स्फुरति या तडिदङ्गनेव ।
मातुस्समस्तजगतां महनीयमूर्तिः भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ५॥
प्राप्तं पदं प्रथमतः खलु यत्प्रभावान्- माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं मन्दालसं च मकरालयकन्यकायाः ॥ ६॥

विश्वामरेन्द्रपदविभ्रमदानदक्षं आनन्दहेतुरधिकं मुरविद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्ध- मिन्दीवरोदरसहोदरमिन्दिरायाः ॥ ७॥
इष्टा विशिष्टमतयोऽपि यया दयार्द्र दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ८॥

दद्याद्दयानुपवनो द्रविणाम्बुधारां अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे ।
दुष्कर्मघर्ममपनीय चिराय दूरं नारायणप्रणयिनीनयनाम्बुवाहः ॥ ९॥
धीर्देवतेति गरुडध्वजसुन्दरीति गरुडध्वजभामिनीति शाकम्भरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १०॥

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११॥
नमोऽस्तु नालीकनिभाननायै नमोऽस्तु दुग्धोदधिजन्मभूम्यै ।
नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै ॥ १२॥

नमोऽस्तु हेमाम्बुजपीठिकायै नमोऽस्तु भूमण्डलनायिकायै ।
नमोऽस्तु देवादिदयापरायै नमोऽस्तु शार्ङ्गायुधवल्लभायै ॥ १३॥
नमोऽस्तु देव्यै भृगुनन्दनायै नमोऽस्तु विष्णोरुरसि स्थितायै ।
नमोऽस्तु लक्ष्म्यै कमलालयायै नमोऽस्तु दामोदरवल्लभायै ॥ १४॥

नमोऽस्तु कान्त्यै कमलेक्षणायै नमोऽस्तु भूत्यै भुवनप्रसूत्यै ।
नमोऽस्तु देवादिभिरर्चितायै नमोऽस्तु नन्दात्मजवल्लभायै ॥ १५॥
सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये ॥ १६॥

यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः ।
संतनोति वचनाङ्गमानसैः त्वां मुरारिहृदयेश्वरीं भजे ॥ १७॥
सरसिजनिलये सरोजहस्ते धवळतमांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १८॥

दिग्घस्तिभिः कनककुम्भमुखावसृष्ट स्वर्वाहिनी विमलचारुजलप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीमशेष लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १९॥
कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैरपाङ्गैः ।
अवलोकय मामकिञ्चनानां प्रथमं पात्रमकृत्रिमं दयायाः ॥ २०॥

देवि प्रसीद जगदीश्वरि लोकमातः कल्यानगात्रि कमलेक्षणजीवनाथे ।
दारिद्र्यभीतिहृदयं शरणागतं मां आलोकय प्रतिदिनं सदयैरपाङ्गैः ॥ २१॥
स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम् ।
गुणाधिका गुरुतरभाग्यभागिनो भवन्ति ते भुवि बुधभाविताशयाः ॥ २२॥

॥ इति श्री कनकधारा स्तोत्रं सम्पूर्णम् ॥
॥ श्री कीलक स्तोत्र ॥
॥ Shri Kilaka Stotra ॥
॥ ॐ गण गणपतये नमः ॥
ॐ अस्य श्रीकीलकमन्त्रस्य शिवऋषिः, अनुष्टुप् छन्दः
श्रीमहासरस्वती देवता, श्रीजगदम्बाप्रीत्यर्थं सप्तशती-
पाठाङ्गत्वेन जपे विनियोगः । ॐ नमश्चण्डिकायै ।
मार्कण्डेय उवाच । ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥ १॥

सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम् ।
सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः ॥ २॥
सिद्ध्यन्त्युच्चाटनादीनि कर्माणि सकलान्यपि ।
एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः ॥ ३॥

न मन्त्रो नौषधं तस्य न किञ्चिदपि विद्यते ।
विना जप्येन सिद्ध्येत्तु सर्वमुच्चाटनादिकम् ॥ ४॥
समग्राण्यपि सेत्स्यन्ति लोकशङ्कामिमां हरः ।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ॥ ५॥

स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः ।
समाप्नोति स पुण्येन तां यथावन्निमन्त्रणाम् ॥ ६॥
सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः ।
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ॥ ७॥

ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति ।
इत्थं रूपेण कीलेन महादेवेन कीलितम् ॥ ८॥
यो निष्कीलां विधायैनां चण्डीं जपति नित्यशः ।
स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् ॥ ९॥

न चैवापाटवं तस्य भयं क्वापि न जायते ।
नापमृत्युवशं याति मृते च मोक्षमाप्नुयात् ॥ १०॥
ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ।
ततो ज्ञात्वैव सम्पूर्णमिदं प्रारभ्यते बुधैः ॥ ११॥

सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने ।
तत्सर्वं तत्प्रसादेन तेन जप्यमिदम् शुभम् ॥ १२॥
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः ।
भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ॥ १३॥

ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेव च ।
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः ॥ १४॥
चण्डिकां हृदयेनापि यः स्मरेत् सततं नरः ।
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् ॥ १५॥
अग्रतोऽमुं महादेवकृतं कीलकवारणम् ।
निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः ॥ १६॥

॥ इति श्री कीलक स्तोत्रं समाप्तम् ॥
॥ श्री लक्ष्मी स्तोत्र ॥
॥ Shri Lakshi Stotra ॥
॥ ॐ गण गणपतये नमः ॥
जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये ।
जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥
महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥

पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे ।
सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ॥
जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।
दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तु ते ॥

नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि ।
वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतं ॥
रक्ष त्वं देवदेवेशि देवदेवस्य वल्लभे ।
दरिद्रात्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ॥

नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि ।
ब्रह्मादयो नमस्ते त्वां जगदानन्ददायिनि ॥
विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते ।
आर्तहन्त्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ॥

अब्जवासे नमस्तुभ्यं चपलायै नमो नमः ।
चंचलायै नमस्तुभ्यं ललितायै नमो नमः ॥
नमः प्रद्युम्नजननि मातुस्तुभ्यं नमो नमः ।
परिपालय भो मातर्मां तुभ्यं शरणागतं ॥

शरण्ये त्वां प्रपन्नोऽस्मि कमले कमलालये ।
त्राहि त्राहि महालक्ष्मि परित्राणपरायणे ॥
पाण्डित्यं शोभते नैव न शोभन्ति गुणा नरे ।
शीलत्वं नैव शोभेत महालक्ष्मि त्वया विना ॥

तावद्विराजते रूपं तावच्छीलं विराजते ।
तावद्गुणा नराणां च यावल्लक्ष्मीः प्रसीदति ॥
लक्ष्मित्वयालंकृतमानवा ये पापैर्विमुक्ता नृपलोकमान्याः ।
गुणैर्विहीना गुणिनो भवन्ति दुशीलिनः शीलवतां वरिष्ठाः ॥

लक्ष्मीर्भूषयते रूपं लक्ष्मीर्भूषयते कुलं ।
लक्ष्मीर्भूषयते विद्यां सर्वाल्लक्ष्मीर्विशिष्यते ॥
लक्ष्मि त्वद्गुणकीर्तनेन कमलाभूर्यात्यलं जिह्मतां ।
रुद्राद्या रविचन्द्रदेवपतयो वक्तुं च नैव क्षमाः ॥

अस्माभिस्तव रूपलक्षणगुणान्वक्तुं कथं शक्यते ।
मातर्मां परिपाहि विश्वजननि कृत्वा ममेष्टं ध्रुवं ॥
दीनार्तिभीतं भवतापपीडितं धनैर्विहीनं तव पार्श्वमागतं ।
कृपानिधित्वान्मम लक्ष्मि सत्वरं धनप्रदानाद्धन्नायकं कुरु ॥

मां विलोक्य जननि हरिप्रिये । निर्धनं त्वत्समीपमागतं ॥
देहि मे झटिति लक्ष्मि । कराग्रं वस्त्रकांचनवरान्नमद्भुतं ॥
त्वमेव जननी लक्ष्मि पिता लक्ष्मि त्वमेव च ॥
त्राहि त्राहि महालक्ष्मि त्राहि त्राहि सुरेश्वरि ।
त्राहि त्राहि जगन्मातर्दरिद्रात्त्राहि वेगतः ॥

नमस्तुभ्यं जगद्धात्रि नमस्तुभ्यं नमो नमः ।
धर्माधारे नमस्तुभ्यं नमः सम्पत्तिदायिनी ॥
दरिद्रार्णवमग्नोऽहं निमग्नोऽहं रसातले ।
मज्जन्तं मां करे धृत्वा सूद्धर त्वं रमे द्रुतं ॥

किं लक्ष्मि बहुनोक्तेन जल्पितेन पुनः पुनः ।
अन्यन्मे शरणं नास्ति सत्यं सत्यं हरिप्रिये ॥
एतच्श्रुत्वाऽगस्तिवाक्यं हृष्यमाण हरिप्रिया ।
उवाच मधुरां वाणीं तुष्टाहं तव सर्वदा ॥

लक्ष्मीरुवाच
यत्त्वयोक्तमिदं स्तोत्रं यः पठिष्यति मानवः ।
शृणोति च महाभागस्तस्याहं वशवर्तिनी ॥
नित्यं पठति यो भक्त्या त्वलक्ष्मीस्तस्य नश्यति ।
रणश्च नश्यते तीव्रं वियोगं नैव पश्यति ॥

यः पठेत्प्रातरुत्थाय श्रद्धा-भक्तिसमन्वितः ।
गृहे तस्य सदा स्थास्ये नित्यं श्रीपतिना सह ॥
सुखसौभाग्यसम्पन्नो मनस्वी बुद्धिमान् भवेत् ।
पुत्रवान् गुणवान् श्रेष्ठो भोगभोक्ता च मानवः ॥

इदं स्तोत्रं महापुण्यं लक्ष्म्यगस्तिप्रकीर्तितं ।
विष्णुप्रसादजननं चतुर्वर्गफलप्रदं ॥
राजद्वारे जयश्चैव शत्रोश्चैव पराजयः ।
भूतप्रेतपिशाचानां व्याघ्राणां न भयं तथा ॥

न शस्त्रानलतोयौघाद्भयं तस्य प्रजायते ।
दुर्वृत्तानां च पापानां बहुहानिकरं परं ॥
मन्दुराकरिशालासु गवां गोष्ठे समाहितः ।
पठेत्तद्दोषशान्त्यर्थं महापातकनाशनं ॥

सर्वसौख्यकरं नृणामायुरारोग्यदं तथा ।
अगस्रिआमुनिना प्रोक्तं प्रजानां हितकाम्यया ॥

॥ इति श्री लक्ष्मी स्तोत्रं सम्पूर्णं ॥
॥ श्री महालक्ष्मी स्तोत्र ॥
॥ Shri Maha Lakshmi Stotra ॥
॥ ॐ गण गणपतये नमः ॥
श्रीपराशर उवाच
सिंहासनगतः शक्रस्सम्प्राप्य त्रिदिवं पुनः ।
देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः ॥ १॥
देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः ॥ १॥
इन्द्र उवाच
नमस्ये सर्वलोकानां जननीमब्जसम्भवाम् ।
श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ॥ २॥
पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम्वन्दे
पद्ममुखीं देवीं पद्मनाभप्रियाम्यहम् ॥ ३॥

त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी ।
सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥ ४॥
यज्ञविद्या महाविद्या गुह्यविद्या च शोभने ।
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥ ५॥

आन्वीक्षिकी त्रयीवार्ता दण्डनीतिस्त्वमेव च ।
सौम्यासौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितम् ॥ ६॥
का त्वन्या त्वमृते देवि सर्वयज्ञमयं वपुः ।
अध्यास्ते देवदेवस्य योगचिन्त्यं गदाभृतः ॥ ७॥

त्वया देवि परित्यक्तं सकलं भुवनत्रयम् ।
विनष्टप्रायमभवत्त्वयेदानीं समेधितम् ॥ ८॥
दाराः पुत्रास्तथाऽऽगारं सुहृद्धान्यधनादिकम् ।
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम् ॥ ९॥

शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखम् ।
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥ १०॥
त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता ।
त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् ॥ ११॥

मनःकोशस्तथा गोष्ठं मा गृहं मा परिच्छदम् ।
मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि ॥ १२॥
मा पुत्रान्मा सुहृद्वर्गान्मा पशून्मा विभूषणम् ।
त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलाश्रये ॥ १३॥

सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः ।
त्यज्यन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयाऽमले ॥ १४॥
त्वयाऽवलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः ।
कुलैश्वर्यैश्च पूज्यन्ते पुरुषा निर्गुणा अपि ॥ १५॥

सश्लाघ्यः सगुणी धन्यः स कुलीनः स बुद्धिमान् ।
स शूरः सचविक्रान्तो यस्त्वया देवि वीक्षितः ॥ १६॥
सद्योवैगुण्यमायान्ति शीलाद्याः सकला गुणाः ।
पराङ्गमुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥ १७॥

न ते वर्णयितुं शक्तागुणाञ्जिह्वाऽपि वेधसः ।
प्रसीद देवि पद्माक्षि माऽस्मांस्त्याक्षीः कदाचन ॥ १८॥
प्रसीद देवि पद्माक्षि माऽस्मांस्त्याक्षीः कदाचन ॥ १८॥
श्रीपराशर उवाच
एवं श्रीः संस्तुता सम्यक् प्राह हृष्टा शतक्रतुम् ।
शृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज ॥ १९॥

श्रीरुवाच
परितुष्टास्मि देवेश स्तोत्रेणानेन ते हरेः ।
वरं वृणीष्व यस्त्विष्टो वरदाऽहं तवागता ॥ २०॥
वरं वृणीष्व यस्त्विष्टो वरदाऽहं तवागता ॥ २०॥
इन्द्र उवाच
वरदा यदिमेदेवि वरार्हो यदिवाऽप्यहम् ।
त्रैलोक्यं न त्वया त्याज्यमेष मेऽस्तु वरः परः ॥ २१॥
स्तोत्रेण यस्तवैतेन त्वां स्तोष्यत्यब्धिसम्भवे ।
स त्वया न परित्याज्यो द्वितीयोऽस्तुवरो मम ॥ २२॥

त्रैलोक्यं त्रिदशश्रेष्ठ न सन्त्यक्ष्यामि वासव ।
दत्तो वरो मयाऽयं ते स्तोत्राराधनतुष्ट्या ॥ २३॥
यश्च सायं तथा प्रातः स्तोत्रेणानेन मानवः ।
स्तोष्यते चेन्न तस्याहं भविष्यामि पराङ्गमुखी ॥ २४॥

श्रीपाराशर उवाच
एवं वरं ददौ देवी देवराजाय वै पुरा ।
मैत्रेय श्रीर्महाभागा स्तोत्राराधनतोषिता ॥ २५॥
भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वमुदधेः पुनः ।
देवदानवयत्नेन प्रसूताऽमृतमन्थने ॥ २६॥

एवं यदा जगत्स्वामी देवराजो जनार्दनः ।
अवतारः करोत्येषा तदा श्रीस्तत्सहायिनी ॥ २७॥
पुनश्चपद्मा सम्भूता यदाऽदित्योऽभवद्धरिः ।
यदा च भार्गवो रामस्तदाभूद्धरणीत्वियम् ॥ २८॥

राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि ।
अन्येषु चावतारेषु विष्णोरेखाऽनपायिनी ॥ २९॥
देवत्वे देवदेहेयं मानुषत्वे च मानुषी ।
विष्णोर्देहानुरुपां वै करोत्येषाऽऽत्मनस्तनुम् ॥ ३०॥

यश्चैतशृणुयाज्जन्म लक्ष्म्या यश्च पठेन्नरः ।
श्रियो न विच्युतिस्तस्य गृहे यावत्कुलत्रयम् ॥ ३१॥
पठ्यते येषु चैवर्षे गृहेषु श्रीस्तवं मुने ।
अलक्ष्मीः कलहाधारा न तेष्वास्ते कदाचन ॥ ३२॥

एतत्ते कथितं ब्रह्मन्यन्मां त्वं परिपृच्छसि ।
क्षीराब्धौ श्रीर्यथा जाता पूर्वं भृगुसुता सती ॥ ३३॥

इति सकलविभूत्यवाप्तिहेतुः स्तुतिरियमिन्द्रमुखोद्गता हि लक्ष्म्याः ।
अनुदिनमिह पठ्यते नृभिर्यैर्वसति न तेषु कदाचिदप्यलक्ष्मीः ॥ ३४॥

॥ इति श्री महालक्ष्मी स्तोत्रं सम्पूर्णम् ॥
॥ श्री नवदुर्गा स्तोत्र ॥
॥ Shri Nav Durga Stotra ॥
॥ ॐ गण गणपतये नमः ॥
देवी शैलपुत्री
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् ।
वृषारूढां शूलधरां शैलपुत्री यशस्विनीम् ॥

देवी ब्रह्मचारिणी
दधाना करपद्माभ्यामक्षमालाकमण्डलू ।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥

देवी चन्द्रघण्टेति
पिण्डजप्रवरारूढा चण्डकोपास्त्रकैर्युता ।
प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ॥

देवी कूष्मांडा
सुरासम्पूर्णकलशं रुधिराप्लुतमेव च ।
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥

देवीस्कन्दमाता
सिंहासनगता नित्यं पद्माश्रितकरद्वया ।
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥

देवीकात्यायनी
चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना ।
कात्यायनी शुभं दद्यादेवी दानवघातिनी ॥
कात्यायनी शुभं दद्यादेवी दानवघातिनी ॥
देवीकालरात्रि
एकवेणी जपाकर्णपूरा नग्ना खरास्थिता ।
लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥
वामपादोल्लसल्लोहलताकण्टकभूषणा ।
वर्धनमूर्ध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥

देवीमहागौरी
श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः ।
महागौरी शुभं दद्यान्महादेवप्रमोददा ॥
महागौरी शुभं दद्यान्महादेवप्रमोददा ॥
देवीसिद्धिदात्रि
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ।
सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ॥

॥ इति श्री नवदुर्गा स्तोत्रं सम्पूर्णम ॥
॥ श्री पार्वती स्तोत्र ॥
॥ Shri Parvati Stotra ॥
॥ ॐ गण गणपतये नमः ॥
विबुधाधिपतेजिनीशकान्ते वदनाभाजितयामिनीशकान्ते ।
नवकुन्दविराजमानदन्ते नलिनाभं प्रणमाम्यहं पदं ते ॥ १ ॥
विकचाम्बुरुहां विलासचोरैरतिशीतैः प्रवहद्दयाम्बुपूरैः ।
शशिशेखरचित्तनृत्तरङ्गैस्तरसालोकय देवि मामपाङ्गैः ॥ २ ॥

अवनीधरनायकस्य कन्ये कृपणं मां परिपालयातिधन्ये ।
विधिमाधववासवादिमान्ये द्रुतमुन्मूलितभक्तलोकदैन्ये ॥ ३ ॥
कुचनिन्दितशातकुम्भशैले मणिकाञ्चीवलयोल्लसद्दुकूले ।
परिपालय मां भवानि बाले त्रिजगद्रक्षणजागरूकलीले ॥ ४ ॥

स्वरुचा जिततप्तशातकुम्भे कचशोभाजितकालमेघडम्भे ।
परिपालय मां त्रसन्निशुम्भे मकुटोल्लासिसुधामयूखडिम्भे ॥ ५ ॥
कुसुमायुधजीवनाक्षिकोणे परितो मामव पद्मरागशोणे ।
स्मरवैरिवशीकृतप्रवीणे चरणाब्जानतसत्क्रियाधुरीणे ॥ ६ ॥

गिरिजे गगनोपमावलग्ने गिरितुङ्गस्तनगौरवेण भुग्ने ।
वस मे हृदये तवाङ्गलग्ने तव संदर्शनमोदसिन्धुमग्ने ॥ ७ ॥
सकलोपनिषत्सरोजवाटीकलहंस्यास्तव मे कवित्वधाटी ।
कृपयाविरभूदियं तु पेटी वहतु त्वद्गुणरम्यरत्नकोटीः ॥ ८ ॥

॥ इति श्री पार्वती स्तोत्रं संपूर्णम् ॥
॥ श्री सरस्वती स्तोत्र ॥
॥ Shri Sarasvati Stotra ॥
॥ ॐ गण गणपतये नमः ॥
ॐ अस्य श्रीसरस्वतीस्तोत्रमन्त्रस्य । ब्रह्मा ऋषिः । गायत्री छन्दः ।
श्रीसरस्वती देवता । धर्मार्थकाममोक्षार्थे जपे विनियोगः ।
आरूढा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं वामे हस्ते च
दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या । सा वीणां वादयन्ती स्वकरकरजपैः
शास्त्रविज्ञानशब्दैः, क्रीडन्ती दिव्यरूपा करकमलधरा भारती सुप्रसन्ना ॥ १॥

श्वेतपद्मासना देवी श्वेतगन्धानुलेपना ।
अर्चिता मुनिभिः सर्वैः ऋर्षिभिः स्तूयते सदा ।
एवं ध्यात्वा सदा देवीं वाञ्छितं लभते नरः ॥ २॥

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ ३॥

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या
वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ ४॥

ह्रीं ह्रीं हृद्यैकबीजे शशिरुचिकमले कल्पविस्पष्टशोभे
भव्ये भव्यानुकूले कुमतिवनदवे विश्ववन्द्यांघ्रिपद्मे ।
पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसम्पादयित्रि
प्रोत्फुल्लज्ञानकूटे हरिनिजदयिते देवि संसारसारे ॥ ५॥

ऐं ऐं ऐं दृष्टमन्त्रे कमलभवमुखाम्भोजभूतस्वरूपे
रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे ।
न स्थूले नैव सूक्ष्मेऽप्यविदितविभवे नापि विज्ञानतत्वे
विश्वे विश्वान्तरात्मे सुरवरनमिते निष्कले नित्यशुद्धे ॥ ६॥

ह्रीं ह्रीं ह्रीं जाप्यतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते
मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम् ।
विद्ये वेदान्तवेद्ये परिणतपठिते मोक्षदे मुक्तिमार्गे ।
मार्गातीतस्वरूपे भव मम वरदा शारदे शुभ्रहारे ॥ ७॥

धीं धीं धीं धारणाख्ये धृतिमतिनतिभिर्नामभिः कीर्तनीये
नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे ।
पुण्ये पुण्यप्रवाहे हरिहरनमिते नित्यशुद्धे सुवर्णे
मातर्मात्रार्धतत्वे मतिमति मतिदे माधवप्रीतिमोदे ॥ ८॥

ह्रूं ह्रूं ह्रूं स्वस्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्ते
सन्तुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणि स्तम्भविद्ये ।
मोहे मुग्धप्रवाहे कुरु मम विमतिध्वान्तविध्वंसमीडे
गीर्गौर्वाग्भारति त्वं कविवररसनासिद्धिदे सिद्धिसाध्ये ॥ ९॥

स्तौमि त्वां त्वां च वन्दे मम खलु रसनां नो कदाचित्त्यजेथा
मा मे बुद्धिर्विरुद्धा भवतु न च मनो देवि मे यातु पापम् ।
मा मे दुःखं कदाचित्क्वचिदपि विषयेऽप्यस्तु मे नाकुलत्वं
शास्त्रे वादे कवित्वे प्रसरतु मम धीर्मास्तु कुण्ठा कदापि ॥ १०॥

इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो
वाणी वाचस्पतेरप्यविदितविभवो वाक्पटुर्मृष्टकण्ठः ।
सः स्यादिष्टाद्यर्थलाभैः सुतमिव सततं पातितं सा च देवी
सौभाग्यं तस्य लोके प्रभवति कविता विघ्नमस्तं व्रयाति ॥ ११॥

र्निविघ्नं तस्य विद्या प्रभवति सततं चाश्रुतग्रन्थबोधः
कीर्तिस्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात् ।
दीर्घायुर्लोकपूज्यः सकलगुणनिधिः सन्ततं राजमान्यो
वाग्देव्याः सम्प्रसादात्त्रिजगति विजयी जायते सत्सभासु ॥ १२॥

ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः ।
सारस्वतो जनः पाठात्सकृदिष्टार्थलाभवान् ॥ १३॥
पक्षद्वये त्रयोदश्यामेकविंशतिसंख्यया ।
अविच्छिन्नः पठेद्धीमान्ध्यात्वा देवीं सरस्वतीम् ॥ १४॥

सर्वपापविनिर्मुक्तः सुभगो लोकविश्रुतः ।
वाञ्छितं फलमाप्नोति लोकेऽस्मिन्नात्र संशयः ॥ १५॥
ब्रह्मणेति स्वयं प्रोक्तं सरस्वत्याः स्तवं शुभम् ।
प्रयत्नेन पठेन्नित्यं सोऽमृतत्वाय कल्पते ॥ १६॥

॥ इति श्री सरस्वती स्तोत्रं सम्पूर्णम् ॥
॥ सिद्ध श्री कुञ्जिका स्तोत्र ॥
॥ Sidha Shri Kunjika Stotra ॥
॥ ॐ गण गणपतये नमः ॥
ॐ अस्य श्रीकुञ्जिकास्तोत्रमन्त्रस्य सदाशिव
ऋषिः, अनुष्टुप् छन्दः,श्रीत्रिगुणात्मिका देवता,
ॐ ऐं बीजं, ॐ ह्रीं शक्तिः, ॐ क्लीं कीलकम्,
मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

शृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् ।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १॥
न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥ २॥

कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।
अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥ ३॥
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।
मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् ।
पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४॥

अथ मन्त्रः
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।
ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ ५॥

इति मंत्रः
श्रूँ श्रूँ श्रूँ शं फट् ऐं ह्रीं क्लीं ज्वल उज्ज्वल प्रज्वल
ह्रीं ह्रीं क्लीं स्रावय स्रावय शापं नाशय नाशय
श्रीं श्रीं श्रीं जूं सः स्रावय आदय स्वाहा ।
ॐ श्लीं हूँ क्लीं ग्लां जूं सः ज्वल उज्ज्वल मन्त्रं
प्रज्वल हं सं लं क्षं फट् स्वाहा ।

नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ ६॥
नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ।
जाग्रतं हि महादेवि जपं सिद्धं कुरूष्व मे ॥ ७॥

ऐङ्कारी सृष्टिरूपायै ह्रीङ्कारी प्रतिपालिका ।
क्लीङ्कारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ ८॥
चामुण्डा चण्डघाती च यैकारी वरदायिनी ।
विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥ ९॥

धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।
क्रां क्रीं क्रूं कुञ्जिका देवि शां शीं शूं मे शुभं कुरु ॥ १०॥

कालिका देवि
हुं हुं हुङ्काररूपिण्यै जं जं जं जम्भनादिनी ।
ज्रां ज्रीं ज्रूं भालनादिनी ।
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ११॥

अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं ।
धिजाग्रम् धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥ १२॥

ॐ अं कं चं टं तं पं सां विदुरां विदुरां विमर्दय विमर्दय
ह्रीं क्षां क्षीं स्रीं जीवय जीवय त्रोटय त्रोटय
जम्भय जंभय दीपय दीपय मोचय मोचय
हूं फट् ज्रां वौषट् ऐं ह्ऱीं क्लीं रञ्जय रञ्जय
सञ्जय सञ्जय गुञ्जय गुञ्जय बन्धय बन्धय
भ्रां भ्रीं भ्रूं भैरवी भद्रे सङ्कुच सङ्कुच
त्रोटय त्रोटय म्लीं स्वाहा ॥ १२॥

पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा ।
म्लां म्लीं म्लूं मूलविस्तीर्णा कुञ्जिकास्तोत्र हेतवे ।
सां सीं सूं सप्तशती देव्या मंत्रसिद्धिं कुरूष्व मे ॥ १३॥

कुञ्जिकायै नमो नमः ।
इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे ।
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥ १४॥

यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत् ।
न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥ १५॥

॥ इति सिद्ध श्री कुञ्जिका स्तोत्रम् सम्पूर्णम् ॥
॥ श्री सिद्धिलक्ष्मी स्तोत्र ॥
॥ Shri Sidha Lakshmi Stotra ॥
॥ ॐ गण गणपतये नमः ॥
ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ
ऋषिः,अनुष्टुप् छन्दः, सिद्धिलक्ष्मीर्देवता, मम
समस्त दुःखक्लेशपीडादारिद्र्यविनाशार्थं
सर्वलक्ष्मीप्रसन्नकरणार्थं महाकाली महालक्ष्मी
महासरस्वती देवताप्रीत्यर्थं च
सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः ।

ॐ सिद्धिलक्ष्मी अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं विष्णुहृदये तर्जनीभ्यां नमः ।
ॐ क्लीं अमृतानन्दे मध्यमाभ्यां नमः ।
ॐ श्रीं दैत्यमालिनी अनामिकाभ्यां नमः ।
ॐ तं तेजःप्रकाशिनी कनिष्ठिकाभ्यां नमः ।
ॐ ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी माहेश्वरी
करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः ।
ॐ सिद्धिलक्ष्मी हृदयाय नमः ।
ॐ ह्रीं वैष्णवी शिरसे स्वाहा ।
ॐ क्लीं अमृतानन्दे शिखायै वौषट् ।
ॐ श्रीं दैत्यमालिनी कवचाय हुम् ।
ॐ तं तेजःप्रकाशिनी नेत्रद्वयाय वौषट् ।
ॐ ह्रीं क्लीं श्रीं ब्राह्मीं वैष्णवीं फट् ॥ अथ ध्यानम् ॥

ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखाम् ।
त्रिनेत्रां च त्रिशूलां च पद्मचक्रगदाधराम् ॥ १॥
पीताम्बरधरां देवीं नानालङ्कारभूषिताम् ।
तेजःपुञ्जधरां श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥ २॥

ॐकारलक्ष्मीरूपेण विष्णोर्हृदयमव्ययम् ।
विष्णुमानन्दमध्यस्थं ह्रींकारबीजरूपिणी ॥ ३॥
ॐ क्लीं अमृतानन्दभद्रे सद्य आनन्ददायिनी ।
ॐ श्रीं दैत्यभक्षरदां शक्तिमालिनी शत्रुमर्दिनी ॥ ४॥

तेजःप्रकाशिनी देवी वरदा शुभकारिणी ।
ब्राह्मी च वैष्णवी भद्रा कालिका रक्तशाम्भवी ॥ ५॥
आकारब्रह्मरूपेण ॐकारं विष्णुमव्ययम् ।
सिद्धिलक्ष्मि परालक्ष्मि लक्ष्यलक्ष्मि नमोऽस्तुते ॥ ६॥

सूर्यकोटिप्रतीकाशं चन्द्रकोटिसमप्रभम् ।
तन्मध्ये निकरे सूक्ष्मं ब्रह्मरूपव्यवस्थितम् ॥ ७॥
ॐकारपरमानन्दं क्रियते सुखसम्पदा ।
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ॥ ८॥

प्रथमे त्र्यम्बका गौरी द्वितीये वैष्णवी तथा ।
तृतीये कमला प्रोक्ता चतुर्थे सुरसुन्दरी ॥ ९॥
पञ्चमे विष्णुपत्नी च षष्ठे च वैएष्णवी तथा ।
सप्तमे च वरारोहा अष्टमे वरदायिनी ॥ १०॥

नवमे खड्गत्रिशूला दशमे देवदेवता ।
एकादशे सिद्धिलक्ष्मीर्द्वादशे ललितात्मिका ॥ ११॥
एतत्स्तोत्रं पठन्तस्त्वां स्तुवन्ति भुवि मानवाः ।
सर्वोपद्रवमुक्तास्ते नात्र कार्या विचारणा ॥ १२॥

एकमासं द्विमासं वा त्रिमासं च चतुर्थकम् ।
पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः ॥ १३॥
ब्राह्मणाः क्लेशतो दुःखदरिद्रा भयपीडिअताः ।
जन्मान्तरसहस्त्रेषु मुच्यन्ते सर्वक्लेशतः ॥ १४॥

अलक्ष्मीर्लभते लक्ष्मीमपुत्रः पुत्रमुत्तमम् ।
धन्यं यशस्यमायुष्यं वह्निचौरभयेषु च ॥ १५॥
शाकिनीभूतवेतालसर्वव्याधिनिपातके ।
राजद्वारे महाघोरे सङ्ग्रामे रिपुसङ्कटे ॥ १६॥

सभास्थाने श्मशाने च कारागेहारिबन्धने ।
अशेषभयसम्प्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः ॥ १७॥
ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारणम! ।
स्तुवन्ति ब्राह्मणा नित्यं दारिद्र्यं न च वर्धते ॥ १८॥

या श्रीः पद्मवने कदम्बशिखरे राजगृहे कुञ्जरे
श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते ।
शङ्खे देवकुले नरेन्द्रभवनी गङ्गातटे गोकुले सा
श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात्सदा निश्चला ॥ १९॥

॥ इति श्री सिद्धिलक्ष्मी स्तोत्रं सम्पूर्णम् ॥
॥ श्री सीताराम स्तोत्र ॥
॥ Shri Sita Ram Stotra ॥
॥ ॐ गण गणपतये नमः ॥
अयोध्यापुर-नेतारं मिथिलापुर-नायिकाम् ।
राघवाणामलङ्कारं वैदेहानामलङ्क्रियाम् ॥ १॥
रघूणां कुलदीपं च निमीनां कुलदीपिकाम् ।
सूर्यवंश-समुद्भूतं सोमवंश-समुद्भवाम् ॥ २॥

पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः ।
वशिष्ठानुमताचारं शतानन्दमतानुगाम् ॥ ३॥
कौसल्यागर्भ-सम्भूतं वेदिगर्भोदितां स्वयम् ।
पुण्डरीक-विशालाक्षं स्फुरदिन्दीवरेक्षणाम् ॥ ४॥

चन्द्रकान्ताननाम्भोजं चन्द्रबिम्बोपमाननाम् ।
मत्त-मातङ्ग-गमनं मत्त-हंस-वधू-गताम् ॥ ५॥
चन्दनार्द्र-भुजामध्यं कुङ्कुमार्द्र-कुचस्थलीम् ।
चापालङ्कृत-हस्ताब्जं पद्मालङ्कृत-पाणिकाम् ॥ ६॥

शरणागत-गोप्तारं प्रणिपाद-प्रसादिकाम् ।
कालमेघनिभं रामं कार्तस्वर-सम-प्रभाम् ॥ ७॥
दिव्य-सिंहासनासीनं दिव्य-स्रग्वस्त्र-भूषणाम् ।
अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षण-काङ्क्षिणौ ॥ ८॥

अन्योन्य-सदृशाकारौ त्रैलोक्यगृहदम्पती।
इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥ ९॥
अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः ।
तस्य तौ तनुतां पुण्यास्सम्पदः सकलार्थदाः ॥ १०॥

एवं श्रीरामचन्द्रस्य जानक्याश्च विशेषतः ।
कृतं हनूमता पुण्यं स्तोत्रं सद्यो विमुक्तिदम् ।
यः पठेत्प्रातरुत्थाय सर्वान् कामानवाप्नुयात् ॥ ११॥

॥ इति श्री सीताराम स्तोत्रं सम्पूर्णम् ॥
॥ श्री तारा स्तोत्र ॥
॥ Shri Tara Stotra ॥
॥ ॐ गण गणपतये नमः ॥
मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे
प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे ।
फुल्लेन्दीवरलोचने त्रिनयने कर्त्रीकपालोत्पले
खङ्गं चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥ १॥

वाचामीश्वरि भक्तिकल्पलतिके सर्वार्थसिद्धिश्वरि
गद्यप्राकृतपद्यजातरचनासर्वार्थसिद्धिप्रदे ।
नीलेन्दीवरलोचनत्रययुते कारुण्यवारान्निधे
सौभाग्यामृतवर्धनेन कृपयासिञ्च त्वमस्मादृशम् ॥ २॥

खर्वे गर्वसमूहपूरिततनो सर्पादिवेषोज्वले
व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते ।
सद्यःकृत्तगलद्रजःपरिमिलन्मुण्डद्वयीमूर्द्धज
ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय ॥ ३॥

मायानङ्गविकाररूपललनाबिन्द्वर्द्धचन्द्राम्बिके
हुंफट्कारमयि त्वमेव शरणं मन्त्रात्मिके मादृशः ।
मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परा
वेदानां नहि गोचरा कथमपि प्राज्ञैर्नुतामाश्रये ॥ ४॥

त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां
तस्याः श्रीपरमेश्वरत्रिनयनब्रह्मादिसाम्यात्मनः ।
संसाराम्बुधिमज्जने पटुतनुर्देवेन्द्रमुख्यासुरान्
मातस्ते पदसेवने हि विमुखान् किं मन्दधीः सेवते ॥ ५॥

मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिणस्ते
देवा जयसङ्गरे विजयिनो निःशङ्कमङ्के गताः ।
देवोऽहं भुवने न मे सम इति स्पर्द्धां वहन्तः परे
तत्तुल्यां नियतं यथा शशिरवी नाशं व्रजन्ति स्वयम् ॥ ६॥

त्वन्नामस्मरणात्पलायनपरान्द्रष्टुं च शक्ता न ते
भूतप्रेतपिशाचराक्षसगणा यक्षश्च नागाधिपाः ।
दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवो
डाकिन्यः कुपितान्तकश्च मनुजान् मातः क्षणं भूतले ॥ ७॥

लक्ष्मीः सिद्धिगणश्च पादुकमुखाः सिद्धास्तथा वैरिणां
स्तम्भश्चापि वराङ्गने गजघटास्तम्भस्तथा मोहनम् ।
मातस्त्वत्पदसेवया खलु नृणां सिद्ध्यन्ति ते ते गुणाः
क्लान्तः कान्तमनोभवोऽत्र भवति क्षुद्रोऽपि वाचस्पतिः ॥ ८॥

ताराष्टकमिदं पुण्यं भक्तिमान् यः पठेन्नरः ।
प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः ॥ ९॥
लभते कवितां विद्यां सर्वशास्त्रार्थविद्भवेत्
लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान्यथेप्सितान् ।
कीर्तिं कान्तिं च नैरुज्यं प्राप्यान्ते मोक्षमाप्नुयात् ॥ १०॥

॥ इति श्री तारा स्तोत्रम् सम्पूर्णम् ॥
॥ श्री उमामहेश्वर स्तोत्र ॥
॥ Shri Uma Maheshwara Stotra ॥
॥ ॐ गण गणपतये नमः ॥
नमः शिवाभ्यां नवयौवनाभ्याम् परस्पराश्लिष्टवपुर्धराभ्याम् ।
नागेन्द्रकन्यावृषकेतनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ १॥
नमः शिवाभ्यां सरसोत्सवाभ्याम् नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ २॥

नमः शिवाभ्यां वृषवाहनाभ्याम् विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ३॥
नमः शिवाभ्यां जगदीश्वराभ्याम् जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जम्भारिमुख्यैरभिवन्दिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ४॥

नमः शिवाभ्यां परमौषधाभ्याम् पञ्चाक्षरी पञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थिति संहृताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ५॥
नमः शिवाभ्यामतिसुन्दराभ्याम् अत्यन्तमासक्तहृदम्बुजाभ्याम् ।
अशेषलोकैकहितङ्कराभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ६॥

नमः शिवाभ्यां कलिनाशनाभ्याम् कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थितदेवताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ७॥
नमः शिवाभ्यामशुभापहाभ्याम् अशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्याम् स्मृतिसंभृताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ८॥

नमः शिवाभ्यां रथवाहनाभ्याम् रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखाम्बुजाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ९॥
नमः शिवाभ्यां जटिलन्धरभ्याम् जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ १०॥

नमः शिवाभ्यां विषमेक्षणाभ्याम् बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावती शान्तवतीश्वराभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ११॥
नमः शिवाभ्यां पशुपालकाभ्याम् जगत्रयीरक्षण बद्धहृद्भ्याम् ।
समस्त देवासुरपूजिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ १२॥

स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्याम् भक्त्या पठेद्द्वादशकं नरो यः ।
स सर्वसौभाग्य फलानि भुङ्क्ते शतायुरान्ते शिवलोकमेति ॥ १३॥

॥ इति श्री उमामहेश्वर स्तोत्रं सम्पूर्णम् ॥
॥ श्री विन्ध्यवासिनी स्तोत्र ॥
॥ Shri Vindhyavasini Stotra ॥
॥ ॐ गण गणपतये नमः ॥
श्रीनन्दगोपगृहिणीप्रभवा तनोतु भद्रं सदा मम सुरार्थपरा प्रसन्ना ।
विन्ध्याद्रि-गह्वरगताष्टभुजा प्रसिद्धा सिद्धैः सुसेवित-पदाब्जयुगा त्रिरूपा ॥ १॥
वेदैरगम्यमहिमा निजबोधतुष्टा नित्या गुणत्रयपराऽखिलभेदशून्या ।
एका प्रपञ्चकरणे त्रिगुणोरुशक्तिरुच्चावचाकृतिरथोऽचलजङ्गमात्मा ॥ २॥

पीयूष-सिन्धु-सुरपादपवाटिरत्नद्वीपे सुनीपवनशालिनि दुष्प्रवेशे ।
चिन्तामणि-प्रखचिते भवने निषण्णा विन्ध्येश्वरी श्रियमनल्पतरां करोतु ॥ ३॥
श्रुत्वा स्तुतिं विधिकृतां करुणार्द्रचित्ता नारायणेन सबलौ मधुकैटभाख्यौ ।
या सञ्जहार जगतां प्रलये तथा सा विन्ध्येश्वरी वितनुतां सुमनोरथान्मे ॥ ४॥

ब्रह्मेशविष्णु-पुरुहूत-हुताशनादितेजोभवा महिषपीडित-निर्जराणाम् ।
स्थानाप्तयेऽतिकृपया महिषं ममर्द विन्ध्येश्वरी हरतु रोगविपत्तिमाशु ॥ ५॥
या धूम्रचण्ड-बलिमुण्ड-निशुम्भ-शुम्भरक्तान्पिपेष सुरकार्यरताप्यनेका ।
दुःखाम्बुधौ निपतितस्य विमूढबुद्धेर्विन्ध्येश्वरी मम ददातु सुबुद्धिमम्बा ॥ ६॥

या दुर्गमं दनुभवं परिमर्द्य नाम्ना दुर्गा बभूव च ततान शुभं सुराणाम् ।
स्वाचारकर्म-विमुखस्य जुगुप्सितस्य विन्ध्येश्वरी दहतु वैरिगणान्समस्तान् ॥ ७॥
सम्प्राप्य जन्म वपुषः परिपोषणाय संख्यातिग-वृजिन-पुञ्जविधायिनो मे ।
चण्डासुरप्रमथिनी ललिता च नाम्ना विन्ध्येश्वरी हरतु जाड्यमहान्धकारम् ॥ ८॥

या तारयत्यखिल-दुष्कृतिलोकपुञ्जात्तारे’ति नाम गदिता भुवनेषु देवी ।
अज्ञानसिन्धुतरणे दृढनौस्वरूपा विन्ध्येश्वरी मम गुणाग्र्यसुतं ददातु ॥ ९॥
रक्ताम्बरा तरुणभानुरुचिः प्रसन्ना रक्ताम्बुजासन-कृतांघ्रियुगा धृतास्त्रा ।
रक्तैः स्वलङ्कृत-तनुर्मणिभूषणैश्च विन्ध्येश्वरी मम गिरं विशदां करोतु ॥ १०॥

रात्रीशकान्त-मणिकान्त-तनुर्विशाल-मुक्तालता-ललितवृत्तकुचा कृशाङ्गी ।
श्वेताम्बरा सितसरोजकृताधिवासा विन्ध्येश्वरी मम वचांसि पुनातु नित्यम् ॥ ११॥
आकर्ण्य दीनवचनं जननीव देवी पुत्रस्य मे सपदि सर्वगदान् जहार ।
लेखाङ्गनामुकुट-गुम्फित-चित्रपुष्प-रेणूत्करार्चित-पदाग्र नखांशुचन्द्रा ॥ १२॥

देवान्विहाय सकलानथ कर्म सर्वं लब्ध्वा जनुर्न कृतवांस्तव देवि! पूजाम् ।
मातर्नमामि सततं मनसा च वाचा देहेन पादकमलं शरणागतोऽहम् ॥ १३॥
देहीष्टमाशु विपुलं निजसेवकेभ्यो दारिद्र्यमम्ब हर चारिवधं कुरुष्व ।
शान्तिं च सर्वजगतां विशदां च बुद्धिं त्वं पालयातिकृपया चरणाब्जगं माम् ॥ १४॥

देव्याः स्तवं पठति यः शिवदं मनुष्यः पूतः श्रृणोति च मनो विविधैरभीष्टैः ।
पूर्णं हि तस्य भवति प्रसभं गदाश्च यान्ति क्षयं झटिति वायुकफानिलोत्थाः ॥ १५॥
त्र्यर्ष्यष्टभूमिमित-सर्वजिदाख्यवर्ष ईषे च मासि सितपक्षयुते कवीशः ।
स्तोत्रं लिलेख मथुरेश्वरमालवीयः सन्नाहमोचनभवो विधुरुद्रशम्याम् ॥ १६॥

स्तोत्र सङ्ग्रह
Reviewed by कृष्णप्रसाद कोइराला
on
अप्रैल 19, 2020
Rating:
कोई टिप्पणी नहीं: